________________ सामाइय 738 - अभिधानराजेन्द्रः - भाग 7 सामाइय प्रयत्नपरस्तथाभूत आत्मा सामायिकं न शेष इति। एवं व्यवहारे-णोक्ते सति ऋजुसत्रनय उवाच--यदि नाम यतमान आत्मा सामायिक तत एवं तामलिप्रभृतयोऽपि स्वच्छन्दसा यतमानाः सामायिक प्ररसक्तास्तेषापि स्वसयमानुगतयतनामात्रसम्भवात, नचैतदिष्ट तेषां मिथ्यादृष्टित्वात। तत एवं बुध्यस्व उपयुक्तो यतमान आत्मा सामायिकभिति। उपयुक्तो नाम ज्ञेयप्रत्याख्ययज्ञानप्रत्याख्यानपरिणामः, एवं सति तामलिप्रभृतीनां व्यवच्छेदस्तेषां सम्यग्ज्ञानसम्यक्प्रत्याख्यानासम्भवात्, एवम् ऋजुसूत्रणोक्ते शब्दनयोऽभाणीत्-- यधुपयुक्तो यतमान आत्मा सामायिकमेवंतीविरतसम्यगदृष्टयो देशविरताश्च सामायिक प्राप्नुवन्ति। तेषा.. मपि यथायोग ज्ञेयज्ञानप्रत्याख्येयप्रत्याख्यानसम्भवात् / तत एव माचक्ष्व- 'पट्सु संयत उपसंयुक्तो यतमान आत्मा सामायिकमिति / षट् -- पृथिवीकायिकादिषु सम्यक् सूत्रोक्तनीत्या यतः संघटनपरितापनादिभ्या विरतः संयतः। एवं चारित्रसम्यगदृष्टिदेशविरतव्यवच्छेदः, तेषा त्रिविधं त्रिविधेन षड्जीवनिकायपरितापनादिभ्यो विरत्यभावात् / एवमुक्ते समभिरूढः प्राह- यदि षट्सु जीवनिकायेषु संयत उपयुक्तो यतमान आत्मा सामायिक-मिति / त्रिगुप्तो नाममनावाचायगुप्तः / किमुक्तं भवति-अकुशलमनोवाक्काय-प्रवृत्तिनिरोधी कुशलमनोवाकायोद्दीयकः ‘एकग्रहणे तज्जातीयग्रहण' मिति न्यायात् पक्षसु ईर्याभाषणादानभाण्डमात्र-निक्षेपणोचारप्रश्रवणादिपरिष्ठापनरूपासु समितिषु समित इत्यपि गृह्यते / ततः प्रमत्तसं यतानां व्यवच्छेदः, तेषा निद्राविकथादिप्रमादोपेतानां यथोक्ते रूपगुप्तिसमित्यभावात् / एवं समभिरूढेणाभिहिते एवंभूतो वदति यदि नाप यथोक्तस्वरूप आत्मा सामायिक ततोऽप्रमत्तसंयतादयोऽपि सामायिक भवेयुस्तपामपि यथोक्तविशेषणविशिष्टत्वभावात, तत एवं प्रतिपद्यस्व सावायोगधिरतस्त्रिगुप्तः षट्सु संयत उपयुक्तो यतमान आत्मा सामायिकमिति / सावद्ययोगविरलो नाम अवयं कर्मबन्धः सहावा यस्य येन वास सावद्यः योगो व्यापारः सामर्थ्य वीर्यमित्येकार्थ "जोगो विरिय थाम, उच्छाह परक्कमो तहा चेट्टा / सत्ती सामत्थं चिय, जोगस्स हवंति पलाया / / 1 / / " इति वचनात सावद्यश्चासौ योगश्च सावहायोगस्तरमात विस्तः-प्रतिनिवृत्तः सावद्ययोगविरतो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिज्ञातसमरतसावद्ययोगः / किमुक्तं भवति-निरुद्धसूक्ष्मवादरमनोवाकाय व्यापारी विगतक्रियानिवृत्तिध्यानमधिरूढः शैलेशी प्रतिपन्नो नामात्मा सामायिकमिति, एवं चाप्रमत्तसंयतादीनां व्यवच्छेदस्तेषां मनोवाक्कायव्यापारवतया सावद्ययोगपरिकलितत्वात् “नस्थि हु सक्किरियाणं अबंधग किंचि इह अणुट्ठाण'' मिति वचनात् / नैगमस्य त्चनेकगमत्यात सगस्तैतद्विशेषणविशिष्टोऽन्यतरैकविशेषणविशिष्टो वा द्वित्रिचतुःपञ्चविशेषणविशिष्टो वा सामायिकमित्यतावन्मात्रमभ्युपगम्यत, ततः सावधव्यापारबहुलानामपि सामायिकत्वप्रसङ्गः / ततो मा वादीरवं, किन्त्वयं वदसावद्ययोगविरत आत्मा सामायिकमिति / एवं च सावहाव्यापारनिषण्णाना सामायिकत्वव्युदासः / ऋजुसूत्रः पुनः संयममेव सामायिकम मन्यते, न राम्यक्त्वसामायिक श्रुतसामायिक वा, विरत्यभावे तयोनिष्फलत्वात, ज्ञानस्य फलं विरतिरि' ति वचनात् / विरतिभावे च तयोस्तत्रैवान्तर्भावात्। तत उक्तप्रकारेण वदन्तं व्यवहार प्रति स प्राह-विरतिमि परिज्ञानमात्रेऽपि तदा शक्यभावतो लोके व्यवह्रियते। तथाहि- केचित प्रबल चारित्रावरणीयकम्मोदयसमेता कदाचित्तीर्थकरादिसमीपे धर्मश्रवणवेलायां नरकादिदुःखाकर्णनतस्तगीता विषयान्नरकादिकुगतिप्रपातहेतूनवबुध्य तेभ्यो विरज्यन्ते। हा धिग्यद्वयमेनेष्वेवंरूपेष्वपि पसक्ता इति लोकानामपि च तथारूपचेष्टादिदर्शनत एवं प्रत्यय उपजायते यदेते विरक्ता इति। परं तेनतान् विषयान् त्यक्तुं शक्नुवन्ति प्रबलवारित्रावरणीयकम्र्मोदयात् / ततः सावद्ययोगविरत आत्मा सामायिकमित्येतावन्मात्रोक्तौ तेषामपि सम्यक्त्वसामायिकवतां च व्यवहारतः सावद्ययोगविर-तानां सामायिकत्वं प्राप्नोति। तस्मादेवमभिधानीय सावद्य योग-विरतरित्रगुप्त आत्मा सामायिकमिति / त्रिगुप्त इत्यस्य व्याख्यानं प्राग्वत्। त्रिगुप्त इत्युपलक्षणं, ते पशसमित इत्यपि द्रष्टव्यं शब्दनयः पुनर्देशविरतिसामायिकमपि नेच्छति तत एवमभिदधानमृजुसूत्र प्रति स बूते- यदि नाम सावद्ययोगविरतास्त्रिगुप्तः सामायिक-मित्युच्यते ततो देशविरता अपि सामारिकं प्राप्नुवन्ति तेषामपि सामायिकं कुर्वता सावद्ययोगविरतत्वात, यथायोग पञ्चसमितित्रिगुप्तिभावाच्च / ततस्तेषां सामायिकत्वप्रतिषेधार्थमेवमभिदध्याःसावधयोगविरतस्त्रिगुप्तः षट्सु संयतः आत्मा सामायिकमिति / षट्सु संयतो नाम-त्रिविधं त्रिविधेन षट् सु जीवनिकायेषु संघट्टनपरितापनादिभ्यो विरतस्तत एव देशविरताना सामायिकमपि कुर्वतां सामायिकत्वव्युदासस्त्रिविधं त्रिविधन, विरत्यभावात द्विविधं त्रिविधेनेति, सामायिकसूत्रोचारणात्, समभिरूढः पुनः प्रम तसंयतानामपि सूक्ष्मसंपरायपर्यन्तानां सामायिकत्वं नेच्छति। तत्र उक्तप्रकारेण बुवन्त शब्दनयं प्रति स प्राह- यदि नाम सावद्ययोगविरतस्त्रिगुतः षट्सु संयत आत्मा सामायिकमिति, उपयुक्तो नाम-कषायादयलेशेनाप्यकलङ्कितः सन् समभावे व्यापृतस्ते च उपशान्तमोहादय एव न प्रमत्तसंयतादयस्ततस्तेषां व्युदासः / एवंभूतः पुनः समुद्धातादिगतं सयोगिकेवलिनमयोगिकेवलिन वा सामायिकनिच्छति, न शेष यतः सामायिकस्य फलं मोक्षस्ततो यैव सम्यक-समभावे व्यवस्थितस्य समस्तकर्मविमोक्षार्थमायोजिका करणसमुद्धातादिका विगतक्रियानिवर्तिध्यानप्रतिपत्तिरूपा वा क्रिया सेव सामायिकशब्दस्य प्रवृत्तिनिमिनमतस्तत्पतिपत्त्यर्थ विशेषणान्तरमाह- सावद्ययोगविरतस्त्रिगुप्तः षट्सु संयतः उपयुक्तो यतमान आत्मा सामायिकमिति / एवं चोपशान्तमोहादीनां सामायिकत्वप्रतिक्षेपस्तेषां यथोक्तलक्षणक्रियारूपाया यतनाया असम्भवात्, नंगमस्त्वनेकगमत्वादेव प्राग्वत् सामायिकमिच्छन् भावनीयः। आ०म०१ अ०। आ० चू०। (70) ननु कस्माजीव एवं सामायिक नाजीवादिः' इत्याशङ्कायां भाष्यकारः प्राहसद्दहइ जाणइजओ, पचक्खायं तओ जओ जीवो।