________________ सामाइय 737 - अभिधानराजेन्द्रः - भाग 7 सामाइय अथ वषे कारणस्य सर्वसंवरचारित्रस्योपकारिणी ज्ञानदर्शने, इति ते तस्य कारणम्, 'तेण' त्ति-तर्हि हन्त ! सर्वमपि भुवनं यतेनिदर्शनचारित्राणा कारणं प्राप्नोति, ज्ञेयश्रद्धेयप्रवृत्तिनिवृत्तिभावेन सर्वस्यापि भुवनस्य तदुपकारित्वादिति / न केवलं ज्ञेयादिभावेनोपकारमात्रात्, तथा, साधनभावेनापि-साधकतमत्वनापि देहमातापितृवस्त्रपात्राऽs - हारभेषजादिकं परम्परया बहुभेदं बहुप्रकार निर्वाणस्य मोक्षस्य-कारण विद्यते। ततरते तव ज्ञानादित्रिके को नियमः? ज्ञानदर्शनचारित्राणि मोक्षमार्गः 'इत्येवभूतः को निश्चयः? अन्यस्यापि परम्परया देहादेर्बहुप्रकारस्य तत्कारणस्य विद्यमानत्वादिति। अथ बहप्रकारकारणसंभवेऽपि यदेव प्रत्यासन्नतरं कारणं तदेव मोक्षस्य हेतुरिष्यते, न पुनरितरद् देहा-दिकमपि परंपरयोपकारकमपि तद्धेतुतयाऽभिधीयते ततो ज्ञानादित्रयमेव मोक्षहेतुरिति नियमः। अत्रोच्यते-यदि हन्त ! प्रत्यासन्नतया यदुपकुरुते तदव मोक्षकारणम्, न व्यवहितम्, ततस्तर्हि सर्वसंवरात्मक चारित्रमेव मोक्षमार्गो नान्यदिति प्रतिपद्यस्व, तस्यैवातिप्रत्यासन्नत्वादिति। आह-ननु यधेतदनन्तरोक्तं नैगभादिनयमतम, तर्हि स्थितः पक्षः कः? इत्याहइद्वत्थसाहयाई, सद्दहणाइगुणओ समेयाइं। सम्मकिरियाउरस्स व, इह पुण निव्वाणमिट्ठत्थो / / 2632 / / इह नेगमादय एकैकशो व्यस्तान्यपि त्रीणि सामायिकानि मोक्षकारणत्वेनेच्छन्ति, ऋजुसूत्रादयस्तुचारित्रमेवैकं तद्धेतुत्वेन प्रतिपद्यन्ते, इति तावद् नयमतं प्रतिपादितम् / स्थितपक्षे तु त्रीण्यपि ज्ञानादीनि सामायिकानि समुदितान्येवेष्टार्थसाधकानि, न त्वेकम, व्यस्तानि वा, यथाऽऽतुरस्य वैद्यभेषजाऽऽतुरप्रतिचारकलक्षणसमुदितचतुरङ्गसम्यक्रिया / सम्यक्त्वेन हि सम्यक्त्वं श्रद्धत्ते, ज्ञानेन तु जानाति, चारित्रण तु सर्वसावद्याद विरमतीति ! अतः ‘सद्दहणाइगुणउ' तिश्रद्धानादिगुणयुक्तत्वात समुदितेभ्य एव ज्ञानादिभ्य इष्टार्थसिद्धिर्नान्यथा / अत्र प्रयोगः- इहेशार्थस्य सामग्येव साधिका न त्वेक किश्चित्, तथैवोपलम्भात् यथाऽऽतुरस्य चतुरङ्ग सम्यक्रियासामग्री तदिष्टार्थस्य साधिका / स चेष्टार्थः पुनरिह प्रस्तुते निर्वाणं मोक्षा मन्तव्य इति / तदेवमुक्तमनुमतद्वारम् / तगणनेनैव समाप्ता ‘उद्देसे निहसे य निग्ग' इत्याद्युपोद्घातप्रथमद्वारगाथा। अथ 'कि कइविह' इत्यादि द्वितीयद्वारगाथावयवभूतं प्रथम 'किम्' इत्येतवार व्याख्येयम् / अतस्तत्प्रतिपादक नियुक्तिगाथायाः प्रस्तावना कुर्वन्नाहकिं सामइयं जीवो, अजीवो दव्वमहगुणो होजा। किं जीवाजीवमयं, होज तदत्थंतरं व त्ति? // 2633 / / किं सामायिक जीवः, उताजीवः? जीवाजीवत्वेऽपि कि द्रव्यं, गुणो वा भवेत / आहोस्विज्जीवाजीवमयमुभयम् / अथ जीवाऽजीवोभयेभ्योऽथान्तर खरविषाणवन्ध्यापुत्रकल्पं किमपि तद् भवेत्? इति द्वादशगाथार्थः / विशे० आ० म० तथाहि.. सामायिक विषयनिरूपणं प्रस्तुतं सामायिकाङ्गत्वात् यत् यत् सामायिका तत्तत्प्ररूपणं प्रस्तुत यथा सामायिकस्वात्मप्ररूपणमित्यलं विस्तरेण / तत्र यदुक्तम्-आत्मा खलु सामायिकमिति तत्र यथाभूतोऽसो. सामायिक तथाभूतमभिधित्सुराहसावजजोगविरतो, तिगुत्तो छसु संजतो। उवउत्तो जयमाणो, आया सामाइयं होई॥१४६।। अवध मिथ्यात्वकषायनोकषायलक्षण सहावद्य यस्य येन वा स सावद्यः स चासौ योगश्च सावद्ययोगस्तस्माद्विरतोनिवृत्तः सर्वसावद्ययोगविरतस्तथा त्रिभिर्मनोवाक्कायैर्गुप्तस्त्रिगुप्तः। तथा षट्सु जीवनिकायषु संयतः-प्रयत्नवान, अथ अवश्यकर्तव्येषु योगेषु सततमुपयुक्तो यतमानः यतनं तेषामासेवनम्। इत्थंभूत आत्मा सामायिकमिति। इयं मूलटीकानुसारेण व्याख्या। आ० न०१०। अनन्तरोक्तशङ्काऽसम्भवे इत्याहआया खलु सामइयं, पच्चक्खायं तओ हवइ आया। तं खलु पचक्खाणं, आयाए सव्वदव्याणं / / 2634 / / इह सामायिक कः? इत्याह- 'आया खलु ति-आत्मैवजीव एव सामायिकम्, न त्वजीवादिरिति भावः ‘पच्चक्खायं तओ हवइ आयं' ति--स चात्मा सावायोगं प्रत्याचक्षाणस्तत्प्रत्याख्यान कुर्वन प्रत्याख्यानक्रियाकाले सामायिक भवति, निश्चयनयमतेन 'क्रियम:गं कृतम्' इति क्रियाकालनिष्ठाकालयारभेदात्। न केवलं प्रत्याचक्षाणोऽसी वर्तमानकाले सामायिक भवति, किन्तूपलक्षणत्वात् कृतप्रत्याख्यानोऽपि सामायिकं भवतीति द्रष्टव्यम् / द्वितीय-मात्मग्रहणं किमर्थम? इति चेत्। उच्यते स एव सावद्ययोगप्रत्याख्यानयुक्तः परमार्थत आत्मा, श्रद्धानज्ञानसावधानिवृत्तिलक्षणस्वस्वभावावस्थितत्वात् / शेषसंसारः पुनरात्मैव न भवति, प्रचुरघातिकर्मभिस्तस्य स्वाभाविकगुणतिरस्करणादिति ज्ञापनार्थ पुनरात्मग्रहणमिति / तं खलु पचक्खाणं' तिखलुशब्दः सामायिकस्य जीवपरिणतित्वज्ञापनार्थः / ततोऽयमर्थ:तच्च प्रत्याख्यानं जीवपरिणतिरूपत्वाद् विषयमधिकृत्य 'आवाए सव्वदत्वाण' ति-सर्वषामपि जीवादिद्रव्याणामापाते अभिमुख्यन समवाये 'निष्पद्यते' इति शेषः / सर्वाणि जीवादिव्याणि सामायिकप्रत्याख्यानस्य श्रद्धेयज्ञेयप्रवृत्तिनिवृत्तिभावेनोपयुज्यन्ते, अतस्तत्समवार तद निष्पद्यत इत्यभिधीयते / न च सामायिकप्ररूपणे प्रस्तुत तद्विषयनिरूपणमरांबद्धमिति वक्तव्यम, तदङ्गत्वात् तत्स्वरूपवत् इति नियुक्तिगाथार्थः / विशे०। आ० म० साम्प्रतमियमेव गाथा कई कालिकसूत्रेऽपि प्रतिसूत्र पूर्वमवतरुर्नया इति सकौतुकविनेयजनानुग्रहारा पूर्वसूरिकृतध्याख्यानुसारेण नयाख्यायते / संग्रहनयः प्राह- आ गया सामायिक सामायिकशब्दवाच्यो न तदतिरिक्तं गुणान्तरं, गुणाना द्रव्यात् पृथग्भूतानामराम्भवात्, अपृथग्भूतानां द्रव्य एवान्तर्भावात, एवं युवाण संगह प्रतिव्यवहारोऽवोचत्---नशक्यमेतत्प्रतिपत्तुमतिप्रसङ्ग-दोषात ! तथाहि यद्यसी सामायिकं ततो यो य आत्मास सामायिकामेति प्रसरतात, एव प्ररूपय- 'जयमाणो आया सागाइयं होइ' इति यतमानो नाम