________________ माय 736 - अभिधानराजेन्द्रः - भाग 7 सामाइय मा रागमा चेति। हर समय देशविरतिचारित्रलक्षणेषु चतुलपि सामायिकेषु / प्रतिपन्नपनि प्रतितपदयोर्जघन्योत्कृष्टभेदभिन्नत्वात् तद्विशेषप्रतिपादनार्थम्गहपडियपडिवन्नयाणं, सट्ठाणे समहियं जहन्नाओ। सव्वत्थुक्कोसपयं, पटवज्जइ जहण्णओ चेगो / / 2774 / / इह सम्यक्त्वादिप्रतिपतितानां यज्जधन्यपदं तस्मात् स्वस्थाने यदुत्कृष्टपद तत् सर्वत्र समधिक विशेषाधिकमवगन्तव्यम् / एवं पूर्वप्रतिपन्नानामपि जघन्यपदादुत्कृष्टपदं विशेषाधिकमेव / प्रतिपद्यमानानां तर्हि का वार्ता? इत्याह- 'पवज्जई' त्यादि, प्रतिपद्यते सम्यक्त्वादिगुण जघन्यत एको द्वौ वा.उत्कृष्टतस्त्वाद्यसामायिक-- त्रयमसङ्ख्याताः, चारित्रं तूत्कृष्टतः प्रतिपद्यन्ते / अत इह जघन्यपदादुत्कृष्टपदमसंख्येयगुण संख्येयगुणं वा द्रष्टव्यम् इति गाथाऽष्टकार्थः। विशेष (66) अथ यस्य नयस्य यत् सामायिक मोक्षमार्गत्वेनानु-- मतम, तद्दर्शनस्वरूपमनुमतद्वार बिभणिषुराहतवसंजमो अणुमओ, नेग्गंथं पवयणं च ववहारो। सदुज्जुसुयाणं पुण,निव्वाणं संजमो चेव / / 2621 // तापयतीति तपरतत्प्रधानः संयमस्तपःसंयमश्चारित्र सामायिकमित्यर्थः / तथा निर्ग्रन्थानामिदं नैन्थ्यमार्हलभिति भावना, प्रवधनं श्रुतसामायिकमित्यर्थः / चशब्दोऽनुक्तसम्यक्त्वसामायिकपरिग्रहार्थः / एतानि त्रीण्यपि सामायिकानि मोक्षमार्गत्वेन ममानुमतानीति बूते व्यवहारनयः। एतद्ग्रहणे चाधोवर्तिनौ नैगमसंग्रहावपि गृहीती द्रष्टयौ। ततश्चेदमुक्तं भवति-नैगमसंग्रहव्यवहारास्त्रिविधमपि सामायिक मोक्षमार्ग तयाऽनुमन्यन्ते / शब्दर्जुसूत्रयोः पुनर्निर्वाणं निवर्पणमार्गोऽभिमतः संयम एव चारित्रसामायिकमेवेत्यर्थः, नेतरे द्वे, सर्वसवररूपचारित्रानन्तरमेव मोक्षप्राप्तः, इति नियुक्तिगाथासंक्षपार्थः / विस्तरार्थ भाष्यकारःप्राहकस्स नयस्साणुमयं, किं सामाइयमिह मोक्खमग्गो त्ति। भन्नइ नेगमसंगह-ववहाराणं तु सव्वाइं॥२६२२|| तवसंजमो त्ति चरितं, निग्गंथं पवयणं ति सुयनाणं। तग्गहणे सम्मत्त,च ग्गहणाओ य बोद्धव्वं // 2623|| गाथाद्वयमपि गतार्थम् / नवर 'सव्वाई' ति-सम्यक्तवश्रुतचारित्ररूपाणि त्रीण्यपि सामायिकानीत्यर्थः। अथ परप्रेर्यमाशङ्कय परिहरन्नाहतिन्नि वि सामइयाई, इच्छंता मोक्खमग्गमाइला / किं मिच्छट्ठिीया, वयंतिजं समुइयाइं पि॥२६२४|| आह नन्वाद्या नेगमसग्रहव्यवहारलक्षणास्त्रयो नया उक्तन्यायेन चारित्रश्रुतसम्यवस्वरूपाणि सामायिकानि मोक्षमार्गत्वेनेच्छन्तः किमिति मिथ्यादृष्टयः?-किमिति नयमतमिदं गीयते?-सम्पूर्ण जिनमतमेव करमादेतद् न भवति? इत्यर्थः / नहि जैनैरपि ज्ञान-दर्शनचारित्रेभ्योऽन्यदुनमधिक वा किमपि मोक्षमार्गत्वनेष्यते? अत्रोत्तरमाह- 'वयंती' त्यादि,यत्--यस्मादसमुदितान्यप्येतानि मोक्षमार्गत्वेन वदन्ति नेगमा दयः, न तु 'ज्ञानादित्रयादेव मोक्षः' इति नियम कुवत, न गत्वहानिप्रसङ्गात् / अत एते मिथ्यादृष्टय इति। 'सद्दुज्जुसुयाण पुण' इत्यादि गाथादल व्याख्यातुमाहउज्जुसुयाइमयं पुण, निव्वाणपहो चरितमेवेगं / न हि नाणदंसणाई, भावे विन तेसि जं मोक्खो // 2625 / / ऋजुसूत्ररय, त्रयाणां च शब्दनयानां पुनश्चारित्रसामायिकमेवैकं निर्वाणमार्ग इति हि मतम्, हिशब्दः पुनरर्थे , न पुनः श्रुतज्ञानसामायिकं सम्यग्दर्शनसामायिकं च मोक्षमार्गस्तेषामनुमत इत्यर्थः,यद्यस्मात् तयोर्ज्ञानदर्शनसामायिकयोः सद्भावेऽपि चारित्रमन्तरेण न माक्षः / तस्मादन्वयव्यतिरेकाभ्यां चारित्रसामायिकमेवैकं तन्मतेन मोक्षमार्ग इति। एतदेव भावयतिजं सव्वनाणदसण-लंभे विन तक्खणं चिय विमोक्खो। मोक्खोय सध्वसंवर-लाभे मग्गो स एवाओ॥२६२६।। यद्- यस्मात् सर्वम्- परिपूर्ण ज्ञानं सर्वज्ञानं क्षायिक ज्ञानम्; केवलज्ञानमिति यावत्, तथा-सर्वम्-सम्पूर्ण दर्शनं सर्वदर्शनम्; क्षायिकसम्यक्वगित्यर्थः, तयोलभिऽपि न तत्क्षणमेव विमोक्षा-- गुक्तिसद्भावः / भवति च मोक्षः, कटा? इत्याह- सर्वसंवररूपचारित्रसागायिकलाभे / अतोऽन्वयव्यतिरेकाभ्यां स एव सर्वसंवरअपचारित्रलाभो मोक्षमार्ग इति। अत्र परः प्राहआह नणु नाणदंसण-रहियस्सेव सव्वसंवरो दिट्ठो। तस्सहियस्सेव तओ,तम्हा तितयं पि मोक्खपहो।।२६२७।। आह ननु सोऽपि--सर्वसवररूपचारित्रलाभो ज्ञानदर्शनरहितस्याकरमादेवापजायमानो न कस्यापि दृष्टः, किं तु तत्सहितस्यैव प्रागत्पन्नज्ञानदर्शनस्यैव तको यथोक्तचारित्रलाभः संजायते। तस्मात त्रितयमपीद मोक्षमार्ग इति / अतोऽयुक्तमुक्तम् "निव्वाणं संजमो चेव' इति। एवं नैगमादिभिरुक्ते ऋजुसूत्रशब्दावाहतुःजह तेहि विणा णत्थि-त्ति संवरो तेण ताइँ तस्सेव। जुत्तं कारणमिह न उ,संवरसज्झस्स मोक्खस्स // 2628 // यदि 'ताभ्यां ज्ञानदर्शनाभ्यां विना सर्वसंवररूपचारित्रलाभो नास्ति' इत्युच्यते भवता, 'तेण' ति-तोतावता हन्त! 'ताई' ति ते ज्ञानदर्शने तस्यैव सर्वसंवरचारित्रस्य कारणमिह युक्तभिधातुम्, न तु सर्वसंवरचारित्रसाध्यस्य मोक्षस्य, तदनन्तरमात्रभावित्वात् ज्ञानदर्शनद्वयानन्तरमभूतत्वाचेति। पुनरपि पराभिप्रायमाशङ्कय परिहरन्नाहअह कारणोवगारि त्ति, कारणं तेण कारणं सव्वं / भुवणं नाणाईणं,जइ णो नेयाइ भावेणं / / 2626 / / तह साहणभावेण वि,देहाइपरंपराइबहुभेयं / निव्वाणकारणं ते, नाणाइतियम्मि को नियमो // 2630 / / अह पचासण्णतरं, हेऊ नेयरमिहोवगारिं पि। तो सव्वसंवरमयं, चारित्तं चेव मोक्खपहो।।२६३१।।