________________ सामाइय 740 - अभिधानराजेन्द्रः - भाग 7 सामाइय कथं विचार्यत? इत्याहजीवो गुणपडिवन्नो,नयस्स दव्वट्ठियस्स सामइयं / सो चेव पज्जवट्ठिय-नयस्स जीवस्स एस गुणो।।२६४३।। जीव-आत्भा गुणेः प्रतिपन्नः-आश्रितः, द्रव्यमेवार्थो यस्य न तु पर्यायाः स द्रव्यार्थिकस्तस्य द्रव्यार्थिकस्य नयस्य मतेन सामायिकम्। (अत्रत्या व्याख्या 'गुण' शब्दे तृतीयभागे 606 पृष्ठे गता।) अत्र भाष्यमउप्पाय विगम परिणा-मओ गुणा पत्तनीलयाइ व्व। संति न उ दव्वमिट्ठ, तस्विरहाओ खपुप्फं व // 2646 / / ते जप्पभवा जंवा, तप्पभवं होज होज तो दव्वं / न य तं ते चेय जओ, परोप्परप्पचयप्पभवा / / 2650 / / गुणा एव सन्ति, उत्पादविगमपरिणामतः- उत्पादव्ययपरिणामवत्त्वात्, पत्रनीलतादिवदिति। अनभिमतप्रतिषेधमाह-'न उ' इत्यादि, सन्ति इति बहुवचनव्यत्ययादेकवचनान्तमिहापि सम्बध्यते, न तु 'द्रव्यमस्ति' इत्यभीष्ट पर्यायार्थिकनयस्थ, तद्विरहात्-उत्पादव्ययपरिजामाभावात, खपुष्पवदिति। यदि हि यस्मात् प्रभवो येषां ते यत्प्रभवास्ते प्रसिद्धा नीलतादयो गुणाः, 'जं वा तप्पभवं' ति-यद्वातत्प्रभव तेभ्यो गुणेभ्यः प्रभवो यस्य तत् तत्प्रभवं गुणेभ्यो व्यतिरिक्त किमपि वस्तु 'होज' ति-भवेदित्यर्थः 'होज्ज तो दव्वं ति-ततस्तदेव वस्तु पारमार्थिक द्रव्यं भवेदिति, 'नय तमि' त्यादि, न च तद्गुणानां कारणभूतं कार्यभूत वा गुणेभ्यो व्यतिरिक्तं किमपि वस्त्वस्ति,यतरत्त एव नीलरक्तादयो गुणाः पूर्वापरीभावतः सातत्येन प्रवृत्ता दृश्यन्ते, न पुनर तदतिरिक्त किमपि द्रव्यमीक्ष्यते / कथंभूता गुणाः? इत्याह- 'परोप्परे' त्यादि परस्परम- अन्योन्यं प्रत्ययः- प्रत्ययभावः प्रत्ययत्वमित्यर्थः तस्मात प्रभवो--जन्म येषां ते परस्परप्रत्ययप्रभवाः प्रतीत्य समुत्पादेनो पन्ना इत्यर्थः / तस्माद् न गुणेभ्योऽतिरिक्तं द्रव्यमस्तीति। अत्र कश्चिदाचार्यदेशीयः स्वात्मन्येव व्याख्यावेत्तृत्वमवगच्छन्नाहआहावक्खाणमियं, इच्छह दव्वमिह पज्जवनओ वि। किं तचंतविभिन्ने, मन्नइ सो दव्वपज्जाए।।२६५१।। उप्पायाइसहावा, पञ्जाया जं च सासयं दव्वं / ते तप्पभवा न तयं, तप्पभवं तेण ते भिन्ना / / 2652 / / जीवस्स य सामइयं, पञ्जाओ तेण तं तओ भिन्नं। इच्छइ पञ्जायनओ, वक्खाणमिणं जहत्थं ति / / 2653 / / व्याख्यानिकाभासः कश्चिदाह-ननु पर्यायार्थिकनयमतेन यदिदं सर्वथा द्रव्याभावव्याख्यानं भवद्भिः कृतम्: तदयुक्तमेव, यत इह पर्यायनयोऽपि द्रध्यमिच्छत्येव, किन्तु परस्परमत्यन्तभिन्नावेव द्रव्यपर्यायावसौ मन्यते न पुनः कथशित, इत्येतावता सिद्धान्ता-दस्य भेद इति / कुतः पुनः परस्परं द्रव्यपर्याययोरत्यन्तं भेदः? इत्यत्र युक्तिमाह - 'उप्पाये' त्यादि, सरमादुत्पादव्ययपरिणामस्वभावाः पर्यायाः शाश्वत-नित्य पुनद्रव्यम, अपरं च-तं गुणास्तत्प्रभवा द्रव्यालब्धात्मलाभाः, न पुनस्तद् द्रव्य तत्प्रभवं गुणेभ्यो लब्धात्मस्वरूपम्, तेन तस्मादुक्तन्यायेन परस्पर भिन्नस्वभावत्वाद भिन्नास्ते द्रव्यपर्याया अन्योन्यव्यतिरेकिण इति / यस्माच जीवस्य शाश्वतस्य तद्व्यतिरिक्तं सामायिकं पर्वाया धर्मास्तेन तस्मात् सामायिक ततो जीवादत्यन्तं भिन्नमिच्छति पायनयः। अतो मदीय व्याख्यानमिदं यथार्थ घटमानकमिति। अत्र सूरिरेतद्व्याख्यानमपाकुर्वन्त्राहजइ पज्जायनओ चिय, सम्मन्नइ दोवि दव्वपज्जाए। दव्वढिओ किमत्थं, जइ व मई दो वि जममिन्ने // 2654 / / इच्छइ सो तेणोभय-मुभयग्गाहे वि सयँ पिहन्भूयं / मिच्छत्तमिहेगं ता-देगतन्नतगाहाओ / / 2655 / / यदि भोः ! पर्यायनय एव द्रव्यपर्यायौ द्वावपि सम्मन्यतेऽभ्युप-गच्छति तर्हि द्रव्यार्थिकः किमर्थं 'द्रव्यपरिकल्पना त्वयेष्यते इति शेषः, पर्यायनयाभ्युपगमेनायि द्रव्यस्य सिद्धत्वादिति ? यदि वा--एवंभूता मतिः स्यात् परस्य। कथं भूता? इत्याह-द्वावपि द्रव्यपर्यायौ यद-यस्मादभिन्नी परस्परमेकत्वमापन्नाविच्छति, स द्रव्यार्थिकनय इति सम्बन्धः, तेन तस्मादिदमुभयं द्रव्यपर्यायार्थि-कनयद्वयमुभयग्रहेऽपि सति प्रत्येक द्रव्यपर्यायान्युपगमेऽपि सती-त्यर्थः / किम्? इत्याह-- 'पिहब्भूयं तिपृथग्भूतं भिन्नं द्रव्यार्थिकात्पर्यायार्थिकः, तस्माच द्रव्यार्थिको भेदवान न पुनरनयोरेकतेति, एकस्य द्रव्यपर्याययोरत्य-न्तमभेदाभ्युपगमात, अन्यस्य त्वत्यन्त तयोर्भेदाभ्युपगमादिति / नापि प्रत्येक द्रव्यप याभ्युपगमेऽप्येतयोः समग्ररूपता, किन्तु मिथ्यात्वम्, द्वयोरपि मिथ्यादृष्टि रूपता कस्मात्? उच्यते-इहैकान्तदिकान्तेनैकत्वग्रहादन्यत्वग्रहाचेति। इदमत्र हृदयम्-द्रव्यार्थिको द्रव्यपर्यायौ परस्परमभिन्नाविच्छति, द्रव्यादव्यतिरिक्तमेव पर्यायमिच्छति, अत एतस्य विशेषस्य प्राप्तये पर्यायार्थिकाद् द्रव्यार्थिको भिन्नः परिकल्पितः / पर्यायार्थिकस्तु द्रव्यपर्यायौ परस्परभिन्नावेव मन्यते। अतोऽसौ द्रव्यार्थिकाद भिन्न इष्यते / मिथ्यादृष्टी च प्रत्येकमेती द्रव्यार्थिको द्रव्यपर्याययोरेकत्वग्रहात्, पर्यायार्थिकस्तु तयोरन्यत्वग्रहादिति। एवंभूता यदि परस्य मतिस्तदा प्रतिविधीयते। कथम्? इत्याहएगत्ते नणु दव्वं,गुणो त्ति पजायवयणमित्तमियं। तम्हा तं दव्वं वा, गुणो व दव्वट्ठियग्गाहो / / 2656 / / जइ भिन्नोभयगाही,पज्जायनओ तदेगपक्खम्मि। अविरुद्धं चेव तयं, किमओ दव्वट्ठियनयेण? |2657 / / ननु द्रव्यपर्याययोरेकत्वे त्वदभिप्रायतो द्रव्यार्थिकनेष्यमाणे 'द्रव्य 'गुणाः' इति ध्वनिद्वयमिदमेकार्थवाचकत्वादिन्द्रपुरन्दरादिध्वनिवत् पर्यायवचनमात्रमेव स्यात् / तस्मात् तत् सामायिकं द्रव्यं वा गुणो वेति द्रव्यार्थिकनयग्रहः स्यात, न पुनस्तद् द्रव्यमेवेति तदग्रहो भवेत्, न चैवमिष्यते,द्रव्यार्थिकनयमतेन द्रव्यरूपस्यैव तस्य प्रसिद्धरिति। तथा, यदि परस्परमत्यन्तभिन्नस्यद्रव्यपर्यायोभयस्य ग्राहकः पर्यायनयस्त्वयेष्यते, तदा हन्त ! एकस्मिन द्रव्यपक्षे तत् सामायिकमविरुद्धमेव 'द्रव्यत्वेन'