________________ संखडि . 52 - अभिधानराजेन्द्रः - भाग 7 संखडि थोवे थणे गंधजुते अभावे, विअस्स दव्वारगताण दोसा। आवातसल्लोगगया य दोसा, करंत कुव्वं परितावणादी॥१०१८॥ विचारभूमो गताना स्तोके-स्वल्पे थेन-कलुषे गन्धयुते दुर्गन्धिनि द्रवे अभावे वा सर्वथैव द्रव्यस्य दोषा अवर्णवादभक्तपानप्रतिषेधादयो भवन्ति। तथा पुरुषादीनामापातेसंलोके संज्ञा-कायिकी वा कुर्वति तदा तद्गता दोषाः / यथा पीठिकायां विचारकल्पिकद्वारे उक्तास्तथा द्रष्टव्याः / अथैतद्दोषभयात् कायिकी वा संज्ञा वा न करोति किं तु धारयति तदा परितापनादुःखमूर्छादयो दोषाः। गिलाणतो तत्थतिमुंजणेण, उच्चारमादीण तु संनिरोधा। अगुत्तसेज्जासु व सण्णिवासा, उड्डाहँ कुम्वन्ति मकुव्वतो य / / 1016 / / तत्र संखड्यामुत्कृष्ट द्रव्यलोभादतिमात्रभोजने, यद्वा-सागारिकाकीर्णतया तत्रोचारादीनां सन्निरोधात्म्लानो भवेत्। अथवा- अगुप्ताअसंवृता याः शय्या-वसतयस्तासु सन्निवासाद् ग्लानत्वमुपजायते / प्रतिश्रयशीतलतया भक्तस्याजीर्यमाणत्वात् / स च ग्लानो यदि तत्रोच्चारप्रश्रवणादि करोति तदा सगारिका उड्डाहं कुर्युः / अथ न करोति परितापनादयो दोषाः। अथैतद्दोषभयाद्ग्रामाद्वहिर्वसन्ति ततः को दोषः स्यादिति प्रश्नावकाशमाशङ्कयाहबहिता य रूक्खमूले, छकाया साणतेणपडिणीए। मत्तुं-मत्तविउव्वण, वाहणजाणे सतीकरणं / / 1020 / / ग्रामादेर्बहिर्वृक्षमूले आकाशं वा पृथिवीकायः-सचित्तरजः-प्रभृतिकः, अप्कायः-सेहकणिकादिस्तेजस्कायो-विद्युदादिर्घायुकायोमहावातादिर्धनस्पति कायो-विवक्षितवृक्षसन तः अल्पफलादिः त्रसकायो वृक्षनिश्रितद्वीन्द्रियादिरूपः सम्भवति, एते षट्कायास्तत्र तिष्ठता विराध्यन्ते। असंवृते च तत्रस्थानां भाज-नमपहरेयुस्तेना उपद्रवेयुः / प्रत्यनीको वा विजनं मत्वा हन्यादा मारयेद्वा / तथा मत्ता-मदिरामदभाविताः उन्मत्ता-मनाथोन्मा-दयुक्ता-विटा इत्यर्थः, ते विकुणा भूषणादिभिरलङ्करणं विधाय तत्रागच्छन्ति / वाहनानि-हस्त्यश्वादीनि यानानि-शिबिकारथादीनि तानि दृष्ट्वा भुक्तभोगिनां स्मृतिकरणम् / अभुक्त-भोगिना तु कौतुकमुपजायते इति नियुक्तिगाथासमासार्थः। __ अथैनामेव विवृणोतिमा होज अंतो इति दोसजालं, तो जाति दूरं बहिरूक्खमूले। अभुजमाणे तहि गंतुकाया, अवाउडे तेणसुणे य ऽणेगे / / 1021 / / ग्रामाभ्यन्तरे वसतामित्यनन्तरोक्त दोषजाल मा भूदित्यभिसन्धाय | ततो ग्रामादहि र वृक्षमूले याति, तत्र वा भुज्यमाने अव्याप्रियमाणे प्रदेशे पूर्वोक्तनीत्या षडपि काया विराध्यन्ते / अपावृते च तत्र स्तेनाः श्वानश्वानेके उपद्रवं विदधति। उम्मत्तगा तत्थ विचित्तवेसा, पढ़ति चित्ताभिणया बहूणि। कीलंतिमत्ता य अमत्तगा य, तस्थित्थिपुंसा सुअलंकिता य॥१०२२।। यत्रोद्याने उन्मत्ता विचित्रवेषा विविधवस्त्रादिनेपथ्यधारिणश्चित्राभिनया नानाप्रकारहस्ताद्यभिनया बहूनि शृङ्गारकाव्यानि पठन्ति / तथा मत्ता अमत्ता या तत्र स्त्रीपुरुषाः सुष्ठु वस्त्राभरणैरलंकृताः सन्तः कीडन्ति। आसे रहे गोरहगे य चित्ते, तत्थामिरूढा उ गणे य केइ। चित्तिरूवा पुरिसा ललंता, हरंति चित्ताणि विकोवियाणं / / 1023 / / तत्रोद्याने केचित्पुरूषा अश्वान् अपरे रथान् तदन्ये गोरथकान्कहोडकान केचिचित्राणि नानाप्रकाराणि युग्यादीनि यानानि डगडानि च यानविशेषरूपाण्यधिरूढाः सन्तो विचित्ररूपाः पुरूषाः श्रेष्टिपुत्रादयो लालन्तः क्रीडन्तो विकोविदानामगीतार्थानां चित्तानि हरन्ति / ततश्च भुक्ताऽभुक्तसमुत्था दोषाःसामिद्धिसंदसणवावडेण, विप्पस्सता तेसि परेसि मोक्खे ! तस्थित्थिऽपातम्मि समंततेण, मिक्खावियारादिसु दुप्पयारं / / 1024|| समृद्ध्या-वस्त्राभरणदिरूपया समिति सामस्त्येन यद्दर्शनमवलोकनं तत्र व्यापृतेन इदं पश्यामि इदं च पश्यामीतिव्याक्षिप्तचे-तसां सदा तेषां परेषां श्रेष्ठिप्रभृतीनां यानवाहनादीनि मुख्यानि विविधमनेकप्रकारं पश्यता सूत्रार्थयोः परिमन्थः कृतः स्यादिति शेषः / तत्र च स्त्रीपुरुषैः समन्ततः 'अपाते' देशीपदत्वात् आकर्णे भिक्षायां विचारभूमौ आदिशब्दाद्विकारभूत्यादौ च दुष्प्रचारं भव-ति, यत एते दोषाः अतः संखड्यां न गन्तव्यम् / अथ परः प्राहदोसेहिं एत्तिएहिं, अगेण्हता चेव लग्गिमो अम्हे। गेण्हासु य भुज्जातु य, ण य दोस जहा तहा सुणसु / / 1025 / / संखडिगमने यावन्त एते षट् दोषा उक्ताः एतावद्भिः वयं संखडिभक्तमगृह्णाना एव गच्छामः, ततो न कार्यमस्माकं ग्रामादिमध्यासनेन। सूरिराह-वयं संखडिभक्तं गृह्णीमो वा भुज्महे वा नच दोषाः पूर्वोक्ता यथा भवन्ति तथाऽभिधीयमानं शृणु। इयं पुरातनी गाथा। अथैनामेव व्याख्यानयतिअपरिग्गहित अभुत्ते, जति दोसा एत्तिया पसज्जंती। इत्थं गते सुविहिया, वसंतु रन्ने अणाहारा / / 1026 / / पर: प्राऽऽह-अपरिगृहीते अभुक्तेऽपि च संखडि भक्ते या -