________________ संखडि 51 - अभिधानराजेन्द्रः - भाग 7 संखडि अथाऽऽत्मविराधनामाहवाले तेणे तह सा-वते य विसमे य खाणुकंटे य / अकम्हाँ भयत्तसमुत्था, रत्तेमादी भवे दोसा।।१००६।। रात्रौ संखडिगमे व्यालः-सर्पस्तेन दश्येत। स्तेनैरूपकरणमपहियेत, श्वापदैः सिंहादिभिरूपद्रयेत, विषमे च निम्नोन्नते प्रपतेत्। स्थाणुना वा कण्टकेन वा विध्येत् / अकस्माद्भयं वा स्वयमात्मसमुत्थं भवति / रात्रादेवमादयो दोषा भवेयुः / एवं तावत्पथि गच्छता दोषा अभिहिताः। अथतत्र प्रार्थनामाहवसहीए जे दोसा, परउत्थियतज्जणाएँ विलधम्मे। आतोज्जगीतसद्दे, इत्थीसद्दे य सविकारे / / 1010 / / वसतेः सम्बन्धिनो ये आधाकादयो दोषास्ते लगन्ति, परतीर्थिकाश्च तत्र गताना तर्जना कुर्वन्ति। विलधर्मो नाम एकस्यामेव वसतौ गृहस्थैः समं संवासः तत्रैकत्रावस्थाने तत्र संखड स्यात्। तत्र च संखड्यामातोद्यगीतशब्दान स्त्रीशब्दाँश्च सविकारान् श्रुत्वा चशब्दादविरतिकाः अलंकृताः दृष्ट्वा स्मृतिकरणदयो दोषाः / इति द्वारगाथासमासार्थः / साम्प्रतमेनामेव विवृणोतिआहाकम्मियमादी, मंडवगादीसु होति अमणुन्ना। रूक्खे अब्भावासे, उवरिंदोसे परूविस्सं / / 1011 / / संखडीवर्ती दानश्राद्धो यथाभद्रको वा साधूनां निमित्तमाधाकर्मिकान् कारयेत्। आदिशब्दाद्यावन्तिकादिपरिग्रहः / तेषु मण्डपेषु आदिशब्दात्पर्णकुटीप्रभृतिषु डालेअवकाशे वा वसन्ति, तत्र वसतां ये दोषास्तानुपरिष्टादस्मिन्नेव सूत्रे प्ररूपयिष्यामि। परतीर्थिकद्वारं भजनाद्वारमाहइंदियमुंडे मा किं -चि देह मा णे डहेज साहूणं / पेहासोभादीसु य, असंखडं हेतुवादो य॥१०१२|| संखडी श्रुत्वा शाक्यशैवभागवतादयः परतीर्थिकाः समायातास्ते साधून तर्जयन्त इत्थं बुवते इन्द्रियपहा-मुण्डा अमी संखडिप्राप्ताः श्रमणाः मा किश्चिद् ब्रूत किमप्यमीषां सम्मुखं विरूपकं भाषणीय (णे) युष्मान् अमी तपस्विन आक्रुष्टाः सन्तः शापेन दहेयुः एवं तर्जनामसहमाना अपरिणतास्तैस्सह संखड कुर्युः / तथा प्रेक्षा-प्रत्युपेक्षणां कुर्वतो दृष्ट्वा शोभा वा स्वल्पकलुषादिना पानकेन विधीयमानां दृष्ट्वा आदिशब्दात-संयतभाषया भाषमाणान श्रुत्वा परतीर्थिका उड्डञ्चकान् कुर्वन्ति / तत्र तथैव संखड भवेत्, हेतुना वा ते परतीर्थिका वादं मार्गयेयुः। वठरशिरःशेखरा एतेन किमपि जानन्तीत्यादि। विलधर्मद्वारमाहसिंगारेण ण दिण्णा,न य तुब्भं पेतिगी सभा एसा। अतिबहुओ ओगासो, गहितेण तु सो कलह एवं / / 1013 / / एवं साधारणे सभादौ पिण्डीभूय साधवो गृहस्थाश्च यदेकत्रावतिष्ठते स विलधर्मः, तेन वसतांसाधुभिः प्रभूतेऽवकाशे मिलिते सतिगृहस्था ब्रुवते भो श्रमणाः / एषा सभातुभ्यंन श्रृङ्गारेण दत्ता, उदकेन वा कल्पेति भावः / न च न वेयं पैत्रिकीपितृपरम्परागता / अतः किं नु नाम अतिवहुकोऽवकाशस्त्वया गृहीतः, एवं कलहो भवति।। तत्थ य अतितूडें तो, संविट्ठो वा छिवेज्ज इत्थीओ। इच्छमणिच्छे दोसा, भुत्तमभुत्ते य फासादी।।१०१४|| तत्र वनादौ कोऽपि साधुरतिगच्छन्निर्गच्छन् वा समुपविष्टो वा स्त्री स्पृशेत्, तत आत्मपरोभयसमुत्था दोषाः। तत्र च यदि नाम विरतिका प्रतिसेवितुमिच्छति तदा संयमविराधना, अथ नेच्छति ततः सा उड्डाह कुर्यात्। स्त्रीणां च स्पर्शादिषु तथा आतोद्यगीत-शब्दान् स्वीसम्बन्धिनश्च हसितकूजितादिशब्दान् श्रुत्वा भुक्ता-भुक्तसमुत्था दोषाः। भयोऽपि दोषदर्शनार्थमाहआवासगसज्झाए, पडिलेहणे भुंजणे य भासाए। वीयारे गेलन्ने, जा जहि आरोवणा भणिया / / 1015 / / आवश्यके स्वाध्याये प्रत्युपेक्षणायां भोजनेच भाषायां विचारे ग्लानत्वे च या यत्रारोपणा भणिता सा तत्र ज्ञातव्येति द्वारगाथा-समासार्थः। साम्प्रतमेनामेव प्रतिपदं विवृणोतिआवासगं तत्थ करेन्ति दोसा, सज्झाएँ एमेव य पेहणम्मि। उड्डंच वारेंतमवारणे य, आरोवणा ताणि अकुव्वतो जा // 1016 / / तत्र गृहस्थैः सह वसन्तो यद्यावश्यकं स्वाध्यायं वा कुर्वन्ति तदा ते कर्णकटुका नाम एते इति गमयन्ति, उड्डुञ्चकान्वा कुर्वन्ति, एव-मादयो दोषाः / प्रत्युपेक्षणायामप्येवमेवोडुश्चकान् कुर्वन्ति / यदि वार्यन्ते अन्यकुलैः सह संखड कुर्युः / अथ नवार्यन्तेततो भगवत्प्रवचनस्य भक्तिः कृता न स्यात्। अथैतद्दोषभयादावश्यकादीनि न कुर्वन्ति ततस्तान्यकुर्वतो या काचिदारोपणा सा द्रष्टव्या। तद्यथा-कायोत्सर्ग न करोति, वन्दनकं न ददातिस्तुतिप्रदानं न करोति, सूत्रपौरूषीं न करोति, सर्वेष्वपि मासलघु / अर्थपौरूषीं न करोति मासगुरु। जघन्यमुपछि न प्रत्युपेक्षते रात्रिन्दिवपशकम् / मध्यम न प्रत्युपेक्षते मासलघु। उत्कृष्ट न प्रत्युपेक्षते चतुर्लधु। तथाजं मंडलिं भजइ तत्थ मासो, गारत्थिभासासु य एवमेवं / चत्तारि मासा खलु मण्डलीए. उड्डाहो भासासमिए वि एवं / / 1017 / / भोजनं कुर्वन सागारिकमिति मत्वा यत् मण्डली भनक्ति तत्र मासलघु, अगारस्थभाषासु भाष्यमाणासु एवमेव मासलघु / अथै - तत्प्रायश्चित्तभयान्मण्डल्यां समुद्दिशन्ति तदा चत्वारो मासलघवः। उड्डाहश्च प्रवचनोपघातो मण्डल्या समुद्देशेन भवति। एवं भाषासमितेऽपि मन्तव्यम्। संयतभाषया भाषमाणस्य चत्वारो लधुमासा भवन्तीति भावः।