________________ संखडि 50 - अभिधानराजेन्द्रः - भाग 7 संखडि सव्वेसि गमणे गुरुगा, आयरियअवारणे भवे गुरुगा। वसभे गीतागीए, लहुगा गुरुगाय लहुगो य / / 968|| यदि सर्वेऽपि साधवो भणन्ति संखड्यां गच्छाम इति ततस्तेषा चतवारो गुरुकाः, आचार्यस्तान्न वारयति ततो गुरुकाः / वृषभो न वारयति चतुर्लघवः गीतार्थो भिक्षुन वारयति लघुको मासः। एगस्स अणेगाण व,छंदेण पहाविया तु ते संता। वत्तमवत्तं सुचा, नियत्तणे होंति चउगुरुगा||६६EII एकस्याऽऽचायदिरनेकेषा वा बहूना छेदेनाऽभिप्रायेण ते संखड्या उपरि प्रधाविताः सन्तो वृत्तां वा संखडिं श्रुत्वा यदि निवर्तन्ते ततश्चतुर्गुरूका भवन्ति / वेलाए दिवसेहिं, वत्तमवत्तं निसम्म पञ्चेति। होहिइ अमुग दिवसं,सा पुण अन्नम्मि पक्खम्मि||१०००।। वेलया दिवसैर्वा प्रतिनियतां संखडी श्रुत्वा प्रस्थिताः, गच्छद्धिश्वापान्तराले श्रुता, यथा-सा संखडी वृत्ता-समाप्ता, अवृत्ता वा अन्यस्यां वेलायामन्यस्मिन् दिवसे भाविनी एवं वृत्तामवृत्तां वा निशम्यश्रुत्वा प्रत्यायान्ति-प्रतिनिवर्तन्ते / यथा कैश्चिदपि साधुभिः श्रुतम् -यथा अमुकगृहे पूर्वाह्नवेलायां संखडिर्भविष्यति ततस्ते पात्राण्युदग्राह्य तरयां गन्तुं प्रस्थिताः, अपान्तराले च तैः श्रुतम् -अतिक्रान्ता संखडी वा आकर्णितं यथा नाऽपि तत्र वेला एवं श्रुत्वा प्रतिनिवर्तन्ते / दिवसमधिकृत्य पुनरित्थं होहिइ' इत्यादि पश्चार्द्धम् / क्वचिद् ग्रामे स्थितैः श्रुतम्-अमुक ग्रामे अमुक-दिवसे पञ्चमीप्रभृतिके संखडी भविष्यति, इत्याकर्ण्य ते ग्रामं प्रस्थिताः, तत्र गच्छनिरन्तरा श्रुतम्-यथा वृत्ता सा संखड़ी न भविष्यति वा / कथमित्याह 'सा पुण अन्नम्मि पक्खम्मि 'त्ति यस्यां पञ्चम्या भाविनी संखडी साधुभिः श्रुता सा पुनरन्यस्मिन अतीते अनागते वा पक्षे भूता वा भविष्यति च, न तत्पक्षवर्तिनीति भावः / अथ संखडी कथं कुत्रवा भवतीत्युच्यतेआदेसो सेलपुरे, आदाणऽट्ठाहिया य महिमाए। तोसलिविसए विण्णव-णट्ठा तह होति गमणं वा / / 1001 / / आदेशः-संखडिविषये दृष्टान्तः-तोसलिविषये शैलपुरे नगरे ऋषितडाग नाम सरः / तत्र वर्षे वर्षे भूयान् लोकोऽष्टाहिकां महिमा करोति / तत्रोत्कृष्टावगाहिमादिधान्यस्यादानं ग्रहण कार्यम् / तदर्थ कोऽपि लुब्धो गन्तुमिच्छति / ततः स गुरूणां विज्ञापना संखडि-गमनार्थ कराति / आचार्यो वारयति / तथाऽपि यदि गमन करोति ततस्तस्य प्रायश्चित्तं दोषाश्च वक्तव्याः। इति पुरातनगाथा-समासार्थः / अथैनामेव विवृणोतिसेलपुरे (इ)सि तलाग-म्मि होति लट्ठाहियामहामहिमा। कोमलमेत्तपभासे, अब्बुयपाईणवाहम्मि।।१००२।। तोसलिदेशे शैलपुरे नगरे ऋषितडागे सरसि प्रतिवर्ष महता विच्छईनाष्टाहिकाया महती महिमा भवति / तथा कुण्डलमैत्रनाम्नो वाणव्यन्तरस्रा यात्रायां भरूकच्छपरिसरवर्ती भूयान लोक : संखडि करोति / प्रभासे वा तीर्थे अर्बुदे वा पर्वतयात्रायां संखडिः क्रियते।। प्राचीनवाह सरस्वत्या सम्बद्धः पूर्वदिगभिमुखप्रवाहः, तत्रानन्दपुरवास्तव्यो लोको गत्वा यथाविभवं शरदि संखडिं करोति / पशमादिषु कोऽप्युत्कृष्टद्रव्यलुब्धो गुरून् संखडिगमनार्थ विज्ञपराति। गुरवो ब्रुवतेआर्य ! न कल्पते संखडिं गन्तुम्। ततोऽसौ मायया ब्रवीतिअस्थिय में पुव्वदिट्ठा, चिरदिट्ठा ते अवस्सदहव्वा। मायागमणे गुरुगा, तहेव गामाऽणुगामम्मि / / 1003 / / सन्ति मे पूर्वदृष्टा:-पूर्वपरिचिताः सुहृदादयस्ते च चिरदृष्टाः प्रभूतकालतस्तेषां मिलितानामभवदिति भावः। अत इदानीमवश्य दृष्टव्यास्ते मया; एवं मायया गुरुन् आपृच्छ्य यदि गच्छति तदा गुरुको मासः। ग्रामानुग्रामेऽपि विहरता सखडिं श्रुत्वा गच्छता तथैव मासगुरुकम् / इदमेव व्याचष्टगामाणुगामियं वा, रीयंता सो उसंखडि तुरियं / छडुति वसतिकाले, गामंतेसिं पिदोसा तु॥१००४|| ग्रामानुग्रामिक वा रीयमाणा-विहरन्तःक्वाऽपि ग्रामे संखडि श्रुत्या ये त्वरितं गच्छन्ति, सतिवा भिक्षाकाले तंग्रामे परित्यजन्ति, परित्यज्य च संखडिग्रामं गच्छन्ति तेषामपि दोषा वक्ष्यमाणा भवन्ति। गन्तुमणा अन्नदिसिं, अन्नदिसिंतेवयंति संखडिनिमित्तं / मूलग्गामे अपंडिय-वसभा गच्छति तदट्ठाए।।१००५।। भिक्षाचर्यायामन्यस्यां दिशि गन्तुमनसः संखडिं श्रुत्वातन्निमित्तमन्यस्यां दिशि व्रजन्ति, मूलग्रामे तदर्थसंखडिहेतोर्गच्छन्ति। एतेषु सर्वेष्वपि गमनप्रकारेषु दोषानुषदिदर्शयिषुराहएगाहि अणेगहि,दिवा व रातो व गंतुपडिसिद्धं / आणादिणो य दोसा, विराहणा पंथिपत्ते य॥१००६।। एकाहिकीमनेकाहिकी वा ता संखडिं गन्तुं दिया रात्रौ प्रतिषिद्धम्, यदि गच्छति तत आज्ञादयो दोषाः, विराधना च संयमात्मविषया पथि वर्तमानानां तत्र प्राप्तानां च भवति। तत्र पथि वर्तमानानां भावदोषानभिधित्सुराहमिच्छते उड्डाहो, विराहणा होति संजमायाए। रीयादि संजमम्मिय,छक्कायअचक्खुविसयम्मि।।१००७।। संखडि गच्छतः साधून दृष्ट्वा यथा भद्रका मिथ्यात्वे स्थिरतरा भवेयुः,उड्डाहो भवेत्। तथा संयमात्मविराधना भवति। संयमविरधना रात्रौ गच्छन् ईर्थादिसमितीन शोधयति, अचक्षुर्विषये च गच्छत षट्कायविराधना / आत्मविराधना तु पुरस्ताद्वक्ष्यते। अथ मिथ्यात्वो-ड्डाहद्वारे व्याचष्टेजीहादोसनियत्ता,वयंति लूहेति तज्जिया भोजे। थिरकरणं मिच्छत्ते, तप्पक्खियखोभणा चेव॥१००८|| लोको बूयात्-अहो अमी श्रमणा जिहादोपनिवृत्ता-रसगृद्धिरहित अपि रूक्षेवलचणकादिभिराहारैस्तर्जिताः सन्तः प्रतिभोज्याध - संखडिहेतोर्गच्छन्तीत्युड्डाहो भवेत् / तथा यथैतदमीषामसत्यं तथा अन्यदपि मिथ्याप्रलपितमिति मिथ्यात्वे स्थिरीकरणं भवति / एवं शा तत्पाक्षिका साधुमानिनः श्रावकास्तेषां क्षोभणा मिथ्यादृष्टिभिः सम्यक्त्वाच्चालना भवति।