________________ 734 - अभिधानराजेन्द्रः - भाग 7 सामाइय ... न क्षायोपशमिको भावः / निर्गम एव चात्र प्रस्तुतः, यत्तु सायोकामिक भावग्रहणप्रतिपादनं तत प्रसङ्ग तो द्रष्टव्यम् / तत्र श्रीगौतमरवामिना निषद्यायेण चतुर्दश पूर्वाणि गृहीतानि / प्रणि-पत्य पृच्छा च निषद्योच्यते / प्रणिपत्य पृच्छति गौतमस्वामी-कथय भगवन् ! तत्त्वम् / ततो भगवानाचष्टे- "उप्पनेइ वा' / चुनस्तथैव पृष्ट प्राह-- 'विगमेइ वा " / पुनरप्येवं कृते वदति- 'धुवेइ वा / एतास्तिस्रो निषद्याः / आसामेव सकाशात् यत् सत् तदुत्पादव्य-यधौव्ययुक्तम्, अन्यथा वस्तुनः सत्ताऽयोगात्' इत्येवं तेषां गणभृतां प्रतीतिर्भवति / ततश्च ते पूर्वभवभावितमतयो बीजबुद्धित्वाद्वादशाङ्गमुपरचयन्ति। ततो भगवास्तेषां तदनुज्ञां करोति। शक्रश्च दिव्यं वस्त्रमयस्थालं दिव्यचूर्णानां भृत्वा त्रिभुवनस्वामिनः संनिहितो भवति / ततः रवामी रत्न सिंहासनादुत्थाय परिपूर्णा चूर्णमुष्टिं गृह्णाति। ततो गौतमस्वामिप्रमुखा एकादशापि गणधरा ईषदवनततनवः परिपाट्या तिष्ठन्ति / ततो देवास्तूर्यध्वनिगीत-शब्दादिनिरोधं विधाय तूष्णीकाः शृण्वन्ति / ततो भगवान् पूर्व तावदेतद् भणति- 'गौतमस्य द्रव्य-गुण--पर्यायैस्तीर्थमनुजाना-मि' इति, चूर्णाश्च तन्मस्तके क्षिपति। ततो देवा अपि चूर्णपुष्पगन्धवर्षा तदुपरि कुर्वन्ति गणं च भगवान् सुधर्मस्वामिन धुरि व्यवस्थाप्यानुजानाति / एवं सामायिकस्यार्थो भगवतः सकाशाद् निर्गतः, सूत्रं तु गणधरेभ्यो निर्गतम्, इत्यल प्रसड़ेन। इति नियुवितगाथात्रयार्थः / यदुक्तम्- 'एत्थं पुण अहिगारो पमाणकालेण' इत्यादि, तत्र पर: युर्वापरविरोधमुद्भावयन्नाहकिह पगयं भावेणं, कहमहिगारो पमाणकालेणं? आचार्यःप्राहखाइयभावेऽरुहया, पमाणकालेण जं भणियं // 2085 / / अहवा पमाणकालो, विभावकालो त्ति जंच सेसा वि। किंचिम्मेत्तविसिट्ठा, सव्वे चिय भावकाल त्ति॥२०५६।। आहिक्केणं कजं, पमाणकालेण जमहिगारो त्ति। सेसा वि जहासंभव-माउञ्जा निग्गमे काला॥२०८७॥ तिसोऽपि प्रायो व्याख्यातार्थाः, नवरं 'अरुहय' ति अर्हताश्रीमन्महावीरेण ।'ज च सेसा वी' त्यादि यस्माच शेषा अपि द्रव्याऽद्धाकालादयः किञ्चिदुपाधिमात्रविशिष्टाः सर्वेऽपि भावकाला एव; तथाहि-द्रव्यस्य या चतुर्विकल्पा स्थितिः सा द्रव्यकाल उक्तः, समया- | ऽऽवलिकादयस्त्वद्धाकालः,यथायुष्कं चायुष्ककाल इत्यादि / एते च स्थित्यादयः सर्वेऽपि जीवाऽजीवपर्यायत्वाद्भावरूपा एवेति परमार्थती भावकालाद्न विशिष्टयन्त इति / पपं-तथापि 'प्रमाणकालेनात्राधिकारः' इति यदुक्तं तदाधिक्येन विशेषतस्तेन प्रमाणकालेन कार्यमिति हेतोरवगन्तव्यम्, अन्यथा शेषा अपि द्रव्याद्धाकालादयः पारम्पर्यादिना सामायिकनिर्गम यथासंभवमायोजनीयाः यथाहिक्षायिके भावे वर्तमानस्य सामायिकं निर्गतं भगवतस्तथा रत्नमयासहासनलक्षणे द्रव्ये चोपविष्टस्य, यत्र च द्रव्ये तत्र तत्स्थितिलक्षणः कालोऽप्यरत्येव, तथा यथाऽऽयुष्ककालं चानुभवतः, कमांणि चोप क्रामतः, प्रस्तावं चावगच्छतः, आवीचिमरणलक्षण मरणकालं चानुभवतः, जीवादिपदार्थवर्णनाकाले च प्रवृत्तस्य तस्य तन्निर्गतम्, प्रमाण भावकालो त्वधिकृतत्वेनोक्तावेवा प्रमाणकाले चाधिकृतेऽद्धाकालोऽधिकृत एव, तस्य तद्विशेषत्वादे येति / एवं सर्वेऽपि द्रव्यकालादयोऽत्रोपयुज्यन्त एव / केवलमाधिक्येन प्रमाणकालो भावफालनेहोपयुज्यते इति तयोर्विशेषतोऽधिकृतत्वमुक्तमिति। विशेष (67) कियच्चिरम्, कालाद्वारम् / साम्प्रत 'तदित्यं लब्धंकिय च्चिर कालं भवति?' इति कालद्वारे जघन्योत्कृष्टं सामायिककालमभिधिसुराह- . सम्मत्तस्स सुयस्सय, छावट्ठीसागरोवमाइँ ठिई। सेसाण पुव्वकोडी, देसूणा होइ उक्कोसा // 2761|| सम्यक्त्वस्य श्रुतस्य चलब्धिमङ्गीकृत्य 'दो वारे विजयाइसु' इत्यादि वक्ष्यमाणन्यायेन षट्षष्टिसागरोपमाणि पूर्वकोटीपृथक्त्वाधिकानि स्थितिर्भवति। शेषयोर्देशविरतिसर्वविरतिसामायिकयोः पूर्वकोटिदेशोना भवति / 'उक्कोस त्ति-एषा सामायिकलब्धेरुत्कृष्टा स्थितिः / इति नियुक्तिगाथार्थः। भाष्यकारव्याख्यादो वारे विजयाइसु, गयस्स तिण्णच्चुए य छावट्ठी। नरजम्मपुव्वकोडी, पुहुत्तमुक्कोसओ अहि॥२७६२|| इयं प्रागिहैव व्याख्याता। अथ चतुर्णामपि सामायिकानां जघन्यस्थिति भाष्यकार एवाऽऽहअंतोमुहुत्तमित्तं, जहन्नयं चरणमेगसमयं तु / उवओगंतमुहुत्तं, नानाजीवाण सव्वद्धं / / 2763 / / जघन्यां तु लब्धिमाश्रित्याद्यसामायिकत्रयस्यान्तर्मुहूर्त स्थितिः। सर्वविरतिसामायिकस्य तु समयम्, चारित्रपरिणामारम्भसमयानन्तरमेवायुष्कक्षयसम्भवात्। देशविरतेरप्येवं कस्माद् न भवति? इति चेत् / तदयुक्तम्, तस्याः प्रतिनियतत्राणातिपातादिनिर्वृत्तिरूपत्वात, तदा लोचनपरिणतेश्च जधन्यतोऽप्यान्तौहूर्तिकत्वात्। तदेषं लब्धेः स्थितिकालः। उपयोगतस्तु सर्वेषामन्तमुहूर्त स्थितिः। नानाजीवानां तु सर्वाणि सर्वाद्धा इति गाथाद्वयार्थः / अथ कतिद्वारमुच्यते-तत्र सम्यक्त्वादिसामायिकानां विवक्षित-समये कति प्रतिपत्तारः, प्रतिपन्नाः, प्रतिपतिता वा भवन्ति? इत्याहसम्मत्तदेसविरया, पलियस्स असंखभागमेत्ताओ। सेढी असंखभागो, सुए सहस्सगसो विरई॥२७६४।। सम्यक्त्वदेशविरताः प्राणिनः क्षेत्रपल्योपमस्यासंख्येयभागमात्रा एव / इयमत्र भावना-क्षेत्रपल्योपमस्यासङ्ख्येयभागेयावन्तः प्रदेशास्तावन्त एवोत्कृष्टतः सम्यक्त्वदेशविरतिसामायि-कयोरेकदा प्रतिपत्तारो भवन्ति / किन्त्वयं विशेषः- देशविरति-प्रतिपत्तृभ्यः सम्यक्त्वप्रतिपत्तारोऽसङ्ख्येयगुणा इति / जघन्यत-स्त्वेको द्वौ वेति। "सेढी असंखभागो सुए' त्ति- इह संवर्तितचतु-रस्रीकृतलोकस्यैकप्रादेशिकी सप्तरज्जुप्रमाणा श्रेणिर्गृह्यते श्रुतमपि सम्यगमिथ्याश्रुतभेदरहित