________________ सामाइय 733 - अभिधानराजेन्द्रः - भाग 7 सामाइय दानामुपलब्धये-उपलब्धिनिमित्तं भवति / तस्याक्ष शुभा- | इशभपदार्थोपलब्धः सकाशात शुभेष प्रवृत्तिः, इतरेभ्यस्तुनिवत्तिर्भवति / गच निवृत्तिप्रवृत्ती 'संजमतब ति संयमतपसोः कारणं-निमित्तं भवतः, शुभनिवृत्तिः संयमकारणम्,शुभप्रवृत्तिस्तु तपःकारणमित्यर्थः / तयो श्व जगमनपसोः पापकर्मणोऽग्रहणम्, तथा कर्मविवेकश्व कर्मनिर्जरासपा २.शासख्य कारणं निमित्तं प्रयोजनमिति यावत्। कर्मविवेकस्य च कारण प्रयोजनमशरीरव चेति। 'अथ विवक्षितमर्थमुक्तानुवादेन प्रतिपादसन्नाह-कर्मवि-वेकः-कर्मपृथग्भावोऽशरीरतायाः कारणम्। अशरीरता पुनरनाबाधतायाः कारणं भवति / 'हो अणबाहनिमित ति-अनायाधता-निमित्तम्-अनावाधताकारणम्, अनाबाधतया हतुभूतयेत्यर्थः, अवेदनो-वेदनारहितो भवति जीवः / अवेदन-त्वाच्चानाकुलोऽवि-हलो भवति / रोगाद्यनाकुलत्वाच्च नीरुक्-समस्तभावरोगरहितो भवति / नीरुक्तया पुनरचलः, अचलतया च तत्रैवमुक्तिक्षेत्र शाश्वतो- नित्यो भवति / शावतभावं चापगतः सन्नव्याबाधसुखं लभते / इत्थं पारम्पर्येणाव्याबाधमुक्तिसुखनिमित्तं सामायिक-श्रवणं सिद्धम / इति नियुक्तिगाथादशकार्थः / एताश्व गाथाः सुगमत्वात् संक्षेपतो भाष्यकार: किश्चिद् व्याचिख्यासुराहतित्थयरनामकम्म-क्खयस्स कारणमिदं जिणिंदस्स। सामाइयामिहाणं, नाणस्स उगोयमाईणं // 2126 / / तं पि सुभेयरभावो-वलद्धिए सा पवित्तिनियमाणं / एवं नेयं कमसो, पुव्वं पुव्वं परनिमित्तं // 2130 / / इदं सामायिकाभिधानं-सामायिकभाषणं जिनेन्द्रस्यतीर्थकरस्य भगवतस्तीथकरनामकर्मक्षयस्य कारणं-हेतुः / गौतमादीनां पुन-.. निस्य तच्छ्रवणं कारणम्' इति गम्यते / तदपि ज्ञानं शुभाऽशुभभावोपलब्धेः कारणम्, एषाऽपि प्रवृत्तिनियमयोः-प्रवृत्तिनिवृत्त्योः कारणम् / एवं क्रमशः क्रमेण पूर्व परस्य-उत्तरस्य निमित्त ताधज्ज्ञेयं यावत् शाश्वतत्वादव्याबाधं मुक्तिसुखं लभते। इति गाथाद्वयार्थः / उक्त कारणद्वारम् विशे०। अथ भवद्वारमुच्यते / तत्र कियतो भवानेकजीवः सामायिकचतुध्यमुत्कृष्टतः प्रतिपद्यते? इत्याहसम्मचंदेसविरया, पलियस्स असंखभागमेत्ताओ। अट्ठ भवा उ चरित्ते, अणंतकालं च सुयसमए / / 2776 / / सम्यग्दृष्टया, देशविरताच, प्रत्येक क्षेत्रपल्योपमा असंख्येयभागमात्रान भवान् यावद भवन्ति / इदमुक्तं भवति-क्षेत्रपल्योपमस्यासङ्ख्येयभागे यावन्तो नभः प्रदेशास्तावतो भवानुत्कृष्टतः सम्यक्त्व देशविरति च प्रतिपद्यन्ते, जघन्यतस्त्वेक भवम् / ततः परं सिध्यन्ति / इह च सम्यक्त्वभवासङ्ख्येयकादेशविरति-भवासंख्येक लघुतरं द्रष्टव्यम्। चारित्रे तु विचार्येऽष्टी भवानुत्कृष्ट-तस्तत् प्रतिपद्यते, उत्कृष्टतोऽष्टौ तस्यादानभवाः, जघन्यतस्त्वेकः, ततः सिध्यति / 'अणतकालं च सुयसमए' त्ति-अनन्तकालोऽनन्तभवरूपस्तमनन्तकालमव प्रतिपत्ता पावत्य कृतः सामान्य श्रुतसामायिके, जघन्यतस्त्वेवा भवमेघ, "रुदेवीदत् / इति नियुक्तिगाथार्थः / विशे० आ० क० / आ० यू० आवा आ०म०। नदेव 'दल्ने अवाच्य अहाउय' इत्यादिनोपक्षिप्तान कालभेदान व्यवहाराय प्रस्तुतं येनाधिकारस्तमाहएत्थं पुण अहिकारो, पमाणकालेण होइ नायव्यो। खेत्तम्मि कम्मि काल-म्मि भासियं जिणवरिंदेण / / 2052 / / अब पनरनेकविधकालप्ररूपणायामधिकार:-प्रयोजन प्रस्तावः प्रमाणकालन भवति-ज्ञातव्यः / आह-ननु 'दव्वे अद्ध अहाउय' इत्यादिद्वारगाथाया 'पगय तु भावेण' इत्युक्तम्, इह पुनः अधिकारः प्रमाणकालेन भवति-ज्ञातव्यः, इत्युध्यते, तत् कथं न पूर्वापरविरोधः? अत्राच्यते-- क्षायिकभावकाले वर्तमानेन भगवता सामायिकाध्ययन भाषितम्, इत्यभिप्रायवता 'पगय तु भावेणं' इति प्रागुक्तम्,तथा 'पूर्वाह्नलक्षणे प्रमाणकाले च भगवता भाषित सामायिक इत्यध्यवसायवताऽत्रोक्तं 'प्रमाणकालेनाधिकारः' इत्युभयसंग्रहपरत्वाददोषः / अथवा-- अद्धाकालपर्यायत्वात् प्रमाणकालोऽपि भावकाल एवेत्यविरोधः / आह-ननु कस्मिन् क्षेत्रे श्रीमन्महावीरजिनवरेन्द्रेण प्रथमतः सामायिकाध्ययनं भाषितम्? तथा, प्रमाणकालोऽपि दिनप्रथमपौरुषीपूर्वाहादिभेदादनेकविध इत्यतः प्रश्न: प्रमाणकाले च कस्मिस्तज्जिनवरेन्द्रेण भाषितम्-विनेयःपृच्छति-कस्मिन् क्षेत्रे काले च व सामायिकस्य निर्गमः? इत्यर्थ इति / अत्रोत्तरमाहवइसाहसुद्धइक्का-रसीऍ पुटवण्हदेसकालम्मि! महसेणवणुज्जाणे, अणंतर परंपर सेसं // 2053 / / वैशाखशुक्लैकादश्यां पूर्वाह्नदेशकाले प्रथमपौरुष्यामित्यर्थः, कालस्यान्तरङ्गत्वख्यापनार्थमेव प्रश्नाव्यत्ययेनोत्तरनिर्देशः, महासेनवनोद्यानलक्षणे क्षेत्रे चानन्तर निर्गमः सामायिकाध्ययनस्य। 'परंपरं सेसं' ति-अन्येष्वपि गुणशिलकाद्युद्यानसत्रेषु पश्चात् प्ररूपितमेव भगवता सामायिकम्, किन्तु-महासेनवनात् शेष क्षेत्रजातमधिकृत्य परंपरनिर्गमः, तस्य केवलज्ञानोत्पत्तावपापामध्यमानगर्यां महासेनवनोद्यान एव प्रथम तस्य प्ररूपितत्वादिति। तदेवं 'नाम ठवणा दविए, खेत्ते काले तहेव भावे अ / एसो उ निग्गमस्स,निक्खेवो छविहो होइ।।१।।' अस्या निर्गमनिक्षेत्रप्रतिपादकगाथायामुद्दिष्टौ व्याख्यातौ क्षेत्रकालनिर्गमौ / ___ अथ भावनिर्गममभिधित्सुराहखइयम्मि वट्टमाण-स्स भगवओ निग्गयं जिणिंदस्स। भावे खओवसमिय-म्मि वट्टमाणेहि तं गहियं / / 2054 / / भावशब्दोऽत्रापि संबध्यते। ततश्च क्षायिके भावे वर्तमानस्य जिनेन्द्रस्य भगवतः श्रीमन्महावीरस्य निर्गतं सामायिकम् / क्षायिकोपशमिके भावे च वर्तमानैस्तस्मात् सामायिकमन्यच्च श्रुतं गृहीतम् (गणधरादिभिः) इति गम्यते / तत्र भगवतो दर्शनज्ञानचारित्रावरणस्य सर्वथा क्षीणत्वात् क्षायिको भावः,गणधरादीनां तु तदावरणस्य तदानीं क्षयोप