________________ सामाइय 725 - अभिधानराजेन्द्रः - भाग 7 सामाइय भवन्ति तदा सम्यक्त्वादि-लाभकाले कथं तेषां शुभभावले श्यासम्भवः / द्रव्यलेश्या हि भावलेश्या जनयन्ति। ततः कृष्णादिलेश्या द्रव्याराशुभ:नि कथं शुभभावले श्याजनयेयुः, अशुभकारणात् शुभकार्यायोगात्? इति सत्यम्, किन्तु-नारकादीनामपि सम्यक्त्वादिलाभकाले कथमपि यथाप्रवृत्तिकरणेन शुभानि तैजस्यादिद्रव्यलेण्याद्रव्याण्याक्षिप्यन्ते / ततो यथाऽऽदर्शः श्वेतोऽपि जपाकुसुमादिवस्तुप्रतिबिम्बसंक्रान्ता रक्तादिरूपता प्रतिपद्यते तथा कृष्णाघशुभद्रव्याण्यपिजस्यादिशुभद्रव्यप्रतिबिम्बसंक्रमे निजरूपोत्कटतां परित्यज्य तदाभासतां प्रतिपद्यन्ते / ततो नारकादीनामपि कृष्णाद्यशुभद्रव्यानुभवं मन्दतां नीत्वा शुभानि तैजस्यादिद्रव्याणि शुभां भावलश्या जनयन्त अताऽवस्थितायामपि कृष्णादिद्रव्यलेश्यायां नारकदवानां सम्यक्त्यादि लाभकाले शुभभावलेश्यासम्भवो न विरुच्यते / इत्यलं विस्तरेण / तदर्थना तु- "से नृणं भंते ! किण्हलेसा नीललेसं पप्प नो तारूवत्ताए, नो तावन्नत्ताए' इत्यादि प्रज्ञापनासूत्रं मूलावश्यकटीकादिलिखितमनुसरणीयम् इति गाथाद्वयार्थः / (56) अथ परिणामद्वारमाह-- वडते परिणामे,पडिवजइ सो चउण्हमण्णयरं / एमेव वड्डियम्मि वि, हायंतें न किंचि पडिवझे // 2743 // परिणामः- अध्यवसायविशेषः / तत्र शुभशुभतररूपतया वर्धमाने परिणामे प्रतिपद्यते स वर्धमानपरिणामो जीवश्चतुर्णा सम्यक्त्वादिसामायिकानामन्यतरदिति / एवमेव पूर्वोक्तन्यायेनान्तरकरणादावास्थित पिशुभ परिणामे प्रतिपातरा चतुर्णामन्यतरदिति। हीयमाने तु क्षीयमाणे शुभे परिणाम न कश्चित् सामायिकम् प्रतिपद्यते, संग्लिटत्वात्। प्राकप्रतिपन्नस्तु त्रिष्वपि परिणामेषु भवतीति। (60) अथ वेदनासमुद्भातकर्गद्वारद्वयमाहदुविहाएँ वेयणाए, पडिवजह सो चउण्हमण्णयरं। असमोहओ वि एमे--व पुवपडिवन्नए भयणा / / 2744|| द्विविधायां वेदनायां साता-5सातरूपायां सत्या प्रतिपद्यते स / चतुर्णामन्य तरत, प्राक्प्रतिपन्नश्च भवतीति द्वारम्। समएकीभावे, उतप्राबल्ये, बदना--कषावाद्यनुभवपरिणामेन सहै कीभावमापन्नस्य जन्तार्वेदनीयादिकर्मपुद्रलाना प्राबल्येन हननं -घातः समुद्धातः / स च केलिसमुद्रातादिभेदात् सप्तविधः, उक्त च- 'केवलिकसायमरणा, क्षेप्रणबउब्धिते व आहारे। सत्तविह-समुन्याआ, पन्नतो वीयरागेहिं / / 1 / / समुदघाते एव कम...क्रिया समुद्धातकर्म तद्द्वारमितः प्रोच्यते / तत्र फतल्यादेसमुद्धातन समवहतस्य विपक्षोऽसमवहतः / सोऽप्येवमेव वेदनाबदहाच्यः, चतुर्णा प्रतिपद्यमानकः पूर्वप्रतिपन्नश्च भवतीत्यर्थः / 'पुथ्वपडिवण्णए भयण' त्ति-इदं साध्याहारं व्याख्येयम्, तद्यथा-यस्तु केवल्यादिसप्तविधसमुद्धातेन समबहतः स न किशित् सामायिक प्रतिपद्यत / पूर्वप्रतिपन्नके तु भजना-सेवना समर्थना-विधिः कार्य इति यावतः सन्नवहतो हि सामायिकद्वयस्य त्रयस्य वा पूर्वप्रतिपन्नका भवति। तत्र कवलिसमुद्धाते सम्यक्त्वचारित्रसामायिकद्वयस्य पूर्वप्रतिपन्नको लभ्यते। शेषसमुद्धातेषु पुनर्देशविरतिवर्जसामायिकत्रयस्य चारित्रवर्जस्य वा सामायिकत्रयस्य पूर्वप्रतिपन्नःप्राप्यते इति नियुक्तिगाथार्थः। विशे० / आ०म० (61) निर्वेष्टनोद्धर्तनद्वारद्वयमाहदव्वेण य भावेण य, निव्वेट्टतो चउण्हमण्णयरं। नरएसु अणुव्वट्टे, दुग तिग चउरो सि उव्वट्टे ||2745 / / द्रव्यतः सामान्येन सर्वकर्मप्रदेशान्,विशेषतस्तु तस्य चतुर्विधस्य सामायिकस्य यदावरण ज्ञानावरणमोहनीयलक्षण तत्प्रदेशान् निर्वेष्टयन् निर्जरयन्, भावतस्तु क्रोधाद्यध्यवसायान् निर्वेष्टयन हा(प) ययश्चतुर्णामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्येव / संवेष्टयंस्त्वनन्तानुबध्यादीन न प्रतिपद्यते, शेषकर्म त्वङ्गीकृत्योभयथाऽप्यस्ति। नरकेष्वधिकरणभूतेष्वनुद्वर्तयंस्तत्रस्थ एवेत्यर्थः, आद्यं सामायिकद्वयं प्रतिपद्यते,तदेव चाधिकृत्य पूर्वप्रतिपन्नो भवति / तत उवृत्तः स्यात् कदाचित् तिर्यक्षुत्पन्नः सर्वविरतिवर्ज सामायिकत्रयं प्रतिपद्यते, कदाचित्तु मनुष्य षूत्पन्नश्चत्वार्यपि प्रतिपद्यते, पूर्व प्रतिपन्नस्त्वस्त्येव इति नियुक्तिगाथार्थः। भाष्यम्कम्मं निव्वेट्टतो, पवनइ विसेसओ तदावरणं / दव्वं कम्मपएसे, भावे कोहाइ हावितो // 2746 / / उक्तार्थव। तदेवोद्वर्तनाद्वारं तिर्यगादीनधिकृत्याहतिरिएसु अणुव्वट्टे, तिगं चउक्कं सिया उ उव्वट्टे / मणुएसु अणुव्वट्टे, चउरो वि तियं सि उव्वट्टे ||2747 / / देवेसु अणुव्वट्टे, दुग तिग चउरो सिया उ उव्वट्टे / उव्वट्टमाणओ पुण, सव्वो विन किं चि पडिवजे / / 2748|| तिर्यक्षु गर्भजष्वनुवृत्तः संस्त्रिकमाद्यं सामायिकत्रयमधिकृत्य 'प्रतिपत्ता पूर्वप्रतिपन्नश्च भवति' इत्यध्याहारः / 'चउक्क' मित्यादि तिर्यग्भ्य उवृत्ता मनुष्यादिष्वायातः स्थात् कदाचिच्चतुष्कम्, स्याद् ग्रहणादिदमपि द्रष्टव्यम्। स्यात् त्रिकम्, स्याद् द्विकमधिकृत्योभयथाऽपि भवतीति। 'मणुएसु अणुव्वट्टे चउरो' त्ति-मनुष्ये-ष्वनुवृत्तः संश्चत्वारि प्रतिपद्यते, प्राक् प्रतिपन्नश्च भवति। बितिय सि उट्वट्टे' मनुष्येभ्य उवृत्तो देवनारकेषूत्पन्नः प्रथमं सामायिक-द्वयमधिकृत्योभयथाऽपि लभ्यते . तिर्यक्षुत्पन्नः पुनः सर्वविरति-वर्जसामायिकत्रिकमाश्रित्य द्विधाऽपि भवतीति। देवेसु अणुव्वट्टे दुग' त्ति-देवेष्वनुवृत्तः सन्नाद्यं सामायिकद्वयमाश्रित्योभयथाऽपि भवति। 'तिग चउरो सिया उउव्वट्टे त्ति देवेभ्य उवृत्तस्तिर्यक्ष्वायातः सर्वविरतिसामायिकत्रिकम्, मनुष्येषु त्वायातः सामायिकचतुष्कमप्याश्रित्योभयथापि स्यादिति / उद्वर्तमानः पुनरपान्तरालगतौ सर्वोऽप्यमरादिर्न किञ्चित् प्रतिपद्यते, प्राक् प्रतिपन्नस्तु द्वयोर्भवतीति। (62) आश्रवकरणद्वारमाहनीसवमाणो जीवो, पडिवजइ सो चउण्हमण्णयरं।