SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ सामाइय 724 - अभिधानराजेन्द्रः - भाग 7 सामाइय वो दाह्याभावाद् न वर्धते; किन्तु विध्यायति,इत्येवं वेद्यस्य मिथ्यात्वस्याभावात् तत्क्षपणाया निवृत्तिकरणवद् नौपशमिकसम्यग्दृष्टः परिणामो वर्धत किन्त्ववस्थित एवास्ते, अतोऽवस्थितपरिणामत्वमिति / (56) ओरालिए चउक्क इत्यादेव्याख्यानमाहदुगपडिवत्ती वेउ-व्वियम्मि सव्वाइँ पुथ्वपडिवन्नो। देसव्वयवजाई, आहाराईसुतीसुंतु // 2737 / / / उक्तार्था / नवरमाहारकशरीरे देशविरतिवर्जसामायिकत्रयं पूर्वप्रतिपन्नमवाप्यते, चतुर्दशपूर्वविदो देशविरतेरभावात्, शेषाणा तु पूर्वप्रतिपन्नत्वेन प्रतिपत्तेरसम्भवादिति / तैजसकार्मणयोस्तु केवलिसमुद्घाते चतुर्थपञ्चमतृतीयसमयेषु सम्यक्त्वचारित्रसामायिकस्य विग्रहगतौ तु सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नः प्राप्यते। इति गाथासप्तकार्थः। (57) अथ संस्थानादिद्वारत्रयमाहसव्वेसु वि संठाणे-सु लहइ एमेव सव्वसंघयणे। उक्कोसजहन्नं व-ज्जिऊण माणे लभे मणुओ // 2738|| संस्थितिः संस्थानमाकारविशेषलक्षणम् / तच्च ‘समचउरंसे निग्गोहमंडले' इत्यादिभेदात् घोढा / तत्र सर्वेष्वपि संस्थानेषु लभतेप्रतिपद्यते चत्वार्यपि सामायिकानि, 'प्राक् प्रतिपन्नोऽप्यस्ति' इत्यध्याहारः। (संहनने)'एमेव सव्वसंघयणे' त्ति-संहन्तिः संहननमस्थिसञ्चयविशेषः, तानि च / वजर्षभनाराचादिभेदात् षड् भवन्ति / एतेषु च यथासंस्थानेष्वेवमेव निरवशेषो विचारः कर्तव्यः, पूर्वप्रतिपन्नानि प्रतिपद्यमानानि चैतेष्वपि चत्वारि लभ्यन्त इत्यर्थः। (अवगाहना)'उक्कोसे' इत्यादि मीयते इति मानं-शरीरस्य प्रमाणमवगाहनेत्यर्थः / तत्र मनुष्यस्योत्कृष्टमानं त्रीणि गव्यूतानि, जघन्य त्वइगुलासख्येयभाग, एतदुत्कृष्ट जघन्यं च मानं वर्जयित्वा मध्यमशरीरमाने वर्तमानो मनुष्यो लभते-प्रतिपद्यते 'चत्वार्यपि सामायिकानि' इति प्रक्रमाद् गम्यते। पूर्वप्रतिपन्नस्त्वस्त्येव / जघन्यावगाहस्तु गर्भजमनुष्यः सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नः सम्भवति / नतुप्रलिपद्यमानकः उत्कृष्टावगाहनस्तु। त्रिगव्यूतः सम्यक्त्व-श्रुतयोधिाऽप्यस्ति। नारकदेवा अपि जघन्यावगाहनाः सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नाः सम्भवन्ति न तु प्रतिपद्यमानकाः / मध्यमोत्कृष्ट वगाहनास्त्वेतयोः प्रतिपद्यमानकाः सम्भवन्ति, पूर्वप्रतिपन्नास्तु सन्त्येव, तिर्यश्वस्तु पञ्चेन्द्रिया जघन्यावगाहनाः सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नाः सम्भवन्ति नतु प्रतिपद्यमानकाः उत्कृष्टावगाहनास्तु षड्गव्यूतास्तयोxिधाऽपिलभ्यन्ते। मध्यमावगाहनास्तु द्वयोस्त्रयाणां वा सर्वविरतिवर्जितानां प्रतिपद्यमानकाः | सम्भवन्ति पूर्वप्रतिपन्नास्तु त्रयाणा सन्त्येव इति नियुक्तिगाथार्थः / अथ भाष्यमन जहन्नोगाहणओ, पवज्जए दोण्णि होज्ज पडिवन्नो। उकोसोगाहणगो,दुहा विदो तिन्नि उतिरिक्खो।।२७३९।। / __ जघन्यावगाहनो गर्भजमनुष्यस्तिर्यक् च न किशित् प्रतिपद्यते, द्वयोस्त्वाद्ययोः पूर्वप्रतिपन्नो भवेत् / उत्कृष्टावगाहनस्वनयोर्द्विधाऽपि पूर्वप्रतिपन्नः प्रतिपद्यमानकश्व भवति। मध्यमावगाहनो मनुष्राश्चतुर्णामपि सामायिकानां पूर्वप्रतिपन्नः प्रतिपद्यमानश्च लभ्यत इति द्रष्टव्यम् / पशेन्द्रियतिर्यक् पुनर्द्वयोराद्ययोः त्रयाणां वा सर्वविरतिवर्जिताना 'द्विधापि' इत्यत्रापि वर्तत, पूर्वप्रतिपन्नः प्रतिपद्यमानश्च भवति इति गाथार्थः। (58) अथलेश्याद्वारमाहसम्मत्तसुयं सव्वा-सु लहइ सुद्धासु तीसु य चरित्तं / पुव्वपडिवन्नओ पुण, अन्नयरीए उ लेसाए।।२७४०।। सम्यक्त्वश्रुतसामायिके सर्वास्वपि कृष्णादिकासुशुक्लान्तास षट्स्यपि लेश्यासु लभते-प्रतिपद्यते नरकादिः / चारित्रं तु देशसर्वविरतिलक्षणं शुद्धास्वेवोपरितनीषु तैजसीपद्मशुक्ललक्षणासु तिसृथु लेश्यासु प्रतिपद्यते / पूर्वप्रतिपन्नः पुनः षण्णामन्यतरस्यामपि लेश्यायां चारित्री सम्यग्दृष्टिश्च प्राप्यते। इति नियुक्तिगाथार्थः / अथ भाष्यकारः प्रेर्यमुत्थापयन्नाहनणु मइसुयाइलाभो-ऽभिहिओ सुद्धासु तीसु लेसासु / सुद्धासु असुद्धासु य, कहमिह सम्मत्तसुयलामो ? / / 2741 / / ननु पूर्व ज्ञानपाक विचारे मतिश्रुतादिज्ञानलाभः शुद्धास्वेव तैजसीप्रभृतिषु तिसृषु लेश्यास्वाभिहितः इह तु शुद्धास्वशुद्धोसु च षट्स्वपि सम्यक्त्वश्रुतलाभोऽभिधीयमानः कथं न विरुध्यत? इति। अत्र परिहारमाहसुरनेरइएसु दुगं, लब्भइ य दव्वलेसया सव्ये / नाणेसु भावलेसाऽ-हिगया इह दव्व लेसाओ॥२७४२|| इह तावत् सुरनारकेष्वपि सम्यक्त्वश्रुतसामायिकद्वयं लभ्यतएव तेच सुरनारकाः सर्वेऽप्यवस्थितद्रव्यलेश्या भवन्ति, यथासम्भवं षडपि कृष्णादिद्रव्यलेश्यास्तेष्ववस्थिताः श्रुते प्रतिपाद्यन्त इत्यर्थः / भावलेश्यास्तु तेषां परावृत्त्या कस्यचित् काचिदेव भवति / तिर्यग्मनुष्याणां त्ववस्थिता द्रव्यलेश्या न भवन्ति, किन्तु-द्रव्य-लेश्या, भावलेश्या च सर्वेषां परावर्तते। देवनारकाणामपि द्रव्य-लेश्यैवावस्थिता, भावलेश्या तु तेषामपि परावृत्त्या कदाचित् काचिदेव भवति / ततश्च सुरनारका अपि यदा सम्यक्त्वादिकं लभन्ते तदा भावलेश्या तेजस्यादीनामन्यतरा शुद्धव भवति, अशुद्धा तु नित्यावस्थितत्वात् तेषां द्रव्यलेश्यैव द्रष्टव्या न तु भावलेश्या / एवं च स्थिते ज्ञानेषु मत्यादिषु पूर्व लाभचिन्तायां भावलेश्यैवाधिकृता भावलेश्यामेवाङ्गीकृत्यशुद्धलेश्या-शये तल्लाभ उक्त इत्यर्थः / इह तु सम्यक्त्वश्रुतसामायिकलाभचिन्तायां देवनारकानाश्रित्य द्रव्यलेश्या अधिकृताः, तेन सुद्धास्वसुद्धासु च सर्वासु लेश्यासुतलाभ उक्त इति भावः। भावलेश्यामङ्गीकृत्यपुनरिहापिशुद्धारवेव तिसृषुतैजस्यादिलेश्यासुतलाभोऽवगन्तव्यः। इति नकश्चिद् विरोधः। आहननु यदि देवनारकाणां कृष्णादिका अशुभा द्रव्यलेश्याः सदाऽवस्थिता
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy