________________ सामाइय 715 - अभिधानराजेन्द्रः - भाग 7 सामाइय भेद एव, अनुगमस्यच व्याख्यानरूपत्वात् सिद्धमुपोद्घातस्य व्याख्यानार्थत्वमिति। परिहारान्तरमाहनासस्स व संबंधण-मुवक्कमोऽयं तु सुत्तवक्खाए। संबंधोवग्धाओ, भण्णइ जं सा तदंतम्मि||६|| अथवा-न्यासस्याऽध्ययनसंबन्धिनो नामादिनिक्षेपस्य संबन्धनं तद्योग्यताऽऽपादनमुपक्रम उच्यते, तदन्ते तत्प्रतिपादनात् / अयं तूपोद्धातः सूत्रव्याख्यायाः सबन्धस्तद्योग्यताव्यवस्थापनरूपः यद्'यस्मात् तदन्ते-उपोद्धातान्ते सैव सूत्रव्याख्या भण्यते; इत्युपक्रमोपोद्वातयोर्विशेषः / तदेवमभिहितं संक्षेपेणोपोद्धातनियुक्तेिर्भावार्थमात्रम्। विशेष अथ विस्तरार्थमभिधित्सुर्भाष्कार उद्देशनिर्देशविषयमाक्षेपं चेतस्याशक्य परिहारं तावदाहउद्देठं निहिस्सइ, पाय सामन्नओ विसेसो त्ति। उद्देसो तो पढम, निद्देसोऽणंतरं तस्स / / 1486|| ननु कस्मात् प्रथममुद्देशस्ततो निर्देशः? इत्याशङ्कय परिहरति'उद्देछ' मित्यादि, सामान्येन हि पूर्व वस्तूद्दिश्य ततः पश्चाद् विशेषतो निर्दिश्यते; इति शास्त्रे लोके च स्थितिः। तथा–ज्ञानमपि प्रायः प्रथम वस्तुनः सामान्याकारग्राहकमुत्पद्यते,ततो विशेषाकारणाहकम्। ततः-- तस्मात् कारणाद् वस्तुनः सामान्याभिधानलक्षणः प्रथममुद्देशः ततस्तस्यैव विशेषाभिधानरूपो निर्देश इति गाथार्थः / विशे०। . (35) एतानि द्वाराणि क्रमशो व्याख्यानयामि तत्रानुमतद्वारम्। कस्य जीवस्य किं सामायिकम् / साम्प्रतं 'कस्य सामायिकं भवति?' इति द्वारे प्रस्तुते यस्य तद् भवति तदभिधित्सया प्राहजस्स सामाणिओ अप्पा,संजमे नियमे तवे। तस्स सामाइयं होइ, इइ केवलिभासियं // 2676 / / जो समो सव्वभूएसु, तसेसुं थावरेसु य / तस्स सामाइयं होइ, इइ केवलिभासियं // 2680 / / यस्य सामायिकः निसंनिहितोऽप्रोषित इत्यर्थः, आत्मा जीवः। क्व? संयमे-मूलगुणरूपे, नियम उत्तरगुणात्मके, तपसि-अनशनादिलक्षणे। तस्यैवंभूतस्याप्रमादिनः सामायिकं भवतीत्येवं केवलिभिर्भाषितमिति / तथा, यः समो मध्यस्थ आत्मानमिव परं पश्यतीत्यर्थः, सर्वभूतेषु सर्वप्राणिषुत्रसेषु-दीन्द्रियादिषु, स्थावरेषु च पृथिव्यादिषुतस्य सामायिक भवतीत्येतच्च केवलिभिर्भाषितमिति। साम्प्रतं फलप्रदर्शनद्वारेणास्य करणविधानं प्रतिपादयन्नाहसावजजोगं परिरक्खणट्ठा, सामाइयं केवलियं पसत्थं / गिहत्थधम्मा परमं ति नचा, . कुज्जा बुहो आयहियं परत्था॥२६८१॥ सावद्ययोगपरिरक्षणार्थं सामायिकं केवलिक-परिपूर्ण -प्रशस्तंपवित्रम्, एतदेव हि गृहस्थधर्मात् परमं-प्रधान ज्येष्ठम्,इत्येवं ज्ञात्वा कुर्यात् बुधो-विद्वानात्महितम्-आत्मोपकारकम इहलोके,परत्र च / अथवा-परो मोक्षस्तदर्थं कुर्याद्, नतु सुरलोकाद्यर्थम्। इति नियुक्तिरूपकत्रयार्थः। अथ भाष्यगाथाकेवलियं पडिपुग्नं, परमं जेटुं गिहत्थधम्माओ। तं हियमिओ परत्था, सिव परं वा तदत्थं वा / / 2682|| गतार्था / नवरम् 'तं हियमिओ परत्थ' त्ति-तत् सामायिकमात्मनो हितम्। व? इत्याह-इतः इहलोके, परत्र-परलोके चेति। ___ अथ वक्ष्यमाणगाथायाः प्रस्तावनां कुर्वन् भाष्यकार एवाहगिहिणा विसव्ववज,दुविहं तिविहेण छिन्नकालं तं। कायव्वमाह सव्वे, को दोसो भण्णएऽणुमई // 2683|| इह परिपूर्णसामायिककरणशक्त्यभावे- सम्पूर्णसंयमाङ्गीकारभावसार्थ्याभावे गृहिणाऽपि-गृहस्थेनाऽपि सता तत्- सामायिकं, छिन्नकालं-द्विघटिकादिकालमानोपेतं सर्ववर्जसर्वशब्दोचारणरहितं द्विविधं त्रिविधेन कर्त्तव्यमेव / अत्राह-परः-सर्वे-सर्वशब्दोच्चारणे को दोषः, येन सर्ववर्जम्-इति विशिष्यते? भण्यतेऽत्रोत्तरम्-सर्वशब्दोच्चारणं कुर्वतस्तस्य सावधयोगानुमतिलक्षणो दोषः, क्षेन हि गृहादिषु प्रागनेक आरम्भाः प्रवर्तिताः सन्ति, तदनुमतिश्च सामायिके तिष्ठतस्तस्यानुवर्तत एव ततः सर्वसावधयोग-निषेधं कुर्वतो गृहस्थस्य व्रतभङ्ग एव स्यादिति भावः / इति गाथाद्वयार्थः / (विशे०) (सर्वविरतिविषया 'सव्वविरइवाइ' शब्देऽस्मिन्नेव भागे व्याख्या गता।) अत्रापेक्ष-परिहारौ भाष्यकारः प्राहआहाणुमई वन सो, किं पचक्ख त्ति भन्नइ न सत्तो। पुष्वपउत्तियसाव-ज कम्मसाइजणं मोत्तुं / / 2685 / / वाशब्दोऽप्यर्थः, आह परः- ननु यथा सावद्ययोगस्य करण कारणे तथाऽनुमतिमप्यसौ किमितिन प्रत्याख्याति? भण्यतेऽत्रोत्तरम्-नासौ गृही शक्तः-समर्थः / किं कर्तुम्? मोक्तुम् / किं तत्? इत्याहपूर्वप्रयुक्तस्य प्राग गृहादिषु प्रवर्तितस्य सावद्यकर्मणः सावद्ययोगस्य 'साइज्जणं' तिअभिष्वञ्जनम् प्रतिबन्धविधानमित्यर्थः / शक्यमेव ह्यनुष्ठानं विधीयते, नाशक्यम्। पूर्वप्रवृत्ते च सावद्ययोगे गृहस्थोऽभिष्वङ्ग मोक्तुं न शक्नोति / अतो न सावद्ययोगानुमतिमसौ प्रत्याख्याति, व्रतभङ्गप्रसङ्गादिति। पुनरपि पराभिप्रायमाशय परिहरनाहनणु तिविहं तिविहेणं, पच्चक्खाणं सुयम्मि गिहिणो वि। तं थूलवहाईणं,न सव्वसावजजोगाणं // 2686|| ननु गृहस्थस्य सावद्ययोगानुमतिप्रत्याख्याननिषेधं कुर्वतस्तव श्रुतविरोधः, यतस्त्रिविधं त्रिविधेन प्रत्याख्यानं श्रुते गृहिणोऽपि भणितम्इति शेषः, तथा च भगवत्यामुक्तम्- "समणोवासगस्सणं भंते! पुव्वमेव थूले पाणाऽइवाए अपच्चक्खाए भवइ, सेणं भंते! पच्छा पच्चाइक्खमाणे किं करेइ? गोयमा ! तीयं पडिक्कमइ, पडु-प्पन्नंसंवरेइ, अणागयं पच्चक्खाइ।तीयं पडिक्कममाणे किं तिविहं तिविहेण पडिक्कमइ, तिविहं दुविहेण पडिक्कमइ, तिविहं एगविहेण पडिकमइ? ०जाव एकविहं एक्कविहेण