________________ सामाइय 713 - अभिधानराजेन्द्रः - भाग 7 सामाइय द्रव्यपतिरयमिति, द्रव्ये-सिंहासने राजा,चूते कोलिलः, गिरौ मयूर इति / एवं क्षेत्रविषयोद्देशोऽपि वक्तव्यः, एवं कालविषयोऽपीति / 'समासःसंक्षेपस्तद्विषय उद्देशः समासोद्देशः, स च अङ्ग श्रुत-स्कन्धाध्ययनेषु द्रष्टव्यः / तत्र अङ्गसमासोद्देशः- अङ्गम्, अङ्गी तदध्येता तदर्थज्ञ इत्येवमन्यत्रापि योजना कार्या। उद्देश:-अध्य-यनविशेषः तस्य उद्देश उद्देशोद्देशः,तद्विषयश्च उद्देश इति, सचोटे-शोद्देशोऽभिधीयते-उद्देशवान् तदध्येता तदर्थज्ञो वेति / भावविष-यश्च भवति उद्देशः अष्टमक इति,स चाय--भावः भावी भावज्ञो वेति गाथार्थः / आव० १अ०॥ (31) उद्देशादीनि द्वाराणि। अथ प्रेरकः प्राहदारोवन्नासाइसु, निक्खेवे ओहनाम निप्फन्ने। उद्देसो निद्देसो, भणिओ इह किं पुणग्गहणं / / 976|| आह-नन्वसावावश्यकशास्त्रस्य प्रथममध्ययनं सामायिकम्, तस्य च चत्वार्यनुयोगद्वाराणि, इत्यादिना द्वारोपन्यासादिषु प्रक्रमेषु / यदि वाओघनिष्पन्ननामनिष्पनयो निक्षेपयोः सामान्यनामरूप उद्देशः, विशेषनामरूपश्च निर्देशोऽनेकशः-प्रोक्त एव; किमर्थमिहोपोद्धातनिर्युक्तौ पुनरपि तयोर्ग्रहणम्? इति। अत्रोत्तरमाहइह विहियाणमसागय-गहणं तत्थनहा कहं कुणउ। तेसिंगहणमकाउं, दारनासाइकज्जाइं॥९७७।। इहोपोद्धाते आद्यद्वारद्वयविहितयोरेवोद्देश-निर्देशयोस्तत्र द्वारोपन्यासादौ शास्त्रकृताऽनागतमेव ग्रहणं कृतम्, अन्यथा हि तयोः सामान्यविशेषनामरूपयोरुद्देशनिर्देशयोस्तत्र ग्रहणमकृत्वा कथं निराश्रयाणि द्वारोपन्यासादिकार्याणि करोतु? इति। प्रतिविधानान्तरमाहअहवा तत्थुडेसो, निहेसो विय कओ इह तेसिं। अत्थाऽणुगमावसरे,विहाणवक्खाणमारद्धं ||17|| अथवा-तत्र द्वारोपन्यासादौ सामान्यविशेषाभिधानरूप उद्देशो, / निर्देशश्च कृतं इत्युपगमच्छामः केवलमिहार्थानुगमावसरेऽर्थव्याख्याप्रस्तावे तयोः पूर्वविहितयोरुद्देशनिर्देशयोर्विधानतोभेदतो व्याख्यानमारब्धमित्यदोष इति / अन्ये तु ब्रुवते। किम्? इत्याहअने उ विसेसमिहं, भणंति नोइसबद्धमेयं ति। जाणावियमायणं, समासदारावयारेणं // 976|| अन्ये तु पूर्वविहितयोरपीह विशेषमाचक्षते नोद्देशकबद्धमिदमध्ययनमित्येतज्ज्ञापितं किल / कुतः ? अङ्ग श्रुतस्कन्धाध्ययन-- समासद्वारावतारात्। इदमत्र हृदयम्- "नामं ठवणा दविए, खेत्ते काले समासे उद्देसे। उद्देसुद्देसम्मि य, भावम्मि य होइ अट्ठमओ।।१॥" इति पुरस्तादिहैव वक्ष्यमाणगाथायामुद्देशोऽष्टविधोऽभि-धास्यते, तथा एमेव य निद्देसो' इत्यादिगाथायां निर्देशोऽपि चाष्टविधो वक्ष्य, ते / तत्र च समासद्वारे संक्षेपाभिधायकं नाम समासोद्देश इति व्याख्यास्यते,तद्यथा-- अङ्गम, श्रुतस्कन्धः अध्ययनम्, उद्देश इत्यादि।तत्रेदंसामायिकाध्ययनं किलाध्ययनोददेशो भवति,न तूद्देशोद्देशः, उद्दशरहितत्वात्। एतच तत्र व्याख्यास्यते / तदत्रोद्देशनिर्देशयोरष्टविधत्वमणनेन षष्ठ समासद्वार--- मायातम् / अनेन चसमासद्वारेण विचार्यमाणेदमध्ययनमुद्देशरहितमिति ज्ञापितम् / एतच्चेहोद्देशनिशाभणनेन निर्मूलस्य समासद्वारस्यैवाऽऽभावात् किल न ज्ञायतेति। एतच्च यत्किञ्चिदेव,इति दर्शयतिअंगाइपण्हकाले, कालिय सुयमाणसमवयारे य। तमणुद्देसयबद्धं भणियं चिय इह किमब्भहियं?||१०|| आवश्यकं किमङ्गम्, अङ्गानि? इत्यादि, प्रश्रकाल एव कालिकश्रुतपरिमाणसंख्यावतारे चाध्ययनसंख्यावतारात्, नोद्देशकः नोद्देशकाः इति निषेधाच्च तत् सामायिकाध्ययनमुद्देशकबद्धं न भवतीति भणितमेव, इह किमभ्यधिकमज्ञातं ज्ञायते? तस्माद्यत्किञ्चिदेवेदम्। अत एतयोरिह भणनं व्याख्यानार्थमेवेति स्थितम् / तदेवं कृतोद्देशनिर्देशविषया चालना, प्रत्यवस्थानं च // अथ निर्गमनं निर्गमः / स च कुतः सामायिकम् निर्गतम्? इत्येवंरूपो वक्ष्यते। (32) अत्राक्षेपपरिहारौ प्राहनणु निग्गमो गउ चिय,अत्ताणंतरपंरपरागमओ। तित्थयराईहिंतो, आगयमेयं परंपरया // 18111 ननु पूर्वमार्गमद्वार एवात्माऽनन्तरपंरपरागमतस्तीर्थकरादिभ्यः परम्परया समागतमेतत् सामायिकमित्यभिधानात् तीर्थकरादिभ्यो निर्गमनमस्य, इत्यवगतत्वाद् गतार्थ एव निर्गमः, किं पुनरिहोपात्तः? इति। परिहारमाहइह तेसिं चिय मण्णइ,निद्देसो निग्गमो जहा तं च / उवयातं तेहिंतो,खेत्ताइविसेसियं बहुहा।।१२|| तेषामेव तीर्थकरीदानां सामान्यो देशमात्रेण प्रागवगतानामिह विशेषाभिधानरूपो निर्देशो भण्यते, यथा श्रीमन्महावीरतीर्थकरादेतत् सामायिकमर्थतो निर्गतम्, सूत्रतस्तुगौतमादिगणधरेभ्यो निर्गतम्, तथा निर्गमश्वेह मिथ्यात्वादिरत्यादितमसस्तेषां तीर्थकरादीनामत्रोच्यते 'अवरविदेहे गामस्स चिंतओ' इत्यादिना ग्रन्थेना तथा, तच्च सामायिकं बहुधा-अनेकशः क्षेत्रकालपुरुष-कारणप्रत्ययविशेषितं तेभ्यस्तीर्थकरादिभ्यो यथोपयातमागतम्, तच्चेह भण्यत इति विशेषः। अथ लक्षणद्वारविषयमाक्षेपमाह-- अज्झयणलक्खणं नणु,खओवसमियं गुणप्पमाणे वा। नाणागमाइगहणे, भणियं किमिहं पुणो गहणं / / 183|| लक्ष्यतेऽनेनेति लक्षणम्, तच्च-'सद्दहण जाणणा खलु' इत्यादिना सामायिकस्य सावद्ययोगविरत्यादिकं वक्ष्यति। अत्र परः प्रेरयति-नन्वध्ययनस्याऽस्य क्षायोपशमिको भावो लक्षणम्, इति प्रागुपक्रमभेदरूपे षड्नाम्नि क्षायोपशमिके भावे समवतारादर्थापत्त्या भणितमेव। अथवा