________________ सामाइय 712 - अभिधानराजेन्द्रः - भाग 7 सामाइय कारण 7 पच्चय लक्खण 6, नए 10 समोआरणा 11 ऽणुमए 12 // 40 // किं 13 कइविहँ 15 कस्स 15 कहिं, 16, केसु 17 कहं 18 केच्चिरं 19 हवइ कालं। कइ 20 संतर २१मविरहि 22, भवा२३ऽऽगरिस२४फासण२५निरुत्ती२६ // 141 / / उद्देशो वक्तव्य; एवं सर्वेषु क्रिया योज्या / उद्देशनमुद्देशः- सामान्याभिधानमध्ययनमिति 1 / निर्देशनं निर्देशः विशेषाभिधानं सामायिकमिति 2 // तथा निर्गमनं निर्गमः 3 / कुतोऽस्य निर्गमनमिति वाच्यम्, क्षेत्रं वक्तव्यम् कस्मिन् क्षेत्रे? 4 / कालो वक्तव्यः कस्मिन् काले ?5 / पुरुषश्च वक्तव्यः कुतः पुरुषात् ? 6 / कारणं वक्तव्यं किं कारणं गौतमादयः शृण्वन्ति ? 7 / तथा प्रत्याययतीति प्रत्ययः स च वक्तव्यः, केन प्रत्ययेन भगवतदमुपदिष्टम् ? को वा गणधाराणां श्रवण इति / तथा लक्षणं वक्तव्यं श्रद्धानादि / तथा नया-नैगमादयः 10 / तथा तेषामेव समवतरणं वक्तव्यं यत्र संभवति, वक्ष्यति च'मूढणइयं सुयं कालियंतु' इत्यादि 11 / अनुमतम् इतिकस्यव्यवहारादेः किमनुमतं-सामायिकमिति, वक्ष्यति-'तवसंजमो अणुमओ' इत्यादि 12 / कि समायिकम्? 'जीवो गुणपडिवण्णो' इत्यादि वक्ष्यति 13 / कतिविधं सामायिकम्? 'सामाइयं च तिविहं, सम्पत्तसुयं तहा चरित च' इत्यादि प्रतिपादयिष्यते 14 / कस्य सामायिकमिति, वक्ष्यति'जस्स सामाणिओ अप्पा' इत्यादि 151 व सामायिकम्, क्षेत्रादाविति,वक्ष्यति'खेत्तकालदिसिगतिमविय' इत्यादि 16 / केषु सामायिकमिति,सर्वद्रव्येषु वक्ष्यति-'सव्वगतं सम्मत्त सुए चरित्तण पज्जवा सव्वे' इत्यादि 17 / कथमवाप्यते? वक्ष्यति-'माणुस्सखित्तजाइ' इत्यादि 18 कियचिरं भवति? कालमिति, वक्ष्यति- 'सम्मतस्स सुयस्स य, छायट्ठी सागरोवमाइ ठिती' इत्यादि 16 कति इति कियन्तः प्रतिद्यन्ते? पूर्वप्रतिपन्ना वेति वक्तव्यम्, वक्ष्यति च- 'सम्मत्तदेसविरया,पलियस्स असंखभाग--मित्ता, उ इत्यादि २०१सान्तरम् इति सह अन्तरेण वर्तत इति सान्तरम् किं सान्तरं, निरन्तरं वा? यदि सान्तरं किमन्तरं भवति? वक्ष्यति-- 'कालमणतं च सुते, अद्धापरियट्टगोय देसूणो।' इत्यादि 21 / अविरहितम् इति अविरहितं कियन्तं काल प्रतिपद्यन्त इति, वक्ष्यति'सुतसम्मअगारीणं, आवलिया संखभाग' इत्यादि 22 तथा भवाइति कियतो भवानुत्कृष्टतः खल्ववाप्यन्ते 'सम्मत्तदेसविरता, पलियस्स असंखभागमित्ता उ। अट्ट भवा उचरित्ते' इत्यादि 23 / आकर्षणमाकर्षः, एकानेकभवेषु ग्रहणानीति भावार्थः 'तिण्ह सहस्सपुहुत्तं, सयपुहुत्तं च होति विरईए। एगभवे आगरिसा' इत्यादि, 24 / स्पर्शना वक्तव्या, कियत्क्षेत्रं सामायिकवन्तः स्पृशन्तीति, वक्ष्यति- 'सम्मत्तचरणसहिआ,सव्वं लोगं फुसे निरवसेसं। इत्यादि 25 / निश्चिता उक्तिनिरुक्तिर्वक्तव्या- 'सम्मद्दिट्ठि अमोहो, सोही सम्भावदसणे बोही।' इत्यादि,वक्ष्यति 26 / अयं तावगाथादयसमुदायार्थः / अवयवार्थं तु प्रतिद्वारं प्रपञ्चेन वक्ष्यामः। अत्र कश्चिदाह- पूर्वमध्ययनं सामायिक तस्यानुत्तोद्वारचतुष्टयमुपन्यस्तम्, अतस्तदुपन्यास एव उद्देशनिर्देशाधुक्तौ, तथौघनामनिष्पन्ननिक्षेपद्वयेच,अतः पुनरनयोरभिधानमयुक्तमिति ।अत्रोच्यते- तत्र हि अत्र द्वारद्रयोक्तयोरनागतग्रहणं द्रष्टव्यम्, अन्यथा तद्ग्रहणमन्तरेण द्वारोपन्यासादय एवन स्युः। अथवाद्वारोपन्यासादि-विहितयोस्तत्राभिधानमात्रमिह त्वर्थानुगमद्वाराधिकारे विधानतो लक्षणतश्च व्याख्या क्रियत इति / आह-यद्येवं निर्गमो न वक्तव्यः, तस्यागमद्वार एवाभिहितत्वात्, तथा च 'आत्मागम' इत्याधुक्तम्, ततश्च तीर्थकरगणधरेभ्य एव निर्गतमिति गम्यते इति। उच्यतेसत्यं कि तु इह तीर्थकरगणधराणामेव निर्गमोऽभिधीयते, कोऽसौ तीर्थकरो गणधराश्चेति वक्ष्यते-वर्धमानो गाँतमादयश्चेति। यथा च तेभ्यो निर्गतं तथा क्षेत्रकालपुरुषकारणप्रत्यक्षविशिष्टमित्यतोऽदोष इति। आहयद्येव लक्षणं न वक्तव्यम् उपक्रम एव नामद्वारे क्षायोपशमिकभावेऽनतारितत्वात्,प्रमाणद्वारे च जीवगुणप्रमाणे आगमे इति। उच्यते-तत्र निर्देशनात्रत्वात्, इह तु प्रपञ्चतोऽभिधानाददोषः / अथवा-तत्र श्रुतसामायिकस्यैवोक्तम्, इह तु चतुर्णामपि लक्षणाभिधानाददोषः। आह-नयाः प्रमाणद्वार एवोक्ताःकिमिहोच्यन्ते? स्वस्थाने च मूलद्वारे वक्ष्यमाणा एवेति। उच्यते-प्रमाणद्वारोक्ताएवेह व्याख्यायन्ते। अथवाप्रमाणद्वाराधिकारात्तत्र प्रमाणभावमात्रमुक्तम् इह तु स्वरूपावधारणमवतारो वाऽऽरभ्यते,एते च सर्व एव सामायिकसमुदायाथमात्रविषयाः प्रमाणोक्ता उपोद्घातोक्ताश्च नयाःसूत्रविनियोगिनः मूलद्वारोपंन्यस्तनयास्तु सूत्रव्याख्योपयोगिनएवेति। आह-प्रमाणद्वारे जीवगुणः सामायिकं ज्ञानं चेति प्रतिपादितमेव, ततश्च किं सामा-यिकमित्याशङ्कानुपपत्तिः / उच्यते-जीवगुणत्वे ज्ञानत्ये च सत्यपि किं तज्जीव एव आहोस्विद् जीवादन्यदिति संशयः तदुच्छित्यर्थमुपन्यासाददोषः। आहनामदारे क्षायोपशमिकं सामायिकमुक्तं तत्तदावरणक्षयोपशमालभ्यत इति गम्यत एव,अतः कथं लभ्यत इत्यतिरिच्यते, न, क्षयोपशमलाभस्यैवेह शेषाङ्गलाभचिन्तनदिति। एवं यदुपक्रमनिक्षेपद्वारद्वयाभिहितमपि पुनः प्रतिपादयति अनुगमद्वारावसरे तदशेष,निर्दिष्टनिक्षिप्तप्रपञ्चव्याख्यानार्थमिति / आह-उपक्रमःप्रायः शास्त्रसमुत्थानार्थ उक्तः, अयमप्युपोद्धातः शास्त्रसमुद्धातप्रयोजन एवेति कोऽनयोर्भेदः? उच्यतेउपक्रमा घुद्देशमात्रनियतः,तदुद्दिष्टवस्तुप्रबाधनफलस्तुप्रायणोपोद्धातः अनुगमत्यात् इत्यलं विस्तरेण प्रकृतमुच्यते। तत्रोद्देशद्वारावयवार्थप्रतिपादनायेदमाहनाम ठवणा दविए, खेत्ते काले समासे उद्देसे। उद्देसुद्देसम्मि अ, भावम्मि अहोइ अट्ठमओ // 142 // तत्र नामोद्देशः-यस्य जीवादेरुद्देश इति नाम क्रियते, नाम्नो वा उद्देशः नामोद्देशः / स्थापनोद्देशः-स्थापनाभिधानम्।उद्देशन्यासोवा, द्रव्ये इति द्रव्यविषय उद्देशो द्रव्योद्देशः, सच आगमनोआगम ज्ञशरीरेतरव्यतिरिक्तः द्रव्यस्यद्रव्येण द्रव्येवाउद्देशोद्रव्योद्देशः, द्रव्यस्य-द्रव्यमिदमिति, द्रव्येण