________________ सामाइय 710 - अभिधानराजेन्द्रः - भाग 7 सामाइय परहिस्य समस्य वा आसः समासः / 'संखेवो' त्तिसंक्षेपणं संक्षेपः सामायिकमुच्यते, महार्थस्यापि स्तोकाक्षरत्वादस्येति। 'अणवलं' तिअवयं-पापं नास्मिन्नवद्यमस्तीत्यनवा सामायिकम् / 'परिण' त्तिपरितः- समन्ताज्ज्ञानं पापपरित्यागेन परिज्ञा सामायिकम् / 'पचक्खाणं' ति-प्रति हरणीयं वस्तु आख्यानं गुरुसाक्षिकं निवृत्तिकथनं प्रत्याख्यानम् / एतेऽष्टौ सामायिकपर्यायाः। इति नियुक्तिगाथाचतुष्ट-'" यार्थः / विशेष 'सामाहयं समइयं' इत्यादिचारित्रनिरुक्तेस्तु व्याख्यानं साक्षादेवाहराग-द्दोसविरहिओ, समो त्ति अयणं अओत्ति गमणं ति। समयागमो समाओ, स एव सामाइयं होइ॥२७९२॥ सम्ममओ समउत्तिय, सम्मंगमणं ति सवभूएसु। सो जस्स तं समइयं, जम्मि य भेओवयारेण // 2763|| रागाइरहो सम्मं, वयणं वाओऽभिहाणमुत्ति त्ति। रागाइरहियवाओ, सम्मावाओ त्ति सामइयं // 2794|| अप्पक्खरं समासो, अहवाऽऽसोऽसण महासणं सव्वा। सम्मं समस्स वासो,होइ समासो त्ति सामइयं // 2795 // संखिवणं संखेवो, सो जं थोवक्खरं महत्थं च। सामइयं संखेवो,चोद्दसपुव्वत्थपिंडो ति॥२७९५|| पावमवझं सामा-इयं अपावं ति तो तदणवज्जं / पावमणं तिन जम्हा, वञ्जिजइ तेण तदसेसं // 2767|| पावपरिचायत्थं,परितो नाणं मया परिण्ण त्ति। पइवत्थुमिहक्खाणं, पचक्खाणं निवित्ति त्ति।।२७६८|| विशेष रागदोसविरहिओ,समो त्ति अयणं अओ त्तिगमणं ति। समगमणं ति समाओ,स एव सामाइयं नाम // 3377 / / अहवा भवं समाए, निवत्तं तेण तम्मयं वा वि। जं तप्पओयणं वा, तेण व सामाइयं नेयं // 3478|| अहवा समाई सम्म-तें नाण चरणाई तेसु तेहिं वा। अयणं अओ समाओ,स एव सामाइयं नाम॥३४७६।। अहवा समस्स आओ, गुणाण लाभो त्ति जो समाओ सो। अहवा समाणमाओ, नेओ सामाइयं नाम // 3480 / / प्रागपि निरुक्तिद्वारे प्रायश्चर्चितार्थाः,सुगमाश्चेति। अथवा अन्यथा व्युत्पत्तिरित्याहअहवा सामं मित्ति, तत्थ अओ तेण होइ सामाओ। अहवा सामस्साओ, लामो सामाइयं नाम।।३४८१।। सम्ममओवा समओ, सामाइयमुभयविद्धि भावाओ। अहवा सम्मस्साओ,लाभो सामाइयं होइ॥३४५२।। अथवा-सर्वजीवेषु मैत्री-साम भण्यते,तत्र साम्नि अयोगमनम् साम्ना वाऽयो गमनं-वर्तनं सामायः। अथवा-साम्न आयो-लाभः सामायः स एव सामायिक नामेति। अथवा सम्यगर्थसंशब्दपूर्वको-ऽयं धातुः, सम्यग् अयनंवर्तनं समयः, समय एव स्वार्थिक कञ्च-त्ययोपादानादु भयत्र वृद्धिभावाच सामायिकम् / अथवा-सम्यगायो-लाभः समायः, स एव सामायिकम् / अथवा-समस्य भावः साम्यम् साम्यस्यायो निपातनात् सामायः, स एव सामा-यिकमिति। अथवा अन्यथा निरुक्तविधिरुच्यत इत्याहअहवा निरुत्तविहिणा, सामं सम्मं समं च जं तस्स। इकमप्पए पवेसण-मेयं सामाइयं नेयं // 3483|| अथवा-निरुक्तविधिना बहुव्युत्पत्तिकमेतत् सामायिकं ज्ञेयं ज्ञातव्यमिति कथम्? इति / अत्रोच्यते- इकशब्दो देशीयचनः क्वापि प्रवेशार्थे वर्तते / आत्मोपमया परेषां दुःखस्याकरणं सामेह गृह्यते तस्य साम्न इकं यदात्मनि प्रवेशनम् नकारस्यायादेशनिपातनात्, तत् सामायिकम् / तथा सम्यग्दर्शनज्ञानचारित्रत्रयस्य परस्परं योजन सम्यगिहोच्यते, निर्वाणसाधकत्वेन तद्योगस्यैव परमार्थतः सम्यग्रूपत्वात्, तस्य सम्यग्दर्शनादिरूपस्य सम्यग्-इत्येतस्यात्मनि यत् इकंप्रवेशनम् यकारादेरयादेशनिपातने सकारस्य च दीर्घत्वे, तत् सामायिकम्।तथा-रागद्वेषमाध्यस्थ्य-मात्मनः सर्वत्र तुल्यरूपेण वर्तन समभुच्यते, तस्य समस्यात्मनि यत् इक-प्रवेशनम्, समशब्दादयागमे सकारस्य दीर्घत्वेतत् सामायिकमिति। विशेष स्थाo|आवाआ०म०| श्रा०। आ०चूला (सामायिकसंयमव्याख्या 'संजम' शब्देऽस्मिन्नेव भागे गता) ("सामं सम०" (1030) इत्यादिगाथया सामायिकशब्दस्यकार्थिकानि 'साम' शब्देऽस्मिन्नेव भागे उक्तानि / ) (कि यन्ति सामायिकानि मनुष्यादयः प्रतिपद्यन्ते इति 'समोसरण' शब्देऽस्मिन्नेवभागेगतम्।) (दमदन्त उदाहरणकथा 'दमदन्त' शब्दे चतुर्थभागे 2456 पृष्ठे गता।) सामायिकशब्दयोजना चैवं द्रष्टव्या- इहाऽत्मन्येव साम्न इकं निरुक्तनिपातनात् [यद् यल्लक्षणेनानुपपन्नं तत् सर्व निपातनात् सिद्धमिति] साम्नो नकारस्याऽऽय आदेशः, ततश्च सामायिकम्,एवं समशब्दस्याऽऽयादेशः समस्य वा आयः समायः स एव सामायिकमिति,एवमन्यत्रापि भावना कार्येति कृतं प्रसङ्गेन। साम्प्रतं सामायिकपर्यायशब्दान् प्रतिपादयन्नाहसमया सम्मत्त पस-स्थ संति सुविहिअ सुहं अनिंदं च / अदुगुंछिअमगरिहिअं,अणवजमिमेऽवि एगट्ठा।।१०३३।। व्याख्या-निगदसिद्धव। आह-अस्य निरुक्तावेव 'सामाइयं समइय' मित्यादिना पर्यायशब्दाः प्रतिपादिता एव तत् पुनः किमर्थमभिधानमिति? उच्यते-तत्र पर्यायशब्दमात्रता,इह तुवाक्यान्तरेणार्थनिरूपणमिति, एवं प्रतिशब्दमभिदतोऽनन्ता गमा अनन्ताः पर्याया इति चैकस्य सूत्रस्येति ज्ञापितं भवति, अथवा-ऽसम्मोहार्थं तत्रोक्तावप्यभिधानमदुष्टमेव इत्यत एवोक्तम्- 'इमेऽवि एगट्ट' त्ति एतेऽपि तेऽपीत्यदोषः।