________________ सामाइय 708 - अभिधानराजेन्द्रः - भाग 7 सामाइय भण्णइ समुदायत्थो, ससमयवत्तव्वया देसो / / 655 / / इह सावद्ययोगविरतिः-सामायिकाध्ययनस्यार्थाधिकारः, स च | समुदायार्थो भण्यत इति प्रागप्युक्तमेव / स एव च स्वसमयवक्तव्यतायाः सम्पूर्णाया एकदेशोऽभिधीयत इति / उक्तोऽर्थाधिकारः। (16) अथ समवतारमभिधित्सुराहअहुणा य समोयारो, जेण समोयारियं पइद्दारं। सामाइये सोऽणुगओ, लाघवओ जो पुणो वचो ||656 / / अधुना समवतारोऽवसरप्राप्तः / चकारो भिन्नक्रम, तद्यथा-स च 'लाधवउ' त्ति-लाघवमाश्रित्य लाघवार्थमित्यर्थः,अनुगतः पूर्वमेवगतः-- अतिकान्तः पूर्वमवाभिहित इत्यर्थः / कथम्? इत्याह-येन यस्मात् प्रतिद्वार सामायिकाध्ययन समवतारितमेव / ततो नेदानीं पुनरपि सभवतारो वाच्यः, तद्व्यापारस्याऽऽध्ययनसमवतारणलक्षणस्य प्रतिद्वारमनिष्ठितत्वात् / एतदुक्तं भवति-अधुना षष्ठ उपक्रमभेदः समवतारः प्रस्तुतः, स च लाघवार्थ सामायिकस्य प्रतिद्वार समवतारितत्वात् पूर्वमेवाभिहितः इति न पुनरप्यत्रोच्यते, पौनरुक्त्यप्रसङ्गात इति विशे० आ०म०। आ० चू०। (20) अथानुगमलक्षण तृतीयमनुयोगद्वारं सम्बन्धोपदर्शनपूर्वकमाह-- संपयमोहाईणं, संनिक्खित्ताणमणुगमो कजो। सोऽणुगमो दुविगप्पो, नेओ निज्जुत्तिसुत्ताणं / / 671 / / ओघादीनां निक्षिप्तानां सतां साम्प्रतमनुगमस्तद्व्याख्यानरूपः कार्य इत्यानुगमस्यावसरः / स च द्विविधः नियुक्त्यनुगमः, सूत्रानुगमश्च / छन्दोऽनुवृत्त्या च कयाचिदित्थं व्यत्ययोपन्यासः। इत्थं च पुनर्द्रष्टव्य:सूत्रानुगमः, निर्युक्त्यनुगमश्चेति। तथा चानुयोगद्वारेऽप्युक्तम्- ''अणुगमे दुविहे पन्नत्ते, तंजहा-सुत्ताणुगमे, निज्जुत्तिअणुगमे या निज्जुत्तिअणुगर्म तिविहे पन्नत्ते, तं जहा-निक्खेवनिज्जुत्तिअणुगमे. उवग्घायनिज्जुत्तिअणुगमे, सुत्तप्फासियनिज्जुत्तिअणुगमे य।" इति। विशेष (21) अथ नामनिष्पन्न निक्षेपमभिधित्सुरध्ययनस्य विशेषनाम तन्निक्षेपं चाहसामाइयं ति नाम, विसेसविहियं चउव्विहं तं च। नामाइनिरुत्तीए, सुत्तप्फासे व तं वोच्छं॥८६२॥ प्रस्तुताध्ययनस्य सामायिकमिति विशेषविहितं नाम / तच्च चतुर्विधम् / कथम्? इत्याह- नामादि-नामसामायिकम्, स्थापनासामायिकम, द्रव्यसामायिकम्, भावसामायिक चेति। एतच्चार्थनिरूपणतो वक्ष्येऽहम् / व? इत्याह- निरुक्तौ 'उद्देसे निद्देसे य निग्गमे' इत्याद्युपोद्घातनियुक्तिगतगाथाद्वयपर्यन्ते भवागरिस-फासणनिरुत्ती, इति यद् नियुक्तिद्वारं तत्रार्थतोऽभिधास्य इत्यर्थः। यदि वानिर्युवत्यनुगमभेदरूपायामेव सूत्रस्पर्शिकनियुक्तौ वक्ष्य इति। (22) अत्राक्षेपपरिहारौ प्राहइह जइ कीस निरुत्ते, तत्थ व भणियमिह भण्णए कीस? निक्खेवमित्तमिहइं, तस्स निरुतीऍ वक्खाणं / / 663|| आह-यद्यापीदं चतुर्विध विशेषनाम भणनीयत्वेनावर परप्राप्सम, ता किमुच्यते-निरुवत्यादौ वक्ष्ये? अथ तत्र वक्ष्यते,तहात्र किमर्थमुध्यत? अत्रोत्तरमाह- 'निक्खेवे' त्यादि, इह नामादिनिक्षेपमात्ररयव भणना वसरः, स च नामादिचातुर्विध्यभणनादुक्त एव. निरुवा तु तदर्थी निरूपयिष्यत इत्यदोषः। पुनरप्यन्यथाऽऽक्षिप्य परिहरतितो कीस पुणो सुत्ते,सुत्तालावो तओ न तन्नाम। इह उण नाम नत्थं, तं वक्खायं निरुत्तीए ||664|| हन्त ! यदि निरुक्ता सामायिक व्याख्यारात तर्हि व राभि भदन्तः सामायिकम्' इत्यादि किमिति पुनरपि सूत्रे व्याख्यायत? नेयम्, यत... सूत्रालापक एव तकोऽसौ व्याख्यायते न पुनस्तन्नान व्याख्यानन, इह पुनर्नामादिभेदैः सामायिकनामन्यस्त तच निरुक्ती व्याख्यातम, हॉल विषयविभागात् सर्व सुस्थमिति। पुनः प्रेर्थभुत्थाप्य परिहरति इह पुण कीस न भण्णइ, जं निक्खेवो इमो स निज्जुत्ती। निज्जुत्ती वक्खाणं,निक्खेयो नासमेत्तं तु / / 665|| नन्विहैव निक्षेपद्वारे किमिति न भण्यते-नव्याख्यायते--सामा-विकम. येन निरुक्तौ व्याख्यायते? अत्रोच्यते- यद्यस्मादसौ निक्षेपः प्रस्तुत तत्र च प्रस्तुते व्याख्यानस्य कोऽवसरः? 'स निज्जुत्ति' ति--रापुनर्वक्ष्यमाणा नियुक्तिरुपोद्धातनियुक्ति-द्वाररूपत्वाद् नियुक्तिः / यार, नाम सा नियुक्तिः तथापि तत्र व्याख्यानस्य किमायातम? इत्याह-- 'निज्जुत्तिवक्खाण' ति-नियुक्तिरनुगमभेदत्वाद् व्यार यानात्मिकैट भवति अतो युक्तं तस्यां व्याख्यानम् / निक्षेपोऽपि तर्हि व्याख्यानरूपा भविष्यति, इत्याह-'निक्खेवो नासमेत्तं तु' ति-निक्षेपस्तु नामादिन्यासमा त्रात्मक एव वर्तते,न तु व्याख्यानरूपः,अनुगमस्मैट तद्रूपत्वात् / अतः कोऽत्र निक्षेपे व्याख्यानावसरः ? इति पुनरपि परमतमाशङ्कय प्रतिविधातुमाहनणु निज्जुत्ति अणुगमे, भणिया एसा वि नासनिज्जुत्ती। सच्चमियं निज्जुत्ती, इयं तु निक्खेवमित्तस्स / / 666|| ननु यदि निर्युक्तावेव व्याख्यानमिष्यते भवद्भिः, तहत्रापि बमोटर यदुत-एषाऽपि नियुक्त्यनुगमे न्यासनियुक्तिर्भणिला,अयमपीह प्रस्तुतो निक्षेपो वक्ष्यमाणे नियुक्त्यनुगमे निक्षेपनियुक्तित्वेन भणिष्यत इत्यर्थः। इदमुक्तं भवति-अनुगमो द्विविधो वक्ष्यते, तद्यथा-- सूत्रानुगमः, निर्युक्त्यनुगमश्च / नियुक्त्यनुगमस्थिविधोऽभिधास्यतेनिक्षेपनियुक्त्यनुगमः, उपोद्घातनिर्युक्त्यनुगमः, सूत्रस्पर्शिकनिर्युक्त्यनुगमश्चेति / यथा- “से किं तं निक्खेवनिजुत्तिअणुगमे? निक्खेवनिज्जुत्तिअणुगमे अणुगए, वक्खमाणे य"। एतदपि वक्ष्यते। तत्रायमर्थः-अत्रैव प्रागावश्यकसामायिकादिपदानां नामस्थापनादिनिक्षेपद्वारेण यद् व्याख्यानं कृतम्, तेन निक्षेपनिर्युक्त्यनुगमोऽनुगतः प्रोक्तो-द्रष्टव्यः, सूत्रालापकानां निक्षेपप्रस्तावे पुनर्वक्ष्यते च। तदेवमेतेनेषोऽपि निक्षेपो निक्षेपनियुक्तित्वेनाऽनुगमे प्ररूप्यमाणेऽभिधा