________________ सामाइय 706 - अभिधानराजेन्द्रः - भाग 7 सामाइय छत्ति दुदु विगप्पाइँ , पभेयओऽणेगभेयाई 1910 // तानि-चैतान्यननुयोगद्वाराणि, तद्यथा-उपक्रमो वक्ष्यमाणभेदादिस्वरूपः, निक्षेपः-अनुगमः,नयश्चेत्ये तैनामभिः सनामानि साभिधानानीति / पञ्चमं द्वारोपन्यासद्वारं समाप्तम् / अथ 'तब्भेय' त्ति तद्भेदद्वारमाह-'छत्ती' त्यादि इह यथासङ्ख्यं सम्बन्धः उपक्रमः षविकल्पः, निक्षेपस्त्रिभेदः, अनुगमो द्विभेदः,नयोऽपि द्विभेदः / प्रभेदतस्तूपक्रमादयोऽनेकभेदाः। एषां च भेदप्रभेदानां स्वरूपं पुरस्ताद् विस्तरेण वक्ष्यते। इति षष्ठं तद्भेदद्वारम् / विशे०। (10) प्रथमाध्ययनस्य सायायिकत्वम्तत्थ पढम अज्झयणं सामाइयं, तस्स णं इमे चत्तारि अणुओगदारा भवंति, तं जहा-उवक्कमे 1, निक्खेवे 2, अणुगमे 3, नए 5, (सू० 56x) / तत्र-तेषु अनन्तरोद्दिष्टेषु षट्सु अध्ययनेषु मध्ये प्रथमम्- आद्यम् अध्ययन सामायिकम्, आधुपन्यासश्चास्य निःशेषचरणादिगुणाधारत्वेन प्रधानमुक्तिकारणत्वात्, उक्तं च- "सामायिकं गुणानामाधारः खमिव सर्वभावानाम्।न हि सामायिकहीना-श्वरणादिगुणान्विता येन / / 1 / / तस्माजगाद भगवान्, सामायिक-मेव निरुपमोपायम् / शारीरमानसाने-कदुःखनाशस्य मोक्षस्य ॥सा" तत्र बोधादेरधिकम् | अयन-प्रापणमध्ययनं प्रपञ्चतो वक्ष्यमाणशब्दार्थ , सामायिकमित्यत्र यः सर्वभूतान्यात्मवत् पश्यति स रागद्वेषवियुक्तः समः तस्याऽऽय:प्रतिक्षणं ज्ञानादि-गुणोत्कर्षप्राप्तिः समायः, समो हि-प्रतिक्षणमपूर्वः ज्ञानदर्शनचरण-पर्यायैर्भवाटवीभ्रमणहेतुसक्लेशदिच्छेदकैर्निरुपमसुखहेतुभिः संयुज्यते, समायः प्रयोजनमस्याध्ययनस्य ज्ञानक्रियासमुदायरूपस्येति सामायिकम्, समाय एव सामायिकम, तस्य सामायिकस्य, 'णमि' ति वाक्यालङ्कारे, 'इमे' त्ति-अमूनि-वक्ष्यमाणलक्षणानि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राध्ययनार्थकथनविधिरनुयोगः, द्वाराणीव द्वाराणि महापुरस्येव सामायिकस्यानुयोगार्थ व्याख्यानार्थ द्वाराण्यनुयोगद्वाराणि,अत्र नगरदृष्टान्तं वर्णयन्त्याचार्याः,यथा हि-अकृतद्वारं नगरमनगरमेव भवति, निर्गमप्रवेशोपायाभावतोऽनधिगमनीयत्वात्। कृतैकद्विकादिद्वारमपि दुरधिगम कार्यातिपत्तये च भवति,चतुर्मूलद्वार तुप्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च सम्पद्यते, एवं सामायिकपुरमप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगम स्याद्. एकादिद्वारानुगतमपि दुरधिगम भवेत्. सुप्रभेदचतुर्धारानुगत तु सुखाधिगमं भवति, अतः फलवाँस्तदधिगमार्थो द्वारोपन्यासः कानि पुनस्तानीति तद्दर्शनार्थमाह-'तद्यथे' त्यादि। तत्रोपक्रमणम्-दूरस्थस्य वस्तुनस्तैस्तैः प्रतिपादनप्रकारैः समीपमानीय निक्षेपयोग्यताकरणमुपक्रमः, उपक्रान्तं हि-उपक्रमान्तर्गतभेदैविचारितं हि निक्षिप्यतेनान्यथेति भावः। उपक्रम्यते वा-निक्षेपयोग्यं क्रियतेऽनेन गुरुवायोगेनेत्युपक्रमः। अथवा-उपक्रम्यते अस्मिन् शिष्य श्रवणभावे सतीत्युपक्रमः / अथवाउपक्रम्यते अस्माद्विनीत–विनयविनयादित्युपक्रमः, विनयेनाराधितो हि गुरुर्निक्षेपयोग्यं शास्त्रं करोतीति भावः, तदेव करणाधिकरणापादान- / कारकैर्गुरुवाग्यागादयोऽर्था भेदेनोक्ताः, यदि त्वेको प्यन्यतरोऽर्थः करणादिकारकवाच्यत्वेन विवक्ष्यते तथापि न दोषः / एवं निक्षेपण शास्त्रादेर्नामस्थापनादिभेदैर्व्यसनव्यवस्थापन निक्षेपः, निक्षिप्यतेनामादिभेदैर्व्यवस्थाप्यते अनेनास्मिन्नस्मादिति वा निश्पः, वाच्यार्थविवक्षा तथैव / एवमनुगमनसूत्रस्यानुकूलमर्थ-कशनमागमः। अशवअनुगम्यते- व्याख्यायते सूत्रमनेनास्मिन्नस्मादिति बाऽनुगमः, वाच्यार्थविवक्षा तथैव। एवं नयनं नयो नीयते-परिच्छिदाते अनेनास्मिनस्मादिति वा नयः, सर्वत्रानन्तधर्माध्यासिते वस्तुन्येकोशग्राहको बोध इत्यर्थः / अत्र चोपक्रान्तमेव निक्षेपयोग्यतामानीतमेव निक्षिप्यन इत्युपक्रमानन्तरं निक्षेप उपन्यस्तः, नामादिभेदैनिक्षिप्तमेव चानुग-यत इति निक्षेपानन्तरमनुगमः, अनुगम्यमानमेव च नयैर्विचायत नान्यथेति तदनन्तरं नय इति यथोक्तक्रमेणोपन्यासः फलवानिति / अनु०॥ (11) क्वोपक्रमे सामायिकमवतरति। तत्र षड्नाम्नि क्षायोप--शमिक भावे सामायिकस्याध्ययनस्यावतार इति दर्शयन्नाह.... छव्विहनामे भावे,खओवसमिए सुयं समोयरइ। जं सुयनाणावरण-क्ख ओवसमजं तयं सव्वं / / 145|| अनुयोगद्वाराध्ययने षड्नाम्न्यौदयिकादयःषड् भावा / पठ्यन्ते तत्र च क्षायोपशमिके भावे सर्वमप्याचारादि श्रुतं समवतरति यद्-यस्मात् सर्वमपि तत् श्रुतं श्रुतज्ञानावरणकर्मक्षयोपशमादेव जायते, नान्यतः, तस्मात क्षायोपशमिक एव भावे समवतरति / अत इदं सामायिकाध्ययनमपि श्रुतविशेषरूपत्वात् क्षायोपशमिक एव भावे समवतरति. नान्यत्रेत्यादुवतं भवति / इत्युक्तं संक्षेपतो नाम। (12) साम्प्रतं प्रमाणमभिधित्सुराहदव्वाइचउन्भेयं, पमीयए जेण तं पमाणं ति। इदमज्झयणं भावो-त्ति भावमाणे समोयरइ / / 146|| द्रव्य-क्षेत्र-काल-भावभेदाच्चतुर्विधं प्रमेयम्, प्रमेयचातुर्वध्याच प्रमाणमपि चतुर्विधम्-द्रव्यप्रमाणम्, क्षेत्रप्रमाणम्, कालप्रमाणम्, भावप्रमाणं चेति / द्रव्यादिक चतुर्विधं प्रमेयं प्रमीयतेऽनेनेति कृत्वा / तत्रेदं सामायिकाध्ययनं श्रुतज्ञानविशेषत्वेन जीवपर्यायत्वाञ्जीवभावत्वाद् भावप्रमाणे समवतरति। आह-ननु भावप्रमाणमपि त्रिविधम् गुणप्रमाणम्, नयप्रमाणम्, संख्याप्रमाणं चेति / तत्र सामायिक व समवतरति? इति। उच्यते-गुणप्रमाणे / ननु गुणप्रमाणमपि द्विविधम्जीवगुणप्रमाणम्, अजीवगुणप्रमाणं च। तत्र सामायिक क समदतरति? इति / उच्यते-जीवानन्यत्वेन जीव-गुणप्रमाणे / ननु जीवगुणोऽपि त्रिविधः-ज्ञानदर्शनचारित्रभेदात् / तत्र व सामायिकस्यावतार:? उच्यते-बोधात्मकत्वात् ज्ञानगुणे / ननु ज्ञानमपि प्रत्यक्षाऽनुमानोपमानाऽऽगमभेदाचतुर्विधम् तत्र वेदमवतरति? इति। उच्यते-आगमे। ननु सोऽपिलौकिकलाकोत्तरभेदाद् द्विविधः लोकोत्तरोऽपि सूत्रार्थोभयरूपित्वात् त्रिविध एव तत् वेदं समवतरति? इति। उच्यते-सूत्रार्थोभयभेदात् त्रिविधेऽपि लोकोत्तर आगमे समवतरति तत्स्वभावात्-तत्स्वरूपत्वादिति।