________________ सामण्णविसेस 696 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस थक्रियाऽसिद्धेरिति / तथा, तद्वैचित्र्येण-स्वभाववैचित्र्येण, परादितदोषासिद्धेः क्रम-योगपद्याभ्याभर्थक्रियाविरोध इति परोदितो दोपस्तदसिद्धेः / असिद्धिश्व, क्रम--योगपद्यार्थक्रियाकरणस्वभावत्वात् / ततश्च क्रमसाध्य क्रमेण करोति,योगपद्यसाध्यं योगपद्येन। इति न कश्विद् दोषः, तथास्वभावत्वात्। तस्य च स्वभावस्य, पर्यनुयोगायोगात् / इत्थ चतदङ्गीकर्तव्यमित्याह- अन्यथा समानत्वात् ऊर्मिजननस्वभावत्वपरिकल्पितस्वभावस्थापि पर्यनुयोगप्राप्तः, इति-एवम्, समुद्रोर्मेरप्यभावापत्तेः, समुद्रोर्मिकल्पश्चाधिकृतो बुद्ध्याकारः समानबुद्ध्याकारः, स यदेवम-उक्तनीत्या, न युज्यते, स्वरांवेदनसिद्धश्च प्रतिप्रमातृ, प्रमालार प्रमातारं प्रति / अतः-अस्मात् कारणात्, यथोक्तनिबन्धन एवतथाविधसमानपरिणामनिबन्धन एव, इति युक्तमभ्युपगन्तुम्, अन्यथैवमनभ्युपगमे, तदुच्छेदापत्तेः-समानबुद्ध्याकारोच्छदापत्तेः। इति–एवम्, तथाविधो वास्तवः, समानपरिणाम एवं समानबुद्धिशब्दद्वयप्रवृत्तिनिमित्तमिति नेगमनम्। यद्येवम्, कथं क्वचित् तद्व्यतिरेकेणाप्यस्य प्रवृत्तिः? ननु चास्येत्ययुक्तम्, वस्तुनिबन्धनस्य तद्व्यतिरेकेण कदाचिदप्यप्रवृत्तेः, तथातद्दर्शनस्य च तदाभासविषयत्वेनाविरोधात्, अन्यथा प्रत्यक्षस्याप्यविषयत्वापत्तिः। इति समानपरिणाम एव सामान्यम् यद्यवमित्यादि / यद्येवम कथं वचित्-प्रधाने-श्वरादिकार्यत्वादी, तव्यतिरेकेणापि-प्रधाने-श्वरादिकार्यत्वव्यतिरेकेणापि, अस्येतिप्रक्रमात समानबुद्धि-शब्दद्वयस्य, प्रवृत्तिर्भवतीति यथोक्तं प्रागिति। एतदाशङ्कया। नन्वित्यादि। ननुव 'अस्य' इत्ययुक्तम्। कथमित्याह-. वस्तुनिबन्धनस्य समान-बुद्धिशब्दद्वयस्य, तद्व्यतिरेकेण-वस्तुव्यतिरेकेण, कदाचिदप्य-प्रवृत्तेर्घट-शरावादिष्विव हिमाझारादिष्वदर्शनादिति भावना / तथातद्दर्शनस्य च संकेतविप्रलम्भद्वारेण समानबुद्धिशब्दद्वरदर्शनस्य च, प्रधानेश्वरादिकार्यत्वादी, तदाभासविषयत्वेनसमान- बुद्धिशब्दद्वयाभासविषयत्वेन, अविरोधात् / इत्थं चैतदड़ीकर्तव्यमित्याह- अन्यथा एवमनभ्युपगमे, प्रत्यक्षस्यापि निर्विकल्प - कस्य, किमित्याह- अविषयत्वापत्तिः अविगानेन तथाऽनुभवादेरधिकृतयुद्ध्याकारेऽपि भावात्, तस्य च निर्विषयत्वात्, न चैतदेवम् / इतिएवम, समानपरिणाम एव सामान्यमिति महानिगमनम्। यतश्चैवम्, अतो न य एवासावेकस्मिन् विशेषे स एव विशेषान्तरे। किं तर्हि ? समानः / इति कुतः सामान्यवृत्तिविचारोदितभेदद्वयसमुत्थापराधावकाशः? इति / न चैवं सति पर-- स्परविलक्षणत्वाद् विशेषाणां समानबुद्धिशब्दद्यप्रवृत्त्यभावः, सत्यपि वैलक्षण्ये समानपरिणामसामर्थ्यतः प्रवृत्तेः, असमान-- परिणामनिबन्धना च विशेषबुद्धिरिह / इति यथोतिबुद्धिशब्दद्यप्रवृत्तिः। तथा चोक्तम्"वस्तुन एव समानः, परिणामो यः स एव सामान्यम्। असमानस्तु विशेषो, वस्त्वेकमनेकरूपं तु / / 1 / / " ततश्च तद्यत एव सामान्यरूपमत एव विशेषरूपम्, समानपरिणामस्याऽसमानपरिणामाऽविनाभूतत्वात्,यत एव च विशेषरूपमत एव सामान्यरूपम्, असमानपरिणामस्यापि समानपरिणामाविनाभावादिति / न चानयोर्विरोधः, अन्योऽन्यव्याप्तिव्यतिरेकेणोभयोरसत्त्वापत्तेः, उभयोरपि स्वसंवेदनसिद्धत्यात्, संवेदनस्योभयरूपत्वात् उभयरूपतायाश्च व्यवस्थापितत्वात्। यतश्चेत्यादि, यतश्चैवम्, अतो न य एवासौ समानपरिणामः एकस्मिन् विशेषे घटादी, स एव विशेषान्तरेशरावादौ। किं तर्हि? समानः / इत्येवम्, कुतः सामान्यवृत्ति विचारोदितं तद्भेदद्वयं च देशकास्न्यरूपं विकल्पद्वयमिति विग्रहः,तत्समुत्थाश्च तेऽपराधाश्च सदेशत्वप्रसङ्गादयस्तेषामवकाशः कुतः?-नैव, समानपरिणामस्य तद्विलक्षणत्वादिति / न चैवमित्यादि। न चैवं सति,परस्परविलक्षणत्वाद् विशेषाणां घटशरावादीनाग, समानबुद्धिशब्दद्वय प्रवृत्त्यभावः, हिमागारादीनामिव / कुत इत्याह-सत्यपि वैलक्षण्ये समानपरिणामसामर्थ्यतः प्रवृत्तेः कारणात्, समानबुद्धि-शब्दद्वयस्येति। व्यतिरेकमाह असमानपरिणामनिबन्धना च विशेष-बुद्धिरिह प्रक्रमे घट शरावादिबुद्धिवत् / इति एवम्, यथोदितबुद्धि-शब्दद्वयप्रवृत्तिः सामानबुद्धि-शब्दद्वयप्रवृत्तिरित्यर्थः। तथा चोक्तमिति अधिकृतार्थप्रसाधकं ज्ञापकमाह-वस्तुन एव घटादेः समानः परिणामो यो मृदादिः स एव सामान्यम्। असमानस्तु विशेष ऊर्ध्वतादिः / वररवेकमनेकरूपतु सामान्यविशेषोभयरूपमपि तदनेकत्वतोऽनेकरूपमित्यर्थः / ततश्चेत्यादिना मूलपूर्वपक्षग्रन्थं परिहरतिततश्च तद् वस्तु घटादि,यत एव सामान्यरूपं मृदाद्यात्मकतया, अत एव कारणात्, विशेषरूपमूर्खादिरूपापेक्षया / कुत इत्याह-समानपरिणामस्य प्रस्तुतस्य, असमानपरिणामाविनाभूतत्वाद्-विशेषपरिणामाविनाभूतत्वादित्यर्थः / यत एव च कारणात्,विशेषरूपमूर्खाद्यपेक्षया,अत एव सामान्यरूपं मृदाद्यात्मकतया / भावनामाह- असमानपरिणामस्थापि ऊर्ध्वादिरूपस्य, समानपरिणामाविनाभावाद्-मृदादिपरिणामाविनाभावादिति / न चानयोः समानाऽसमानपरिणामयोः विरोधः / कुत इत्याह-अन्योन्यव्याप्तिव्यतिरेकेण उभयोः समानाऽसमानपरिणामयोः, असत्त्वापत्तेः / आपत्तिः प्राक् प्रदर्शितव, तथा, उभयोरपि स्वसंवेदनसिद्धत्वात्तथानुभवभावेन। अतएवाह-संवेदनस्योभयरूपत्वात् सामान्यविशेषोभयापेक्षया, उभयरूपतायाश्व संवेदनस्य, व्यवस्थापितत्वादधः 'नचानयाविरोधः' इति क्रियायोगः। यचोक्तम्- 'सामान्यविशेषो भयरूपत्वे सति वस्तुनः सकललोकप्रसिद्धसंव्यवहारनियमोच्छेदप्रसङ्गः' इत्यादि। तदपि जिनमतानभिज्ञतासूचकमेव केवलम्,न पुनरिष्टार्थ