________________ सामण्णविसेस 668 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस नुत्तरज्ञानस्य, बोधमात्रभावात्, एतदेव वासनेति बोधादबोधवन्नान्याकारानुत्तरज्ञानजन्मेति; अनिष्ट चैतत् / कुत इत्याह-तत्र अनुत्तरज्ञाने, तदनभ्युपगपमात्-तथाविधाकारानभ्युपगमात्। द्वितीयं विकल्पमधिकृत्याह-अथान्यदेव किश्चित् वस्तु वासनेति / एतदाशक्याह-- तदेव अन्यत् किश्चिद्वासनाख्यम, अस्याधि-कृतबुद्ध्याकारस्य विषयः, इति-एवम्, कथमविषयो नामायं बुद्ध्याकारः? अवस्त्वेव तदिति चेदन्यत् किञ्चिद्वासनाख्यम्। एतदाशङ्कयाह--कथं ततः वस्तुतः, स आकारोऽधिकृतबुद्ध्याकारः? इति वाच्यम्। अहेतुक एवायं युझ्याकार इति चेत् / एतदा-शक्याह-सदा तद्भावादिप्रसङ्गः नित्यं सत्त्वमसत्त्वं वेति नीतः। विशिष्ट बोधरूपं वासना, नच बोधमात्रमविशिष्टमिति चेत, ततश्च किल यथोक्तदोषाभाव इति / एतदाशड्क्याह- किंकृतमस्य बोधरूपस्य, वैशिष्ट्यमिति वाच्यम् / अनादिहेतुपरम्पराकृतमिति चेत्। एतदाशङ्कयाह-न, तत्रापि अनादिहेतुपरम्परायाम, तन्मात्राविशेषादयोधरूपमात्राविशेषात् / स बुद्ध्याकार:- समुद्रोमिवदिति निदर्शनम्. यतो बोधरूपात्. तदेव बोधरूप. तद्वैशिष्ट्यम्, इति चेत्। एतदाशङ्कयाहन.तस्यापि समुद्रोर्मेः, वाग्वादिना विक्षोभकारणेन, विना, तत एव समुद्रमात्रात्, अभावात्। ततश्च दृष्टान्त-दार्शन्तिकयोषध्यमित्यर्थः। अनागभस्तीर्थिकसंबन्धी, वाय्वादिकल्प इति चेत् ततो न वैषम्यमित्यभिप्रायः / एतदाशङ्कयाह- न, तदभावेऽपि अनागमाभावेऽपि, कचिद् बालविकल्पादौ, तद्भावोपपत्तेः प्रक्रमादधिकृतबुद्ध्याकारोपपत्तेः / स्वेत्यादि / स्वविक्षोभादुद्रबोयस्य समुद्रोमें : स तथा, स्वविक्षोभोगवश्वासी समुद्रोमिश्वति समासः, तेन तुल्यः स इतिचेत्प्रस्तुतबुद्ध्याकारः। एतदाशङ्याह-स एव स्वविक्षोभोद्भवः समुद्रोर्मिः, तदा तस्मिन्नेव काले, कुतः? इतिःवाच्यम्। तस्यवेत्यादि। तस्यैव समुद्रस्य, तत्स्वभावत्वात्तदोर्मिजननस्वभावत्वात्, इति चेत् स एव तदेति / एतदाशक्याहनेत्यादि / न-नैतदेवम्, तदविशेषण-समुद्राविशेषेण हेतुना, सदा समुद्रोमिप्रसङ्गात, तन्मात्रनिबन्धनो ार्मिः, विशिष्टं च भेदकाभावेन परस्य तन्मात्रत्वमिति भावना / तस्येत्यादि / तस्य स्वविक्षोभोद्भवसमुद्रोमिहेतोः समुद्रस्य, तत्क्षणविशेषत्वात-समुद्रक्षणविशेषत्वात् अप्रसङ्ग इति चेत् सदोमिप्रसङ्गोऽनन्तरोदितः, स एव क्षणस्तत्स्वभावो नान्ये तत्क्षणा इत्यभिप्रायः। एतदाशड्क्याह-न, तस्य समुद्रक्षणस्य, तन्मात्रत्वेन समुद्रक्षणमात्रत्वेन हेतुना, विशेषत्वासिद्धः / ऊर्मिजननस्वभावत्वं विशेष इति चेत, तथाहि- न सर्वे तत्स्वभावाः,सर्वेभ्य ऊर्मिभावापत्तेः, न चेयम्, तथाऽदर्शनादिति भावनेति / एतदाश क्याह- न स्वभाव इत्यादि। नस्वभावः स्वभाववतः सकाशात, अन्य इति कृत्वा, तन्मात्रत्वमेव, समुद्रक्षणमात्रत्वमे व ततश्च 'ऊर्मिजननस्वभावत्वं विशेषः इति वचनमात्रमेव / तन्मात्रत्वेऽपि-समुद्रक्षणमात्रत्वेऽपि, तद्भेदवत्-समुद्रक्षणभेदवत, भेद एवेति चेद् विशेष एवोर्मिजननस्वभावस्य क्षणस्येति / एतदाशडक्याह-न, तादृशम्य तुल्यस्वरूपभेदमात्रहेतोः, अस्य क्षणभेदस्य अप्रयोजकत्वात स्वभावभेदेनो- मिजनन प्रति / एतदेवाह-तत्तद्भावेतस्य भेदमात्रस्य तद्भावे स्वभावभेदेनोर्मिजननं प्रति प्रयोजकत्वादित्यर्थः, किमित्याह- अतिप्रसङ्गात्। एनमेवाह- तत्स्वभावानामपि केषाञ्चित् पदार्थानां तथा भेदात् तुल्यस्वरूपभेदमात्रहे तुतया भेदात्,नित्यतयानित्यस्वभावत्वेन फलभेदापत्तेः समुद्रोमिवद-नित्यभावविलक्षणफलभेदापत्तेरित्यतिसूक्ष्मधिया भावनीयम्। न नित्यता केषाञ्चिदपि। किं न? इति वाच्यम् / नतद्धेतुस्तथाभूताद् हेतोस्तस्येव यदिति चेत् / न / मोक्षहेतोः कैश्चित् तथाविधत्वाभ्युपगमात्, अहेतोरपि तथाभावकल्पनाऽविरोधात्, अस्याप्यर्थक्रियोपपत्तेः, तत्करणस्वभावत्वात्, अनित्यत्वादेः सर्वतः- सर्वार्थक्रियाभावेनेहाप्रयोजकत्वात् ; तत्करणस्वभावत्वस्य च प्रयोजकत्वात्, तद्वैचित्र्येण परोदितदोषासिद्धेः, क्रमयोगपद्यार्थक्रियाकरणस्वभावत्वात्, तस्य च पर्यनुयोगायोगात; अन्यथा समानत्वात्, इति समुद्रोभिकल्पश्वाधिकृतो बुद्ध्याकारः, स यदैवं नयुज्यते / स्वसंवेदनसिद्धश्च प्रतिप्रमातृ, अतो यथोक्तनिबन्धन एव, इति युक्तमभ्युपगन्तुम्, अन्यथा तदुच्छेदापत्तेः इति तथाविधः समानपरिणाम एव समानबुद्धि-शब्दद्वयप्रवृत्तिनिमित्तम्।। अत्राह-न नित्यता केषाश्चिदपि भावानाम्। एतदशक्य ह- किं न? इति वाच्यमान तद्वेतुः-नित्यभावहेतुः, तथाभूताद्-नित्यभावजननस्वभावजनस्वभावादिति योऽर्थः हेतोः-कारणात्, तस्येवप्रक्रमादूर्मिजननस्वभावसमुद्रक्षणस्येव, यदिति चेत्, ऊर्मिजननन्चभावो हि समुद्रक्षण ऊर्मिजननस्वभावसमुद्रक्षणजननस्वभावात्, समुदक्षणादुत्पन्न इति विद्यतेऽस्य तथाभूतो हेतुः, नैवं नित्यभावजननस्वभावजननस्वभावो हेतुरस्ति, तन्नित्यत्व-विरोधादित्यभिप्रायः / एतदःशड्क्याहनेत्यादि। न-नैतदेवम्, मोक्षहेतोर्विशिष्टज्ञानादेः, कैश्चिद् नैयायिकादिभिः, तथाविधत्वाभ्युपगमाद् नित्यभावजननस्वभावत्वाभ्युपगमात्, तथा, अहेतोरपि-अविद्यमानहेतोरप्यनाद्यण्वादेः, किमित्याह-तथाभाबकल्पनाविरोधात्- तथाभावोनित्यभावरतत्कल्पनाविरोधात तथाहि- अहेतुरेव कश्चित् स स्वभावः सन् नित्य इति किमत्र थूणम्? नियस्यक्रमयोगपद्याभ्यामर्थक्रियाविरोध इत्याशङ्कापोहायाह-अस्यापि अधिकृतनित्यस्य, अर्थक्रियोपपत्तेः। उपपत्तिश्च, तत्करणस्वभावत्वात्अर्थक्रियाकरणस्वभावत्वात् / अयं चात्र प्रधान इति विपक्षे बाधामाहअनित्यत्वादेः 'इहार्थक्रियायामप्रयोजकत्वात्' इति योगः। अप्रयोजकत्वं च, सर्वतः सर्वार्थक्रियाभावेनान ह्यनित्य इत्येव सर्वा भावः सर्वामर्थक्रिया करोति, नित्य इत्येव वा, तथाऽदर्शनात् / अतो यो यदर्थक्रियाकरणस्वभावः स तां करोतीति तत्करणस्वभावत्वमेवात्र प्रयोजकमिति। अत एवाह- तल्करणस्वभावत्वस्य च--अर्थक्रियाकरणस्वभावत्वस्य च, प्रयोजकत्वात, 'इह' इति वर्तते, तथाहि-यतोऽर्थक्रियाकरणस्वभावः, अतोऽर्थक्रिया करोति, किमत्रानित्यत्वादिना? सत्यप्यस्मिन् पर्वतःवा