________________ सामण्णविसेस 667 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस तुल्यसमानजातीयकार्योत्पादिन एव ते-केवलाः, न तदतिरिक्त किश्चित् / इति-एवं, कथमसमानाः प्रकृत्या, तद्धेतवः- समानबुद्ध्याकारहेतवो नाम? एतदेव प्रकटयति नेत्यादिना / न हि रसादिभ्यः प्रकृत्याऽसमानेभ्यः, समानो रूपबुद्ध्याकारः / कुतो न हीत्याहजथाननुभवात-समानरूपबुद्ध्याकारतयाऽननुभवाद् रसादीनाम्, एतत्कल्पाश्च तुल्यसमानजातीयकार्योत्पादिन इन्द्रियादय इष्यन्त इत्यर्थः / दोषान्तरमाह-व्यवस्थानुपपत्तेश्च अननुभवेऽपि समानबुद्ध्याकारपरिकल्पने रसादिभेदाभावप्रसङ्गादिति भावः। आह- नान्य एवं तत्तद्भेदः तुल्यसमानजातीयकार्योत्पादिभ्योऽतत्कारिभेदः, अपि तु-त एव तुल्यसमानजातीयकार्योत्पादिनः, तत्स्वभावाः-प्रक्रमादधिकृतबुद्ध्याकारजननस्वभावाः, इत्यतः कारणात् , त एव-विशिष्टास्तुल्यसमानजाती कार्योत्पादिनो घट-शरावोष्ट्रिकोदश्चनादय इत्यर्थः, तद्धेतवः-प्रक्रमा-दधिकृतबुद्ध्याकारहेतवः, नान्य इन्द्रियादयः / इत्याह- अतत्त्स्वभावत्वात् सोऽधिकृतबुद्ध्याकारहेतुः, स्वभावो येषा ते तत्स्वभाव नतत्स्वभावा अतत्स्वभावास्तद्भावस्तस्मात्, इति यदिन्द्रियादीनाम / एतदाशङ्कयाह-तेषामेव-घटादीनाम्, असो स्वभावः-- प्रक्रमादधिकृतबुद्ध्याकारजननस्वभावः, इति एतत्, कुतः? अत्राह.. स्वहेतुभ्यः सकाशात, उत्पत्तेर्विशिष्टभ्य इति पराकूतम् / एतदनादृश्य सामान्यमेव गृहीत्वाह-नेत्यादि / न-नैतदेवम्, अन्येषामपीन्द्रियादीनान, तत्प्रसङ्गादधिकृतबुद्ध्याकारजननस्वभावत्वप्रसङ्गात् / प्रसनश्च, तेषामप्यन्येषामिन्द्रियादीनाम्, किमित्याह- स्वहेतुभ्य एवोत्पत्तेः / न हि तेऽप्यन्यहेतुका अहेतुका वति भावनीयम्। नतथाविधेभ्यस्तेषामित्यन्येषामिन्द्रियादीना, यथाविधेभ्य एषामधिकृतबुझ्याकारहतूनां घटादीनाम, इति चेत् / एतदाशक्याह-किमिद तथाविधत्वतद्धेतूनामिति? अत्राह-तुल्यकार्यकृजनकत्वंतुल्यकार्यकरणशीलास्तुल्यकार्य--कृत इह प्रक्रमे तावद्द्घटादयस्तेषां जनकास्तद्धतव इति प्रक्रमः, तद्भावस्तुल्यकार्यकृज्जनकत्व तथाविधत्वमिति / एतदाशक्याहनदं तुल्यकार्यकृज्जनकत्वम्, तत्तुल्यसामर्थ्यमन्तरेण तेषां तद्धेतूनां तुल्यसामर्थ्य विना। यदि नामेवं ततः किमित्याह- तदङ्गीकरणे च तत्तुल्यसामाङ्गीकरणे च, अङ्गीकृत एव मदीयोऽभ्युपगमः, तुल्यसामर्थ्यस्थैव समानपरिणामत्वात्। एतदेव विपक्षवाधाभिधानेनाभिधातुमाह कथमगीकृतएवम दीयोऽभ्युपगमः, अतुल्यसामथ्र्येभ्य इन्द्रियादिभ्यरतुत्यरामानजातीयकार्यानुत्पत्तेः / न रूपादिज्ञानंककार्यकारिभ्योऽपीन्द्रियादिभ्यः वसंतती तुल्यानि समानजातीयकार्याण्युपपद्यन्त, यदुतसाणीन्द्रियाण्येव मनस्कारा वेत्यादीति भावना। आह च -इन्द्रियादिषु अतुल्यसामथ्र्येषु, तददर्शनात् तुल्यसमानजातीय कार्यादर्शनादिति, भावितमतम / यदि नामवं ततः किमित्याह- तदतुल्यसामयनिबधनम्-इन्द्रियादीनामतुल्यसामर्थ्यनिबन्धनग. एतत्-तुल्यसमान जातीयका दर्शनम् / अताऽन्यत्-प्रक्रमात् तुल्यसमानजातीयकार्यदर्शनं गृहाते, एतच्चेह मृद्रपमात्रतयाऽधिकृतघट-शराबोष्ट्रि का... दशनादिविषय- मेवावगन्तव्यम्,तत्तुल्यसामर्थ्यकारण मिति घटादीनां तुल्यसामर्थ्यकारणम्, अतुल्यसामर्थ्येभ्यो हिमादिभ्य एव मृदूपता ऽयोगात, इति सन्न्यायः, अन्वयव्यतिरेकबलप्रतिष्ठितत्वात् तत्तुल्यसामथ्र्यस्थ / एवमपि काऽवेष्टसिद्धिरित्याह-तुल्यसामथ्यमेव च नः अरमाकम, भावानां घटादीनाम्, समानपरिणामः, इति परिभाव्यता.. मेतत। एतदुक्तं भवति येषामेव भावानां पिण्डादीनां तुल्यं सामर्थ्य त एवं घटादीन मृदूपमात्रतया तुल्यान् सामानजातीयान कुर्वन्ति, नान्य हिमादयः, घटादिष्वेव व 'मृद् मृद' इति समानाकारा बुद्धिरुत्पत, न हिमादिषु, अतस्तात्विकसमानपरिणामनिबन्धनेयमिति सूक्ष्मधियाऽ5 - लोचनीयम। अविषय एवायं बुद्ध्याकारोऽनादिवासनादोषादुपप्लव इति चेत् / केयं वासना नाम?-किं बोधमात्रम्, उतान्यदेव किञ्चित्? यदि बोधमात्रम्, अनुत्तरज्ञानेऽपि तथाविधाकारापत्तिः, तस्यापि बोधमात्रभावाद्, अनिष्टं चैतत्, तत्र तदनभ्युपगमात्। अथान्यदेव किञ्चित् / तदेवास्य विषय इति कथमविषयो नाम? अवस्त्वेव तदिति चेत् / कथं ततः स आकारः? इति वाच्यम् / अहेतुक एवायमिति चेत् / सदातद्वावादिप्रसङ्गः। विशिष्ट बोधरूपं वासना न बोधमात्रमिति चेत् / किंकृतमस्य वैशिष्ट्यम् ? इति वाच्यम्। अनादिहेतुपरम्पराकृतमिति चेत्।नातत्रापि तन्मात्राविशेषात् / समुद्रोभिवद् यतस्तदेव तदिति चेत्। न तस्यापि वाग्वादिना विना तत एवाभावात्। अनागमो वाय्वादिकल्प इति चेत् / न। तदभावेऽपि क्वचित्तदावोपपत्तेः। स्वविक्षोभोद्भवसमुद्रोभितुल्यः स इति चेत् / स एव तदा कुतः। इति वाच्यम् / तस्यैव तत्स्वभावत्वादिति चेत् / न / तदविशेषेण सदा समुद्रोर्मिप्रसङ्गात्। तस्य तत्क्षणविशेषत्वाद-प्रसङ्ग इति चेत् ।न। तस्य तन्मात्रत्वेन विशेषत्वासिद्धः / ऊर्मिजननस्वभावत्वं विशेष इति चेत् / न स्वभावः स्वभाववतोऽन्य इति तन्मात्रत्वमेव / तन्मात्रत्वेऽपि तभेदवद्वेद एवेति चेत् / न / तादृशस्यास्याप्रयोजकत्वात्, तत्तद्भावेऽतिप्रसङ्गात्, तत्स्वभा-वानामपि केषाञ्चित् तथाभेदाद् नित्यतया फलभेदापत्तेः। आह . विषय एव. अनालम्बन एव, अयं--प्रक्रान्ता 'मृद मृद' इति समान। बुद्ध्याकारः / कुतः किमात्मको वाऽयमित्याह-- अनादिवासनादोषात् अयमुप्लवः स्वरूपेण इति चेत् / एतदाशङ्कयाह केयं वासना नाम? किं बोधमात्र निर्विशेषमेव, उतान्यदेव किश्चिद् बोधाद भिन्न वस्तु? उपयथाऽपि दोषमाह गदि बोधमा निर्विशेषणमेव वासना / ततः किमित्याह... अनुत्तरज्ञानेऽपि भगवत: तथाविधाकारापतिः, प्रामार मृद मृद' इति सामानबुद्ध्याकारापत्तिः, वृत्त इत्याह..तस्यापि अ