________________ सामण्णविसेस 666 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस दितथाक्षदर्शनादर्थयाथात्म्यसिद्धेः अन्यथाऽतिप्रसङ्गात्, रूपाद्यक्षदर्शनस्यापि तत्रार्थयाथात्म्यत एतदिति निश्चयाभावात्, उक्तवद्वासनाकल्पनोपपत्तेः। इत्यलं प्रसङ्गेन। आह-नासिद्धिः 'असमानेभ्यः समानबुद्ध्यादेः' इति प्रक्रमः / कुत इत्याह- प्रधाने--श्वरादिकार्यत्वसमानपरिणामविकलेभ्योऽपि भवद्दर्शननीत्या. भावेभ्यो महदादिभ्यः, 'प्रधानादिकार्याः प्रधानादिकार्याः' इत्येवं केषाश्चित् साख्यादीनाम्, समानबुद्ध्यादिसिद्धेः / एतदाशङ्याह-नेत्यादि। न-नैतदेवम्, तस्याः समानबुद्ध्यादिसिद्धेः, संकेतसंमोहहेतुत्वात्-असच्छास्त्रसंकेतसंमोह-निबन्धनत्वात् / कथमेतदेवमित्याह- आविद्वदङ्ग नादीनां प्रमातृणाम्, अविशेषेणसामान्येन, समानपरिणामवद्भावेष्विव घटशरावोष्ट्रिको-दञ्चनादिषु, अक्षदर्शनत एव तदप्रवृत्तेः 'प्रधानादिकार्याः' इति समानबुद्ध्याद्यप्रवृत्तेः, अक्षदर्शनतश्चाविशेषेण घटादिषु समानबुस्यादिसिद्धिः / आहतथाक्षदर्शनमपि समानतया, नतत्र घटादौ,अर्थयाथात्म्यतः-अर्थयाथात्म्यभावेन, अपितु-जन्मान्तरवासनात इति चेत्। एतदाशड्क्याहतत्रापि जन्मान्तरे, किं निमित्तम्? इति वाच्यम् / जन्मान्तरवासनैवेति चेद् निमित्तम् / एतदाशक्याह- अनवस्था तत्राप्युक्तदोषानतिवृत्तेः / अनादित्वात्तद्वासनायाः-तथाक्षदर्शनवासनायाः, अयमपिअनवस्थालक्षणः, अदोष इति चेत / एतदाशक्याह- नेत्यादि / न-नैतदेवम, अनादि च तत् तथाक्षदर्शनं च,प्रक्रमात् समानतयाऽक्षदर्शन चेति विग्रहस्तस्मादनादितथाक्षदर्शनात्, किमित्याह- अर्थयाथात्म्यसिद्धेः अनादितथाभावेन। इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथातिप्रसङ्गात एवमनभ्युपगमेऽतिप्रसङ्गात्। एनमेवाह-रूपाद्यक्षदर्शनस्यापि रूपादेरक्षैर्दर्शन रूपाद्यक्षदर्शनं तस्यापि,अर्थयाथात्म्यतोऽर्थयाथात्म्यात्, एतदितिनिश्चयाभायात्। अभावश्च,उक्तवद् यथोक्तं तथा, वासनाकल्पनोपपत्तेः 'रूपाद्यक्षदर्शनमपि न तत्रार्थयाथात्म्यतः, अपि तुजन्मान्तरवासनातः' इत्यादेरपि वक्तुं शक्यत्वात्, इत्यलं प्रसङ्गेन बुद्ध्याकार एवायमिति चेत् / कोऽस्य हेतुः? इति वाच्यम् / तदेककार्यकारिणामतत्कारिभेद इति चेत् / न इन्द्रियादिमिर्व्यभिचारात् / न रूपज्ञानाद्येककार्यमिह गृह्यते, अपि तुसमानजातीयक्षणोत्पादस्तेषामतत्कारिभेदोऽत्र विवक्षित इति चेत्।न। सर्वेषामेवासौ विद्यते, रूपज्ञानादिभावेऽपीन्द्रियादिसमान-जातीयक्षणोत्पत्तेः, इति तैरेव व्यभिचारात्। बुद्ध्याकार एवायं-समानाकारो घटादिगतः, इति चेत् / एतदाशझ्याह-कोऽस्य हेतुः? इति वाच्यम् / तदेककार्यकारिणामिह प्रक्रमे, मृदबुद्ध्याख्यैककार्यकारिणां पटशरावोष्ट्रिकोदशनादीनाम, अतत्कारिभेदः अतत्कारिभ्योहिम-तुषारकरकादिभ्यो भेदोऽतत्कारिभेदः, इति चेदस्य हेतुः / एतदाशङ्कयाह-नेत्यादि।न-नैतदेवम्, इन्द्रियादिभिर्व्यभिचारात्, इन्द्रिय-मनस्काराऽऽलोकाद्यस्तदेककार्यकारिणोऽतत्कारि भिन्नाः, न च यथोक्तबुद्धयाकारहेतवः। आह-न रूपज्ञानादि, आदिशब्दाद्-रसज्ञानादिग्रहः, एककार्यमिह गृह्यते येन तदेककार्यकारित्वमिन्द्रियादीनां भवति; अपि तु-समानजातीयक्षणोत्पाद एक कार्यमिह गृह्यते,तेषां समानजातीयककार्याणाम्, अतत्कारिभ्यः-समानजातीयककार्याकारिभ्यो भेदः, अत्र प्रक्रमे, विवक्षित इति चेत् / एतदाशङ्क्याहनेत्यादि। न-नैतदेवम् / कुत इत्याह-सर्वेषामेव इन्द्रियादीनाम्, असौ समानजातीयक्षणोत्पादो विद्यते, कथ-मित्याह-रूपज्ञानादिभावेऽपि सति इन्द्रियादिसमानजातीयक्षणोत्पत्तेः कारणात्,तैरिन्द्रियादिभिः, व्यभिचारात् / न हीन्द्रियादीनामपि समानजातीयक्षणोत्पादः, अतत्कारिभेदश्च न विद्यते, तथापि न ते समानबुद्ध्याकारहेतव इति तैरेव व्यभिचारः। तुल्यसमानजातीयकार्योत्पादिनामतत्कारिभेद इह गृह्यत इति चेत् / न। तस्य तेभ्यो भेदाऽभेदविकल्पानुपपत्तेः, भेदे तेषामिति संबन्धाभावः, तादात्म्याद्यसिद्धेः,भेदमात्रत्वात, वस्तुत्वापत्तेश्च / अभेदे त एव ते / इति कथमसमानास्तद्धेतवो नाम? न हि रसादिभ्यः समानो रूपबुद्ध्याकारः, तथाननुभवात्, व्यवस्थानुपपत्तेश्च / नान्य एव तत्तद्वेदः, अपितु-त एव तत्स्वभावा इति, अतस्त एव तद्धेतवो नान्ये, अतत्स्वभावत्वादिति चेत् / तेषामेवासौ स्वभाव इति कुतः ? स्वहेतुभ्य उत्पत्तेः / न अन्येषामपि तत्प्रसङ्गात, तेषामपि स्वहेतुभ्य एवोत्पत्तेः / न,तथाविधेभ्यस्तेषां यथाविधेभ्य एषामिति चेत् / किमिदं तथाविधत्वम्? तुल्यकार्यकृजनकत्वम्। नेदं तत्तुल्यसामर्थ्यमन्तरेण / तदङ्गीकरणे चाङ्गीकृत एव मदीयोऽभ्युपगमः, अतुल्यसामर्थ्यभ्यस्तुल्यसमानजातीयकार्यानुत्पत्तेः, इन्द्रियादिषु तददर्शनात् / तदतुल्यसामर्थ्य निबन्धनमेतत् / अतोऽन्यत् तत्तुल्यसामर्थ्यकारणमिति सन्न्यायः। तुल्यसामर्थ्यमेव च नो भावानां समानपरिणाम इति परिभाव्यतामेतत्। तुल्येत्यादि। तुल्यं चतत् समानजातीयकार्य चेति विग्रहः, तदुत्पादयितुं शीलास्तुल्यसमानजातीयकार्योत्पादिनस्तेषाम्, अतत्कारिभेदः, इहाधिकारे,गृह्यत इति चेत्। एतदाशड्क्याह-न. तस्य अतत्कारिभेदस्य,तेभ्यः-तुल्यसमानजातीयकार्योत्पादिभ्यः भेदाऽभदविकल्पानुपपत्तेः / एनामेवाह-भेद इत्यादिना / भेदे तुल्यसमानजगतीयकार्योत्पादिभ्योऽतत्कारिभेदस्याभ्युपगम्यमाने, तेषां 'तुल्यसभानजातीयकार्योत्पादिनां भेदः' इत्येवं, संबन्धाभावः। कुत इत्याह-तादात्म्याद्यसिद्धेः तुल्यसमाजातीयकार्योत्पादिनामतत्कारिभेदस्य च तादात्म्याद्यसिद्धेः,आदिशब्दात् तदुत्पत्तिपरिग्रहः / असिद्धिश्च भेदमात्रत्वात् कारणात् तादात्म्यासिद्धिः, वस्तुत्वापत्तेश्च भेदस्य तदुत्पत्त्यसिद्धिः। द्वितीयविकल्पमधिकृत्याह-अभेदे तुल्यसमानजातीयकार्यो - त्पादिभ्योऽतत्कारिभेदस्याभ्युपगम्यमाने / किमित्याह- त एवं ते