________________ सामण्णविसेस 665 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस प्राप्नाति, न समानाः' इति / आदिशब्दाद्-विशेषविनाशे तत्र तत्कवलग्रहणप्रसङ्ग : / इति संक्षेपगर्भार्थः / इत्यलं प्रसङ्गेन। आह- किं पुनर्यथाक्तबुद्धिशब्दद्वयप्रवृत्तिनिबन्धनम्? इति। उच्यते-अनेकधर्मात्मकानां वस्तूनां तथाविधः समानपरिणाम इति / न चात्र सामान्यवृत्तिपरीक्षोपन्यस्तविकल्पयुगलप्रभवदोषसंभवः, समानपरिणामस्य तद्विलक्षणत्वात्, तुल्यज्ञानपरिच्छेद्यवस्तुरूपस्य समानपरिणामत्वात्, अस्यैव च सामान्यभावोपपत्तेः समानानां भावः सामान्यमिति यत्तत्समानैस्तथा भूयत इत्यन्वर्थयोगात्, अर्थान्तरभूतभावस्य च तद्व्यतिरेकेणापि तत्समानत्वेऽनुपयोगात्, अन्यथा समानानामित्यभिधानाभावादयुक्तैव तत्कल्पना / समानत्वं च भेदाविनाभाव्येव, तदभावे सर्वथैकत्वतः समानत्वानुपपत्तेः / इति तथाविधः समानपरिणाम एव समानबुद्धिशब्दद्रयप्रवृत्तिनिमित्तम्। आह-किं पुनर्यथोक्तबुद्धिशब्दद्वयप्रवृत्तिनिबन्धनम? इति। उच्यते-- अनेकधर्मात्मकाना सत्त्वज्ञेयत्वाद्यपेक्षया, वस्तूनां घटशरावाष्ट्रिकादचनादीनाम्, तथाविधो 'मृद् मृद' इत्यभिन्नबुद्धि-शब्दद्वयप्रवर्तकः, समानपरिणाम इति / न चात्र समानपरिणामे, सामान्यवृत्तिपरीक्षायामुपन्यस्तं च तद् विकल्पयुगलकं च तथाहि-तदेकादिस्वभावं सामान्यमनेकषु दिग्दशसमयस्वभावभिन्नेषु विशेषेषु सर्वात्मना वा वर्तते, देशेन पा' इत्येतत्, नत्प्रभवश्व ते दोषाश्व सामान्यानन्त्यादयः, तेषां संभवो न छ / कुत इत्याह- सनानपरिणामस्य तद्विलक्षणत्वात् एकादिधर्मकसामान्यविलक्षणत्वात / वेलक्षण्यमेवाह-तुल्येत्यादिना / तुल्यज्ञानपरिच्छद्य च द् वस्तुरूपं चेति विग्रहस्तस्य, समानपरिणामत्वात् / अस्यैव-समानपरिणामस्य, सामान्यभावोपपत्तः / उपपत्तिश्च, समानाना भावः सामान्यमिति यत् तत्समानस्तथा भूयत इति कर्तरि षष्टी, इत्येवमन्वर्थयोगात् / नायं परपक्ष इत्याह अर्थान्तर-भूतभावस्य च संबन्धपक्षे सनानाना राबन्धिनः, तद्व्यतिरेकेणापि भावव्यतिरेकेणापि तदर्थान्तरत्वेन, तत्समानत्वे-तेषां समानानां समानत्वे, प्रकृत्यैवेति भावः, किमित्याह- अनुपयोगात् अधिकृतभावस्य, तमन्तरेणेव ते रागाना इति कृत्वा / अन्यथैवमनभ्युपगमे तमन्तरेण तदसमानत्वे प्रकृत्या समानानाम् इत्यभिधानाभावात्, अयुक्तैव लत्कल्पना-अधिकृतभावकल्पना / 'समानानां भावः' इत्येतत्संबन्धिनां समानानामिति कृत्वा / उपचामाह-समानत्वं च-तुल्यत्वं च भेदाविनाभाव्येव अथमनेन समानः' इति नीतः / तदभावे-भेदाभावे, सर्वथैकत्वतः कारणात : किमित्याह- समानत्वानुपपत्तिः / इति एवम्,तथाविधो 'मृद् मृद' इत्यभिन्नबुद्धिशब्दद्वयप्रवर्तकः, समानपरिणाम एव समानबुद्धिशब्दद्वयप्रवृत्तिनिमित्तमिति स्थितम् / आह- यथा असमाना अपीन्द्रियादयस्तथास्वभावत्वाद् रूपज्ञानाद्येककार्यकारिणः, तथैतेऽपि भावास्तथाविधसमानपरिणामविकला अपि तथाविधबुद्ध्यादिहेतवः किं नेष्यन्ते ? उच्यते-असमानेभ्यः समानबुद्ध्याद्यसिद्धेः, तन्निबन्धनस्वभाववैकल्यात्, तथाहि-न चक्षुरादिषु समानबुद्ध्यादिभावः तथाऽप्रतीतेः / रूपज्ञानाद्येककार्यकारित्वं चात्रानर्थकमेव, सिद्धसाधनत्वात्। को हिनाम तथाऽसमानेभ्योऽपि तथैकं कार्य नेच्छति ? तथाविधसमानपरिणामविकलास्तु समानबुद्धिशब्दद्वयप्रवृत्तिहेतवो न भवन्ति,न तथाविधैककार्याः इत्यभिदधति विद्वांसः / ततश्चानेन न किञ्चिदुपद्रूयते, असमानेभ्यः समानबुद्ध्याद्यसिद्धेः। आह-- यथाऽसमाना अपीन्द्रियादय:- इन्द्रियमनस्काराऽऽलोकरूपादयो जातिभेदेन, तथास्वभावत्वाद्पादिज्ञानजननस्वभावत्वात् कारणात् रूपज्ञानादि,आदिशब्दात्-रवसंसता--विन्द्रियादिकार्यग्रहः, एतदेककार्यकारिणः, तथतेऽपि भावा घट-शरावा-ष्ट्रिकोदश्चनादयः, तथाविधसमानपरिणामविकला अपि: तात्विकसभानपरिणामविरहिता अपीत्यर्थः, तथाविधतुझ्यादि-हेतवः-समानबुद्धिशब्दद्वयहेतवः, कि नेष्यन्ते ? एतदाशङ्कयाह-- उच्यते.. अस मानेभ्यः जातिभेदेन, समानबुद्धयाद्यसिद्धेः-समान-बुद्धिशब्दद्वयानुपपत्तेः / असिद्धिश्च, तन्निबन्धनस्वभाववैकल्यात्। समानबद्ध्यादिनिबन्धस्वभाववकल्यात् / एतदवाह- तथाहि-न चक्षुरादिषु विषयषु, समानबुट्यादिभावो विषयत्वेन / कुत इत्याह- तथाऽप्रतीतः चक्षुरादिषु विषयत्वेन समानबुद्धयाद्यप्रतीतः, नीलादिष्विव समानष्यिाते व्यतिरेकेण भावना / रूपज्ञानाद्यक कार्यकारित्वं चात्र व्यतिकर, अनर्थकमेव / कुत इत्याहसिहरा धनत्वात / एतदेवाह- को हि नाम वादी,तथा असमानेभ्योऽपि विशिष्टसमानपरिणामापेक्षया, तथैकं कार्य-सामग्रीजनकत्वेनैक कार्य नेच्छति? तथाविधसमानपरिणामविकलाः पुनश्चक्षुरादयः समानबुद्धिशब्दद्वयप्रवृत्तिहेतवा न भवन्ति, न तथाविधैककार्या-स्तथाविधैककार्या भवन्स्यवेत्यर्थः, इत्यभिदधति विद्वांसा जैनाः। ततश्चानेनानन्तरोदितेन, न किश्चिदुपद्रूयते / कुत इत्याह-- असमानेभ्यः- चक्षुरादिभ्यः, सामानबुझ्याद्यसिद्धेः तत्सिद्धौ च नो बाधेति भावना। नासिद्धिः प्रधानेश्वरादिकार्यत्वसमानपरिणामविकलेभ्योऽपि भावेभ्यः 'प्रधानादिकार्याः प्रधानादिकार्याः' इति केषाञ्चित्समानबुद्धयादिसिद्धेः / न / तस्याः सङ्केतसंमोहहेतुत्वात्, आविद्वदङ्ग नादीनामविशेषेण समानपरिणामवदावेष्विवाक्षदर्शनत एव तदप्रवृत्तेः। तथाक्षदर्शनमपि न तत्रार्थयाथात्म्यतः, अपितु-जन्मान्तरवासनात इति चेत् / तत्रापि किं निमित्तम् ? इति, वाच्यम् / जन्मान्तरवासनैवेति चेत् / अनवस्था / अनादित्वात् तद्वासनाया अयमप्यदोष इति चेत् / न / अना