________________ सामण्णविसेस 664 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस वृत्तः / एनमेव प्रकारान्तरेण समर्थयन्नाह-नच सर्वव्यापिनो विन्ध्यादय इति येन 'तस्मिन्नेकस्मिन्नेव तेषामवस्थितत्वात्' इति सफलं भवेत्।। अता यत्रेति देशे विन्ध्यभावः, यत्र चाभावः, इत्यन-योर्नभोभागयोराकाशदेशयोः, किमित्याह- अनन्यत्वमन्यत्व वेति वाच्यम् ? किञ्चातः / यद्यनन्यत्वम् किं सर्वथा, आहोस्वित् कथञ्चित्? यदि सर्वथाऽनन्यत्वम्, हन्त ! तर्हि यत्र विन्ध्यभावस्तत्राप्यभावः स्यात् / कुत इत्याह-तदभाववन्नभोभागाव्यतिरिक्तत्वात-विन्ध्याभाववन्नभोभागाव्यतिरिक्तत्वात्, तद्भाववन्नभोभागस्यविन्ध्यभाववन्नभो - भागस्य, विपर्ययो वा, यत्राभावस्तत्रापि भावप्राप्तेः / अथ कथशिदनन्यत्वम् एतदाशडक्याह- अनेकान्तवादाभ्युपगमात् स्वकृतान्तप्रकोपः-स्वसिद्धान्तविरोध इत्यर्थः / द्वितीयं विकल्पमधित्याहअथान्यत्वम् अधिकृतनभोभागयोः, किं सर्वथाऽन्यत्वम्, उत कथञ्चित्? यदि सर्वथाएकान्तेनान्यत्वम् / ततः किमित्याह- अन्यतरस्य यत्र विन्ध्यभावो यत्र चाभाव इत्यनयोरेकस्य इत्यनयोरेकस्य किमित्याहअनभोभागत्वप्रसङ्गः / कुत इत्याह- सर्वथा भेदान्यथाऽनुपपत्तेः सर्वधर्मवलक्षण्ये हि सर्वथा भेदः तस्मिश्च सत्येकस्य भावरूपता, अपरस्य साऽपि न, इत्येतदेव भवतीति भावना। अथ कथञ्चिदन्यत्वमधिकृतनभोभागयोरित्यत्राहस्वदर्शनपरित्यागदोषः, एकान्तदर्शनं हि परस्य स्वदर्शनं तत्परित्यागदोष इति स्यादेतद् भागानभ्युपगमाद व्योम्नःआकाशस्य, यथोक्तदोषानुपपत्तिरित्येदधिकृत्याह- अभ्युपगममात्रभवतो देवानांप्रियो, मूर्ख इत्यर्थः, सुखैधितः--शारणग्रहणपरिश्रमायागेन सुखवर्धितः, नोपपत्तिप्राप्तानपि विन्ध्यभावभावाऽभावाम्या भागानागच्छतीति / एतद्भावनायेवाह- ननु विशिष्टभावभावाऽभावगम्या एव भागाः-विशिष्टभावोऽन्यव्यावृत्ततया विन्ध्यभाव एव तद्भावाऽभावगम्या एव भागा व्योम्नः। न हि निर्भाग परमाणौ कार्यस्य व्याणुकादेः कृचिद भावाः क्वचिद् नेति स्वदर्शनस्थित्यप्यवगमे निवेश्यतां चित्तमित्यलं प्रसङ्गेन / एतेनेत्यादि / एतेनैकसामान्यवृत्तिनिराकरणेन, नित्यव्यापिनिर्देशसामान्यवृत्तिरपि प्रत्युक्ता विशेषेषु, नित्यस्यैकस्वभावतया कालभिन्नासु व्यक्तिषु वृत्त्ययोगः, व्यापिनः सर्वगतत्वेन निर्देशस्य देशाभावेनेति भावनीयम्। आह-अनुभवसिद्धत्वात् सामान्यस्य न युज्यते सहृदयतार्किकस्य तत्प्रतिक्षेपेणात्मानमायासयितुम् , आयासस्य निष्फलत्वात्, तथाहि-यदि सनातनं वस्तुसद् व्याप्येकमनवयवं सामान्यवस्तु न स्यात् न तदा देशकालस्वभावभेदभिन्नेषु घटशरावोष्ट्रिकोदश्चनादिषु बहुषु विशेषेषु सर्वत्र 'मृद् मृद्' इत्यमिन्नौ बुद्धिशब्दौ स्याताम् / न खलु हिमतुषारकरकोदकाङ्गारमुर्मुरज्वालानलझञ्झामण्डलिकोत्कलिकापवनखदिरोदुम्बरबदरिकादिष्वत्यन्तभिन्नेषु बहुषु विशेषेष्वेकाकारा बुद्धिर्भवति, नाप्येकाकारः शब्दः प्रवर्तत इति। अतोऽस्य यथोक्ताऽभिन्नबुद्धिशब्दद्वयप्रवृत्तिनिबन्धनस्य वस्तुसतः सामान्यस्य | सत्त्वमाश्रयितव्यमिति। आह परः, अनुभवसिदत्वात् सामान्यस्य, विशेषेषु तुल्यबुद्धि-भावेन, न युज्यते सहृदयतार्कि कस्य भावाशून्यस्य, तत्प्रतिक्षेपेणसामान्यप्रतिक्षेपेण, आत्मानमायासयितुम् / कुतो न युज्यत इत्याहआयासस्य निष्फलत्वात् / एतदेवाह- तथाहीत्यादिना / तथाहीति पूर्ववत् / यदि सनातनं नित्यम्; वस्तुसत्- अपरिक-ल्पितम, व्यापिविशेषव्यापनशीलम्, एकं-स्वरूपेण, अनवयवम्- अवयवरहितम, सामान्यवस्तु न स्यात्, ततः किं रयादित्याह- न तदा देशकालस्वभावभेदभिन्नेषु, केष्वित्याह-घटशरावोष्ट्रिकोदश्चनादिषु उदञ्चनोलोट्टकः, आदिशब्दादलिञ्जरादिग्रहः, बहुषु विशेषेषु सर्वत्र 'मृद् मृद' इत्येवं अभिन्नौ तुल्यावेकरूपावित्यर्थः कावित्याह- बुद्धिशब्दों स्याताम्। किमिति न स्यातामित्याह-नखल्वित्यादि। नैव 'हिमतुषारकरकोदकानि च इत्यनेन जलभेदानाह, 'अङ्गारमुर्मुरज्वालानलाश्च' इत्यनेन त्वग्निभेदान्, 'झञ्झामण्डलिकोत्कलिकापबनाश्च' इत्यनेन वायुभेदान, 'खदिरो-दुम्बर--बदरिकादयश्च' इत्यनेन च वनस्पतिभेदानाह, आदिशब्दः प्रत्येक धारादिसंग्रहार्थः एते चत्यन्तभिन्नेषु, जाति-भेदापेक्षया बहुषु, विशेषेषु भेदेषु, एकाकारा बुद्धिर्भवति, तथाऽननुभवात् / नाप्येकाकारः शब्दः प्रवर्तत इति 'मृद् मृद्' इत्यादिशब्दवत् / अतोऽस्य सामान्यस्येति योगः / यथोक्तं च तद् 'मृद् मृद' इत्यादिरूपतयाऽभिन्नं च तद् बुद्धिशब्दद्वयं चेति विग्रहः, प्रवृत्तिनिबन्धनंप्रवृत्तिकारणम्, तस्य वस्तुसतः पारमार्थिकस्य सामान्यस्य सत्त्वमाश्रयितव्यमिति। पुनराशङ्कयाह-- अत्रोच्यते-न खल्वस्माभिर्यथोक्तबुद्धि-शब्दद्यप्रवृत्तिनिबन्धनं निषिध्यते / किं तर्हि? एकादिधर्मयुक्तं परपरिकल्पितं सामान्यमिति / तच यथा विशेषवृत्त्ययोगेन न घटां प्राञ्चति तथा लेशतो निदर्शितमेव, प्रपञ्चतस्त्वन्यत्र वृत्त्ययोगसंख्यादिव्यभिचारतद्वत्प्रत्ययप्रसङ्गादिना युक्तिकलापेन निराकृतमिति नेह प्रयासः। एतदाशड्वयाह-अत्रोच्यते न खल्वस्माभिः जनैः, यथोक्त-बुद्धिशब्दद्वय प्रवृत्तिनिबन्धनं निषिध्यते / किं तर्हि? एकादिधर्मक परपरिकल्पितं सामान्यमिति-सामान्यं निषिध्यते / तचैकादिधर्मकं सामान्यम्, यथा विशेषवृत्त्ययोगेन हेतुना,न घटा प्राञ्चतिन घटन गच्छति,तथा लेशतो निदर्शितमेव, प्रपशतस्त्वन्यत्र स्याद्वादकुचो द्यपरिहारादौ, वृत्त्ययोगश्च संख्यादिव्यभिचारश्च तद्वत्प्रत्यय प्रसङ्गादिश्वेति समासः,तेन, के नेत्याह- युवितक लापेन उपपत्तिसंघातेन, निराकृतमिति कृत्वा,नेह प्रयासो-नेह प्रयत्नविशेषः। तत्र वृत्त्ययोगो दर्शित एव। 'यदेकबुद्ध्यकशब्दप्रवृत्ति निमित्त तत् सामान्यम्' इत्यभ्युपगमे संख्यादिभिर्व्यभिचार:-एकसंख्याऽपि भवत्येकबुद्ध्येकशब्दप्रवृत्तिनिमित्तम् ; आदि-शब्दात्-तत्समवायच,न चासौ सामान्यमिति व्यभिचारः / तथा भावेऽपि सामान्यस्य विशेषेषु तद्वत- प्रत्ययप्रसङ्गः 'एकसामान्यवन्तो विशेषाः' इति प्रत्ययः प्रा--