________________ सामण्णविसेस 663 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस लाठ्यानुषङ्गि कम्-प्रकृतमाह- अतो निर्विकल्पकवत इति निदर्शनम्। विकल्पकमप्यभान्तमेष्टव्यमिति गोगः / किंविशिष्टमित्याह-अक्षव्यापारानुसारि--अक्षव्यापारानुसरणशीलम्, यथावस्थित-वस्तुविषयं सामान्यविशेष रूपवस्तुगोचरम्, अविगानतोऽविगानेन, स्पष्टतुल्यविनिश्चयं प्रमात्रन्तरमधिकृत्य, सत्क्षयोपशमजन्म-विशिष्टक्षयोपशमोत्पादम, बाध वेज्ञानरहितं तथा अनुभवदाढयन, अवगमादिफलं परिच्छित्तिप्रवृत्तिप्राप्तिफलमर्थमधिकृत्य, अभ्रान्तमेष्टव्यम् / अन्यथा-- तदनिष्टा, उक्तवद् यथोक्तं तथा, तत्तत्त्वनिश्चयाभावोयथावस्थितवस्तुतत्त्वनिश्चयाभावः, प्रत्यक्षस्यानिश्चायकत्वात्, विकल्पाना व मिथो विरुद्धानामपि प्रवृत्तरिति। इति-एवं, विकल्पकत्वेऽपि सति, न भ्रान्तमधिकृतविज्ञान सामान्यविशेषावसायरूपमिति / अतः-अस्माद् विज्ञानाद, सामान्याविशेषरूपवस्तुसिद्धिरिति। यचोक्तम्- 'एकं सामान्यमनेके विशेषाः' इत्यादि। तदप्ययुक्तम्,तथानभ्युपगमात् / न हि यथोक्तस्वभावं सामान्यमभ्युपगम्यतेऽस्माभिः, युक्तिरहितत्वात्, तथाहि-तदेकादिस्वभावं सामान्यमने के षु-दिग्देश-समयस्वभावभिन्नेषु विशेषेषु सर्वात्मना वा वर्तेत, देशेन वा? न तावत्सर्वात्मना, सामान्यानन्त्यप्रसङ्गात्, विशेषाणामनन्तत्वात्, एकविशेष-- व्यतिरेकेण वाऽन्येषां सामान्यशून्यतापत्तेः, आनन्त्ये चैकत्वाविरोधात् / नापि देशेन, सदेशत्वप्रसङ्गात् / न च गगनवद् व्यापित्वात् वर्तत इति ब्रूम इत्यकलजन्यायानुसारि चेतोहरं वचः;अविचारितरमणीयत्वात, कास्न्यदेशव्यतिरेकेण वृत्त्यदर्शनात् / उभयव्यतिरेकेण नभसो वृत्तिरिति चेत् / न,असिद्धत्वात्,नभसः सप्रदेशत्वाभ्युपगमात्, निष्प्रदेशत्वे चानेकदोषप्रसङ्गात्, तथाहि-येन देशेन विन्ध्येन सह संयुक्तं नमः, हिमवन्मन्दरादिमिरपि किं तेनैव, आहोस्विदन्येनेति? यदि तेनैव,विन्ध्यहिमवदादीनामेकत्रावस्थानप्रसङ्गः, निष्प्रदेशैकाकाशसंयोगान्यथानुपपत्तेः / अथान्येन, आयातं तर्हि सदेशत्वमाकाशस्य। यच्चोक्तम् - 'एकं सामान्यमनेके विशेषाः' इत्यादि मूलपूर्वपक्षे / तदप्ययुक्तम / इत्याह- तथाऽनभ्युपगमात् / एतदेवाह- न हीन्यादिना / न हि यथोक्तस्वभावमेकादिधर्मकं सामान्यमभ्युपगम्यतेऽस्माभिः / कुत इत्याह.. युक्तिरहितत्वात् / एतदेवाह-तथाहितदकादिस्वभावं सामान्यम् एकं, नित्यं निरवयवं, निष्क्रिय च, अनेकेषु दिग्दर्शसमयस्वभावभिन्नेषु विशेषेषु घटादिषु, सर्वात्मना वा वर्तेत, देशेन चा? नताबत सर्वात्मना वर्तते। कुत इत्याह-सामान्यानन्त्यप्रसङ्गात्। प्रसङ्गश्च विषाणामनन्तत्वात् / दोषान्तरमाह-एकविशेषव्यतिरेकेण याऽन्य विशेषाणाम, किमित्याह- सामान्यशून्यतापत्तेः एक त्रैव सामान्यवृत्तेरिति। आनन्त्ये च सामान्यानाम्, एकत्वविराधाद् न तावत् सर्वात्मनेति / नापि देशेन वर्तत ‘सामान्यं विशेषेषु' इति प्रक्रमः, सदेशत्वप्रसङ्गात् सामान्यस्य / न च गगनवदिति दृष्टान्तः, व्यापित्वात् कारणात्, वर्तत इति ब्रूमः, इत्यकलङ्कन्यायानुसरि चेतोहरं वचः। कुत इत्याह-अविचारितरमणीयत्वात्। एतदेवाह- कास्न्यदेशव्यतिरेकेण वृत्त्यदर्शनाल्लोक। उभयव्यतिरेकेणकात्स्न्यदेशोभयव्यतिरेकेण, नभसःआकाशस्य, वृत्तिरिति चेद् भावेष्वाधेयादित्वेन / एतदाशङ्कयाह- न, असिद्धत्वात अधिकृतनभोवृत्तेः / असिद्धिश्च नभसः सप्रदेशत्वाभ्युपगमार्जनः / यदा च सप्रदेश नभः, तदा देशकास्न्याभ्यां नियोगतोऽस्य वृत्तिः, उभयनिमित्तभावात्। इत्थं चैतदङ्गीकर्तव्यमित्याह-निष्प्रदेशत्वे च नभसः, अनेकदोषप्रसङ्गात् / एतदेव भावयति-तथाहीत्यादिना / तथाहीत्युपप्रदर्शन / येन देशेन विन्ध्येन सह पर्वतेन संयुक्तं नमः, हिमवद-मन्दरादिभिरपि पर्वतैः, किं तेनैव देशेन, आहोस्विदन्येन? इति / किश्चातः? उभयथापि दोष इत्याह -यदि तेनैव, ततो विन्ध्यहिमवदादीना पर्वतानाम्,एकत्र देश, अवस्थानप्रसङ्गः। कुत इत्याहनिष्प्रदेशं च तदेकाकाशं च तेन संयोगस्तदन्यथानुपपत्तेरिति / अथान्येन। एतदाशङ्कयाह-आयातं तर्हि सप्रदेशत्वमाकाशस्य, तथाऽभ्युपगमात्। स्यादेतददेशत्वात् वियतो यथोक्तविकल्पासंभवः,तत्रैकस्मिन्नेव तेषामवस्थितत्वात् / इदमप्ययुक्तम्, वस्तुतः पूर्वोक्तदोषानतिवृत्तेः / न च सर्वव्यापिनो विन्ध्यादय इति, येन 'तस्मिन्नेव तेषामवस्थितत्वात्' इति सफलं भवेदिति / अतो यत्र विन्ध्यभावो यत्र चाभाव इत्यनयोर्नभोभागयोरनन्यत्यम्, अन्यत्वं वेति वाच्यम्य? किचातः? यद्यनन्यत्वम्, किमु सर्वथा,आहोस्वित्कथञ्चित् / यदि सर्वथा, हन्त ! तर्हि यत्र विन्ध्यभावस्तत्राप्यभावः स्यात्, तदभाववन्नभोभागाव्यतिरिक्तत्वात्, तद्भाववन्नभोभागस्य विपर्ययो वा / अथ कथञ्चित्, अनेकान्तवादाभ्युपगमात् स्वकृतान्तप्रकोपः / अथान्यत्वम्। किं सर्वथा, उत कथञ्चित्? यदि सर्वथा, अन्यतरस्यानभोभागत्वप्रसङ्गः, सर्वथा भेदान्यथानुपपत्तेः / अथ कथश्चित, स्वदर्शनपरित्यागदोष इति। स्यादेतद्भागानभ्युपगमाद् व्योम्नो यथोक्तदोषानुपपत्तिरिति / अभ्युपगममात्रभक्तो देवानांप्रियः सुखै धितो नोपपत्तिप्राप्तानपि भागानवगच्छतीति; ननु विशिष्टभावभावाऽभावगम्या एव भागा इत्यवगमे निवेश्यतां चित्तमित्यलं प्रसङ्गेन। एतेन नित्यव्यापिनिर्देशसामान्यवृत्तिरपि प्रत्युक्ता। स्यादेतददेशत्वावियत-आकाशस्य यथोक्तविकल्पासंभवः। तत्र--वियति, एकस्मिन्नेव निष्प्रदेशे, तेषां विन्ध्यादीनाम्,अवस्थितत्वात् / एतदाशङ्कयाह-इदमप्ययुक्तम्, वस्तुतः-परमार्थतः, पूर्वोक्तदोषानतिवृत्तेःविन्ध्यहिमवदादीनामेकत्रावस्थानादिप्रसङ्गः पूर्वोक्तो दोषः, तदनति