________________ सामण्णविसेस 692 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस मिति चेद दाान्तिकेन, एतदाशङ्कयाह--न, अस्यापि तुल्यत्वात्। एतदेवाह.. अनित्यादिविकल्पानामपि पराभिगतानाम, एवं भूतभावस्य-अयोनिशोमनस्कारपूर्वकत्वभावस्य, वक्तु शक्यत्वात् तथाहि- अनित्यादिविकल्पा एवायोनिशोमनस्कारर्पूका वस्त्वसंस्पर्शिनः, सतोऽसत्त्वानापत्त्या, असतश्च सद्भावविरोधेन वस्तुन एवंभूतस्यासंभवात्, इति बाधकप्रमाणवृत्तिः, अतः स्थितमेतत् अनित्यादिविकल्पानामप्येवंभूतभावस्य वक्तु शक्यत्वात् इति / उभयत्रेत्यादि. उभयत्र नित्यादिविकल्पपक्षेऽनित्यादिविकल्पपक्षे च,तन्नियामकत्वनुपपत्तेः तस्यायोनिशोमनस्कारर्पवकत्वस्य नियामकत्वानुपपत्तेः / अनुपपत्तिश्च निबन्धनाविशेषात्। निबन्धनाविशेषश्व सर्वेषां तद्भेदप्रसवत्वेनेति। अतः स्थितमेतत् अखिल-विकल्पज्ञानभ्रान्ततावादिनश्च तत्सामोत्थ- विकल्पसामोत्थं वचनमपि तादृगेवभ्रान्तमेव, इत्येवं दुःस्थिता तत्त्वनीतिः।। भ्रान्तिज्ञानवन्तोऽपि कामलिप्रभृतयः शङ्खादी संस्थानादितत्त्वनिश्चयनिबन्धनं दृश्यन्त एवेति चेत् / न / तेषां तत्राभ्रान्तत्वात् ; अन्यथा पीतवर्णादिवत्तत्त्वनिश्चयनिबन्धनाभावः / विकल्पज्ञानमपि स्वसं वित्तावभ्रान्तमेवेति चेत् / क्व तर्हि भ्रान्तम् ? इति वाच्यम्। कल्पनायामिति चेत्।न। तस्यास्तदव्यतिरेकात्; अन्यथा विकल्पज्ञानायोगात, स्वसंवित्तेर्भेदकासिद्धेः, बोधमात्राद्-बोधमात्रभावात्, तदतिरिक्तदोषानभ्युपगमात् / अभ्युपगमे च तदस्तुत्वेन तद्योगजविकारकल्पनाया वस्तुत्वापत्तेरिति। भ्रान्तीत्यादि। भ्रान्तिज्ञानवन्तोऽपि कामलिप्रभृतयःप्रमातारः, शादी प्रमेये,संस्थादितत्त्वनिश्चयनिबन्धनं दृश्यन्त एवेति चेत् ततश्च तद भ्रान्त च ज्ञानं, तत्त्वनिश्वयनिबन्धनं च, एवमनित्यादि-विकल्पा अपि भविष्यन्ति, इत्याह- नेत्यादि / न, तेषां कामलि-प्रभृतीना, तत्र शङ्गादिसस्थानादितत्त्वनिश्चयनिबन्धनाभावः, अभ्रान्तत्वात् / इत्थं चैतङ्गीकर्तव्यमित्याह- अन्यथा पीतवर्णादौ यथा पीतवर्णादौ तथा, तत्तत्त्वनिश्चयनिबन्धनाभावः-शनादि-संस्थानादितत्त्वनिश्चयनियन्धनाभावः, सर्वथा भ्रान्तत्वादिति भावना / विकल्पज्ञानमपि स्वसंवित्तौ, किमित्याह-अभ्रान्तमेवेति चेत् ततश्च किलोक्त-दोषानुपपत्तिः, इत्याशङ्क्याह-क्व तर्हि भ्रान्तम्? इति वाच्यम् / कल्पनायामिति चेद् भ्रान्तमा अत्राह न, तस्याः कल्पनायाः, तदव्यातिरेकात्-स्वसवित्त्यव्यतिरेकात् / इत्थं चैतदित्याह- अन्यथा व्यतिरेके सति स्वसवित्तेः कल्पनायाः, विकल्पज्ञानायोगात् / अयोगश्च स्वसंवित्तश्चिद्रुपायाः, भेदकासि रञ्जकासिद्धेः / असिद्धिश्च बोधमात्रात सकाशात् कारणगतात, बोधमात्रभावात्। तत्कार्ये तदेव दोषसंपृक्तं विकल्पज्ञानमित्येतन्निरासायाह- तदतिरिक्तदोषानभ्युपगमात्-- बोधमात्रातिरिक्तदोषानभ्युपगमात्। अन्युपगमे च तदतिरिक्तदोषाणां, तद्वस्तुत्वेनदो (षा)षवस्तुत्वेन हेतुना, 'तद्योग-जविकारकल्पनाया-दोषयोगजविकारकल्पनायाः, वस्तुत्वापत्तेः' न, तेषा तत्राभ्रान्तत्वात् इत्यतो नेति / क्रियायोग इति। आह-- अस्तु दोषजं वस्तुत्वमस्याः, शङ्खपीतादिप्रतिभासतुल्यं तु तत्, संस्थानादितत्त्वनिश्चयकल्पा तु स्वसंवित्तिरिति / यदि नामैवम्, ततः किम्? इति वाच्यम् विकल्पज्ञानस्याप्यभ्रन्तता। एवमपि का भवत इष्टसिद्धिः? ननु ततस्तत्त्वनीतिभावः। अनिश्चयात्मिकायाः कथमसौ? हन्त ! कल्पनानुवेधात् / स खलु नित्यत्वादिकल्पनयाऽपि / इति विपक्षसाधारणत्वात् नेष्ट सिद्ध्यर्थमेवेत्ययुक्त एव / न च निरंशवस्तुवादिनो यथोक्तकल्पनैव संभवति, तदेकस्वभावत्वेन कल्पनाबीजायोगात्, स्वभावभेदमन्तरेण हेत्यभेदतः फलभेदसिद्धेः। आह-अस्तु दोषज वस्तुत्वम् अस्याः-कल्पनासाः / शङ्ख - पीतादिप्रतिभासतुल्यं तु तद्-वस्तुत्वम्, संस्थानादितत्त्वनिश्चयकल्पा तु स्वसवित्तिरिति / एतदाशङ्कयाह-यदि नामैवं, ततः किम्? इति वाच्यम् / विकल्पज्ञानस्याप्यभ्रान्तता। एतदाशङ्कयाह- एवमपि का भवत इष्टसिद्धिः? ननु ततः- अभ्रान्तायाः स्वसं वित्तः, तत्वनीतिभाव इतीष्टसिद्धिः। एतदाशङ्कयाह-अनिश्चयात्मिकायाः स्वसंवितेः, कथमसौ तत्त्वनीतिभावः? हन्त ! कल्पनानुवेधात् / एतदाशङ्कयाह- स खलुकल्पनानुवेधः, नित्यत्वादिकल्पनयाऽपि-सह, इति--विपक्ष-साधारणत्वात् कारणात्, 'नेष्टसिद्ध्यर्थ-मेव' इति कृत्याऽयुक्त एवेति किचिदनेन / अभ्युच्चयमाह-न च निरंशवस्तुवादिनः परस्य, यथोक्तकल्पनैव संभवति / इत्याह-तदेकस्वभावत्वेननिरंशवस्तुन एकस्वभावत्वेन हेतुना कल्पनाबीजायोगात् / अयोगश्च स्वभावभेदमन्तरेणप्रक्रमादविकल्प-ज्ञानवस्तुनः, हेत्वभेदतः कारणात्, फलभेदासिद्धेः / फलभेदश्चाविकल्पज्ञानात् कल्पनेति भावनीयम् ! भवतोऽपि कथमेकं भ्रान्ताभ्रान्तम्? इति चेत् / चित्रस्वभावत्वेन तथात्वाविरोधात्, तत्त्वत एकत्वासिद्धेः, दोषसाम •पयोगात्, अविगानतस्तथा तत्प्रतीतेरिति / अतोनिर्विकल्पकवद् विकल्पकमप्यक्षव्यापारानुसारि यथावस्थितवस्तुविषयमविगानतः स्पष्टतुल्यविनिश्रयं सत्क्षयोपशमजन्म बाधविज्ञानरहितमवगमादिफलमभान्तमेष्टव्यम्, अन्यथोक्तवत् तत्तत्त्वनिश्चयाभावः / इति विकल्पकत्वेऽपि न भ्रान्तमधिकृ तविज्ञानमिति / अतः सामान्य विशेषरूपवस्तुसिद्धिरिति। भवतोऽपि कथमेक प्रक्रमात् कामलिशङ्खपोतज्ञान भ्रान्ताभ्रान्तम? इति चेत् / एतदाशडक्याह चित्रस्वभावत्वेन अधिकृतज्ञानस्य, तथात्वाविरोधाद-भान्ताभ्रान्तत्वाविरोधात्, तत्वतः-परमार्थेन, एकत्वासिद्धेरेकानेकत्वादित्यर्थः / हेतुभेदमाह-दोषसामोपयोगात कामलस्य सामर्थ्याद्धि तत् तथा, तदभावेऽभावात्। इत्थं चैतदङ्गीकर्तव्यमित्याह अविगानतःअविगानेन लोके, तथा दोषजत्वेन, तत्प्रतीतेः-शङ्खपीतज्ञानप्रतीतेरिति नि