________________ सामण्णविसेस 691 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस श्यनिबन्धनत्वात् तस्य चोक्तवद् ग्रहणायोगात् आन्तरतद्विकल्पबीजस्याप्रमाणत्वात्, तथापि तत्कल्पनायाश्चेतरत्रा पि तुल्यत्वादित्युक्तप्रायम्। इहैव दूषणान्तरमाह- किश्चेत्यादिना। किञ्च–'यथा दृष्टविशेषानुसरणं परित्यज्य' इत्यत्र तथादृष्टोऽनित्यादिरूपत्वेन, नान्यथा-न नित्यादिरूपत्वेन, इत्यत्र न प्रमाणम्- नास्मिन् विषये प्रत्यक्ष प्रवर्तते, नाप्यनुमानमित्यर्थः / प्रत्यक्षमेवात्र 'तथादृष्ट' इति विषये प्रमाणमिति चेत्। एतदाश ड्क्याह-न तदित्यादि-न तत्,प्रत्यक्ष कस्यचिद् वस्तुनो निश्वायकम् / तथ्यमप्यर्थविशेषं गृह्णाति न तत् निश्चयेन 'एवमेतत्' इत्येवरूपेण। किं तर्हि? तत्प्रतिभासेन तदाकारेण ग्राह्याकारणेत्यर्थः / सचेत्यादि। स च प्रतिभास एवंभूत एव-अनित्यादिरूप एव, नान्यथेति न नित्यादिरूपः, इति-एवम्, ऋते-विना, अतीन्द्रियार्थदर्शितामतिशयश्रद्धा वा न विनिश्चयोपायः / न तदेव प्रत्यक्ष विनिश्चयोपायः / कुत इत्याह- संप्रमुग्धमूककल्पत्वात् तस्य संप्रमुग्धो हि मूकः स्वप्रतिभासमपि न विनिश्चिनोतीति लौकिकमेतत् / अतोऽत्र न प्रत्यक्षमेव प्रमाणमिति। अनुमा नंतर्हि भविष्यतीत्याशङ्कानिरासायाहनानुमानम् अत्र प्रमाणम्' इति प्रक्रमः कुत इत्याह- तथाविधलिङ्गासिद्धेः स एवंभूत एवेत्याद्यर्थाविनाभूतलिङ्गासिद्धेः / न चान्यत् 'अत्र मानम्' इति प्रक्रमः कुत इत्याह- अनभ्युपगमात् अन्यस्य मानस्य / अनित्यत्वादिरूपस्यैव वस्तुनि रूपादौ विद्यमानत्वात् कारणात्, रा प्रतिभासः, एवं भूतोऽनित्यादिरूप एव नान्यथेति न नित्यादिरूप इति चेत् / एतदाशक्याह- कुतस्तत्र वस्तुनि, तस्यैवानित्यत्वादिरूपस्यैव,विद्यमानतासिद्धिः? इत्येतद् वाच्यम् / तत्तथेत्यादि तस्मिन वस्तुनि तथाऽनित्यादिरूपतया प्रत्यक्षप्रतिभासः प्रत्यक्षाकारस्तत्तथाप्रत्यक्षप्रतिभासस्तस्मादेवेति चेत् तस्यैव विद्यमानतासिद्धिरिति / एतदाशक्याह- सोऽयमितरेतराश्रयदोषोऽनि-- वारितप्रसरः तथाहि अनित्यत्वादिरूपता वस्तुनः प्रत्यक्षप्रतिभासबलेन,सो पि तथा वस्तुनोऽनित्यत्वादिरूपतया, इतीतरेतराश्रयदोषः कयं वेत्यादि / कथं वा तस्य प्रत्यक्षस्य, तत्प्रतिभासत्वे प्रक्रमादनित्यत्वाद्याकारत्वे,तन्नीलत्वादिवत् तस्य वस्तुनो नीलत्वादिवदिति निदर्शनं व्यतिरेकेण तदनिश्चयोऽनित्यत्वाद्यर्थानिश्चयः। किक्षित स्मान्यग्रहणे नापरसदादिग्रहणे नेत्यर्थः, विशेषान्तरसमारोपात् सर्वसदादिसमारोपादिति चेत् तदनित्यत्वाद्यनिश्चयः / एतदाशड्क्याह-किमत्यन्तभेदिनां सामान्य वस्तूनाम्' इति प्रक्रमः। सदृशापरापरोत्पत्तिरिति चेत् प्रस्तुतसामान्यम् / एतदाशडक्याहप्रतिनियतैक ग्राहिज्ञानतत्त्ववादे क्षणिकत्वेन कुतोऽस्याः सदृशापरापरोत्पत्तेः खल्ववगमः? नैवेत्यर्थः। एतदेव भावयति-न हीत्यादिना। न हि कथशिदकस्यानेकग्राहिणो विज्ञानस्याभावेऽन्वयिन इत्यर्थः, 'केनचित् सदृशोऽयम्' प्रक्रमाद् ‘भावः' इति भवति / किं न भवति? इत्याह- अतिप्रसड़ात् / एनमेवाह--रूपग्रहण स्यापि रसग्रहण - सदृशतापत्ते., तेन त्दग्रहणाविशेषादिति भावः / एवं जातिपसड़े राति | व्यवस्थानुपपत्तिः / न रूपज्ञानं रसज्ञानोपादानम्, यथा रूपज्ञानोपादानमेव, अतोऽयमतिप्रसङ्ग दोषोऽदोष इति चेत् / एतदाशडक्याह--न-न भवति रूपज्ञान रसज्ञानोपादानम्, किन्तु भवत्यपि क्वचित सामान्येन तथाभावोपपत्तेः रूपज्ञानस्य रसज्ञानोपादानभावोपपत्तेः / एतदेवाह-रूपज्ञानसमनन्तरभाविनो रसज्ञानस्य तदनुपादानत्वे.-रूपज्ञानानुपादानत्वे,अनुपादानत्वप्रसङ्गात् / न तदपरं ज्ञानमुपादानम, न च-न भवति रूपज्ञानानन्तरं रसज्ञानमिति भावनीयम / किं वा तत्तथा-भावाभावे तस्य-रूपज्ञानस्य तथा रसज्ञानतथा भावाभावे, अन्वयानभ्युपगमेनात्यन्तासत एव भवतः, अरय-रसज्ञानस्य, उपादानचिन्तया, परमार्थतः सर्वत्रारात् सद् भवतीति कृत्वा? तत्तथाभावे च तस्य रूपज्ञानस्य तथाभावे च रसज्ञानभावे चाभ्युपगम्यमाने सति / किमित्याह- अनिवारितोऽन्वयः बलादापद्यत इत्यर्थः / एते नेत्यादि / एतेनानन्तरो दितेन, सदा सत्त्वोपलम्भः प्रत्युक्तः / कथमित्याह- तत्त्वतः-परमार्थतः, तस्यापि सदासत्त्वोपलम्भस्य, सादृश्यनिबन्धनत्वात् / यदि नामैवं ततः किमित्याह- तस्य च सादृश्यस्य, उक्तवद् यथोक्तम्- 'प्रतिनियतैकग्राहिज्ञानतत्ववादे' इत्यादि तथा ग्रहणायोगात्. आन्तरतद्विकल्पबीजस्य-असद्दर्शनवासनाख्यनित्यत्वादिविकल्यबीजस्य, अप्रमाणत्यात, नैतदग्राहक प्रमाणमस्ति; तथापि प्रमाणाभावेऽपि, तत्कल्पनायाश्वान्तरतद्विकल्पबीजकल्पनायाश्च, इतरत्रापि प्रक्रमादनित्यत्व भी, तुल्यत्वादियुक्तप्रायम्-प्रायेणोक्तम् 'आन्तरदोषसामात' इत्यादिना ग्रन्थेन। प्रकारान्तरेण पूर्वपक्षयन्नाहएवं प्रदीपप्रभोदाहरणं सर्वत्रगत्वादनुदाहरणमेव / न च दीपप्रभाया मण्यर्थेन प्रतिबन्धः, अस्ति च मणिप्रभायाः। न चैवमनित्येतरादिविकल्पानां केषांचिदेव वस्तुना प्रतिबन्धो नान्येषाम्, इति वैषम्यमपि दान्तिकेन / अयोनिशोमनस्कारपूर्वकत्वान्नित्यादिविल्पानां न वैषम्यमिति चेत् / न / अस्यापि तुल्यत्वात, अनित्यादिविकल्पानामप्येवंभूतभावस्य वक्तुं शक्यत्वात्, उभयत्र तन्नियामकत्वानुपपत्तेः, निबन्धनाविशेषादिति। अतः स्थितमेतत्-'अखिलविकल्पज्ञानभ्रान्ततावादिनश्च तत्सामोत्थं वचनमपि तादृगेव' इति दुःस्थिता तत्त्वनीतिः। पूर्वपक्षान्तरमधिकृत्याह-- एवमित्यादि / एवमुक्तनीत्या, प्रदीपप्रभोदाहरणं परप्रणीतं, सर्वत्रगत्यात् कारणाद् विपक्षेऽप्युपनयकरणेन, किमित्याह अनुदाहरणमेवा अभ्युच्चयमाह-नचेत्यादिना। नचदीपप्रभाया मण्यर्थेन सह प्रतिबन्धोऽस्ति, अस्ति च मणिप्रभाया इत्युभयसिद्धमेतत् / न चैवभनित्येतरादिविकल्पानामनित्यनित्यादिविकल्पानाम्, केषाशिटेवानित्यादिविकल्पानामेव, वस्तुना प्रतिबन्धो नान्येषां नित्यादिविकल्पानाम्, किं तर्हि? अविशेषेण, 'नान्येषां तद्भेदप्रसवे सत्यपि इत्यादिवचनात, इत्येवं, वैषम्यमपि. दार्शन्तिकेन। अयोनिशीमनस्कारपूर्वकत्वाद् नित्यादिविकल्पानां सर्वथा वस्तुशून्यत्वादित्यर्थः, न वैषम्य