________________ सामण्णविसेस 660 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस कल्पसंभवः?' इत्यादिना ग्रन्थेन / इतश्चैतद् न तत्तद्भावेऽपि वरतुनी विकल्पभावेऽपि, तन्निमित्तत्वाविशेषाद- वस्तुनिमित्तत्वाविशेषात्, नित्यादिविकल्पेभ्योऽपि सकाशात, तनिश्चितिसिद्धेर्वस्तुनिश्चितिसिद्धेः कारणात्। किमित्याह-वस्तुनस्तथात्वप्रसङ्गात्, नित्यत्वादिप्रसङ्गात् अनेकान्तापत्तेरिति, ननैतदेवमिति क्रिया। न चेत्यादि। न च न नित्यादिविकल्पानामपि, तत्पतिबन्धोवस्तुप्रतिबन्धः, किन्तु प्रतिबन्धा एव / कुत इत्याह-तेषामपि नित्यादिविकल्पानाम, तद्भदप्रसवाभ्युपगभादवस्तुभेदप्रसवाभ्युपगमात / अभ्युपगमश्च 'नान्येषाम, तद्भदप्रसवे सत्यपि' इत्याधुपन्यासात् प्राक् / तद्भेदप्रसवश्व कः? उच्यते-- अर्थभेदादुत्पादः स्वलक्षणादित्यर्थः / स चेत्यादि / स चानित्यादिविकल्पानाभिवामीषा नित्यादिविकल्पानाम्, तत इति वस्तुनः। तत्तस्मात्, कथं न तेभ्यो नित्यादिविकल्पेभ्यः, तनिश्चितिर्वस्तुनिश्चितिः? इति। ननूक्तमत्र 'यथादृष्टविशेषानुसरणं परित्यज्य किश्चित्सामान्यग्रहणेन विशेषान्तरसमारोपात्' इति / उक्तमिदम्, अयुक्तं तूक्तम्, इतस्त्राप्युक्तन्यायतुल्यत्वात्, 'अनित्यादिविकल्पानामपि नित्यादिरूपयथादृष्टविशेषनिश्चयपरित्यागेनावस्थाभेदग्रहणतो विशेषान्तरसमारोपेण प्रवृत्तेः' इत्यपि वक्तुं शक्यत्वात् / नित्यस्य भेदाभेदविकल्पद्वारेणावस्थाभेद एवायुक्त इति चेत् / न / ततस्तद्भेदाभेदविकल्पाप्रवृत्तेः, अवस्थानामुत्प्रेक्षितत्वात्, तथा-तत्त्वानामपि समचित्रनिम्नोन्नतसमारोपवत् तथासमारोपहेतुत्वाविरोधः, आन्तरदोषसाम ात्, तस्य चासद्दर्शनवासनारूपत्वात्, नित्यप्रमातुरपि तत्स्वभावत्वतोऽनित्यस्याभेदवासनावत् तथावासनोपपत्तेः / इतीतरत्राप्युक्तन्यायतुल्यत्वमिति। आह-ननूक्तमत्र प्राक् , 'यथादृष्ट विशेषानुसरणं परित्यज्य किशित्सामान्यग्रहणेन विशेषान्तरसमारोपाद् न तेभ्यस्तनिश्चितिः' इति / एतदाशङ्कयाह-- उक्तमिदम, अयुक्त तूक्तम् / कथमित्याहइतरत्रापि प्रक्रमाद्वस्त्वनित्यत्वादी, उक्तन्यायतुल्यल्वात् 'यथादृष्टविशेषानुसरणं परित्यज्य' इत्यादिरुक्तो न्यायः, अस्य तुल्यत्वात / तुल्यत्वमेवाह-- अनित्यादिविकल्पानामापीत्यादिना / तत्र 'यथा-- दृष्पविशेषानुसरणं परित्यज्य' इत्यादि भगवन्तरणाधिकृतपक्षविपक्षे यो जयति-अनित्यादिविकल्पानामधीति न के बलं नित्यादिविकल्पानाम, नित्यादिरूपयथादृष्टविशेषनिश्चयपरित्यागेन नित्यादिरूपस्य यथादृष्ट विशेषो नित्यादिरूपएक तनिश्चयपरित्यागेन / परित्यागश्यावस्थाभेदग्रहणलोऽवस्थाभेदग्रहणात् कारणात, विशेषान्तरसमारोपेणाभेदसमारोपेण, प्रवृत्तोरनित्यादिविका पानामपि। इत्यपि--एवमपि, वक्तुं शक्यत्वात, नात्र जिहा तर डोइरः / नित्य त्यादि / नित्यस्य वस्तुनः, भेदाभेदविकल्पद्वारेणएतन्नुखेनेत्यर्थः, अवस्थाभेद एवायुक्तोऽघटमानकः, तथाहितास्ततो भेदेन वा स्युः, अभेदेन वा? भेदे 'अस्यताः' इति कः संबन्धः? अभेदेऽवस्थातैवारसी, अवस्था वा, इति नित्यस्यावस्थाभेदाभाव इति चेत् / एतदाशजयाहनेत्यादि / न-नैतदेवम्, ततो नित्याद् वस्तुनः, तद्भेदाभेदविकल्पाप्रवृत्तेः--तासामवस्थानां भेदाभेदविकल्पाप्रवृत्तेः अप्रवृत्तिश्वावस्थानामुत्प्रेक्षितत्वात-अवस्तुत्वादित्यर्थः / तथातत्त्वानाम पेउत्प्रेक्षिततद्भावानामपि अवस्थानाम' इति प्रक्रमः, समचित्रनिम्नोन्नतसमारोपवदिति निदर्शनम्, समचित्रे निम्नोन्नतसमारोप इति विग्रहः तद्वत्,तथा समारोपो भेदसमारोपस्तद्धेतुत्वाविरोधस्तथातत्त्वानामप्यवस्थानामिति / कुत इत्याह- आन्तरदोषसामात् कारणात्, तस्य चान्तरदोषस्य, असद्दर्शनवासनारूपत्वात्-असद्दर्शनवासनाऽनित्यादिदर्शनवासना तद्रूपत्वात्, नित्यप्रमातुरपि तत्स्वभावत्वतोऽसद्दर्शनवासनास्वभावत्वेन, अनित्यस्य प्रमातुः, अभेदवासनावदिति निदर्शनम्, 'तत्स्वभावत्वतः' इति योज्यते, तथावासनोपपत्तेर्भेदप्रकारेण वासनोपपत्तेः / इति एवम्, इतस्त्रापि वस्त्वनित्यत्वादौ, उक्तन्यायतुल्यत्वमिति निगमननिदर्शनमेतत्। किञ्च-'यथादृष्टविशेषानुसरणं परित्यज्य, इत्यत्र' तथा दृष्टो नान्यथा' इत्यत्र न प्रमाणम् / प्रत्यक्षमेवात्र प्रमाणमिति चेत्। न तत्कस्यचित् निश्चायकम् / तथ्यमपि गृह्णाति न तन्निश्चयेन, किं तर्हि? तत्प्रतिभासेन / स चैवंभूत एव नान्यथेति ऋतेऽतीन्द्रियार्थदर्शितामतिशयश्रद्धां वा न विनिश्चयोपायः / न तदेव, संप्रमुग्धमूककल्पत्वात् / नानुमानम्, तथाविधलिङ्गासिद्धेः। न चान्यत्, अनभ्युपगमात् / अनित्यतादिरूपस्यैव वस्तुनि विद्यमानत्वात् स एवमूतो नान्यथेति चेत्। कुतस्तत्रास्यैव विद्यमानतासिद्धिः? इति वाच्यम् / तत्तथाप्रत्यक्षप्रतिभासादेवेति चेत् / सोऽयमितरेतराश्रयदोषोऽनिवारितप्रसरः / कथं वा तत्तत्प्रतिभासत्वे तन्नीलत्वादिवत्तदनिश्चयः? किञ्चित्सामान्यग्रहणेन विशेषान्तरसमारोपादिति चेत् / किमत्यन्तभेदिनां सामान्यम्? सदृशापरापरोत्पत्तिरिति चेत् / प्रतिनियतैकग्राहिज्ञानतत्त्ववादे कुतोऽस्याः खल्ववगमः? न हि कथञ्चिदेकस्यानेकग्राहिणो विज्ञानस्याभावे 'केनचित् सदृशोऽयम्' इति भवति, अतिप्रसङ्गात्, रूपग्रहणस्यापि रसग्रहणसदृशतापत्तेः। एवं च व्यवस्थानुपपत्तिः। नरूपज्ञानं रसज्ञानोपादानमतोऽयमदोष इति चेत् / न / न भवति, क्वचित्तथाभावोपपत्तेः, रूपज्ञानसमनन्तरभाविनो रसज्ञानस्य तदनुपादानत्वेऽनुपादानत्वप्रसङ्गात् / किं वा- तत्तथाभावाभावेऽत्यन्तासत एव भवतोऽस्योपादानचिन्तया? तत्तथाभावे चानिवारितोऽन्वयः। एतेन सदा सत्त्वोपलम्भः प्रत्युक्तः, तत्त्वतस्तस्यापि सादृ--