________________ सामण्णविसेस 686 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस जश्व समग्रेभ्यः सकाशात्, तद्भेदाभेदासिद्धेस्तस्याः सामाया भेदाभेदाभ्यामसिद्धेः, तत्त्वतः-परमार्थतः, समग्रमात्रत्वात् सामग्या इति। तदुपादानादिभेदेनतेषां समग्राणामुपादननिमित्तभेदेन, तद्भेदः- / सामग्रीभेदः तथाहि-रूपाऽऽलोकादिसामन्यामेकत्र रूपमुपादानमालोकादयो निमित्तम्, अपरत्रालोकादय उपादानं रूपं निमित्तमिति सामग्रीभेद इति चेत् / एतदाशङ्कयाह- नेत्यादि / न-नैतदेवम् / कुत इत्याह-तत्स्वभावभेदमन्तरेण तेषां समग्राणां स्वभावभेदमन्तरेण, तदसिद्धेः सामग्रीभेदासिद्धेः उक्तं च- "रूपं येन स्वभावेन, रूपोपादानकारणम्। निमित्तकारणं ज्ञाने, तत् तेनान्येनवा भवेत्?||१|| यदि तेनैव विज्ञान,बोधरूपंनयुज्यते। अथान्येन बालाद्प, द्विस्वभावं प्रसज्यते / / 2 / / इति / तद्भेदे च- स्वभावभेदे च, समाग्राणामनेकस्वभावताऽपराधो महानय-मेकान्तकस्वभाववादिनः / अन्यथेत्यादि। अन्यथैवमनभ्युपगमे, उभयोः समग्रयो रिति सामग्युपलक्षणम् / किमित्याह-तुल्यतापत्तेः कारणात्, तत्कार्ययोरपि रूपाऽऽलोकादिरूपयोः, तुल्यता / कुत इत्याह- सामस्त्येनोभयजननस्वभावात् / उभयादेक स्व-भावात् समग्रोभयात्, उभयप्रसूतेरुभयभावात् / तत्तथात्वेत्यादि। तस्याधिकृतस्वभावद्वयस्य तथात्वकल्पनायाभिन्नजातीयोभयजननकस्वभावत्वकल्पनायाः, तद्वैचित्र्यापादनेनाधिकृतस्वभावद्वयवैचित्र्यापादनेन हेतुना, अयोगात्; तथाहि-नाचित्रात् स्वभावद्वयाचित्रद्वयभावः, भवन्नपि द्वयभावोऽचित्रादेक-स्वभावतया तुल्य एव स्यादिति प्रपञ्चितमेतदन्यत्रानेकान्तसिद्धौ,नेह प्रतन्यते। इति एवं,परमले सहकरासिद्धेः कारणात्, अशोभनस्तदुपन्यासःसहकायुपन्यास इति परिचिन्यतामेतत्। भिन्नविकल्पसंभवाभावोऽपि न्यायतस्तदवस्थ एव, तदनुभवस्याने कशक्तिसहकारित्वविरोधात्, एकस्वभावत्वात्, तस्य चानित्याद्यन्यतमविकल्पशक्तिसहकारित्वतत्त्वात् : अन्यथा तदेकस्वभावत्वासिद्धेः / एकान्तकस्वभावत्वे च कथमस्य नित्यादिविकल्पशक्तिसहकारिभावः? इति चिन्त्यम्। न हि नीलविज्ञानजन्मसहकारिस्वभावं नीलं कदाचिद् रसा-- दिविज्ञानजन्मसहकारितां प्रतिपद्यते, तत्तत्त्वविरोधादिति। भिन्नविकल्पसंभवाभावोऽपि निमित्तान्तराभावेन पूर्वोक्तः, न्यायतस्तदवस्थ एव / कुत इत्याह- तदनुभवस्यप्रस्तुतस्वलक्षणानुभवस्य, अनकशक्तिसहकारित्वविरोधात् / विरोधश्चैकस्वभावत्वात् / तस्य चेकस्य स्वभावस्यानित्याद्यन्यतमविकल्पशक्तिसहकारित्वतत्त्वात सहकारित्वस्वभवत्वात्। अन्यथैवमनभ्युपगमे तदेकस्वभात्वासिद्धेःतस्यानुभवस्यैक स्वभावत्वासिद्धेश्चित्रशक्तिसहकारिभावेन एकान्तकविभावन्दे चकमस्यानुभवस्य नित्यादि विवल्पशक्तिसहकारिभावः? इति चिन्त्यम् नैवानित्यादिविकल्पशक्ति विहाय सहकारिभाव इत्यर्थः। / असुमेवार्थ निदर्शननाह-नहीत्यादिना। न यस्माद् नीलविज्ञानजन्म सहकारिस्वभावं नीलं कदाचित् रसादिविज्ञानजन्मसहकारिता प्रतिपद्यते। किं न प्रतिपद्यते? इत्याह-तत्तत्वविरोधात् तस्य नीलस्य नीलविज्ञानजन्मसहकारिस्वभावत्वं तत्त्व तद्विरोधादिति / अनेनानेकशक्तिसहकार्ये कस्वभावत्वकल्पना प्रत्युक्ता, अनेकगर्भस्य तस्यैकत्वायोगात्, अतिप्रसङ्गात,निबन्धनव्यवस्थाभावात्, विश्वस्यैकनिबन्धनतापत्तेः इति 'स्वलक्षणदर्शनाहितवासनाकृतविप्लवरूपाः सर्व एव विकल्पा:' इति वचनमात्रमेव। अनेनानेकशक्तिसहकार्यकस्वभावत्वकल्पना प्रत्युक्ता कथमित्याहअनेकगर्भस्य तस्य अधिकृतस्वभावस्य, एकत्वायोगात् / अनेकगर्भश्वानेकशक्तिसहकार्यकस्वभाव इति परिभावनीयम् / योगेऽप्यतिप्रसङ्गात् सर्वस्य सर्वसहकारिकल्पनया। ततश्च निबन्धनव्यवस्थाऽभावात् 'नेदमस्य करणम्' इति / व्यवस्थाभावे च विश्वस्यैकनिबन्धनतापत्तेः ‘अनेककार्यकरणकस्वभावत्वादेकस्य' इत्यपि वक्तु शक्यत्वात्। इति 'अनन्तरोदिता कल्पना प्रत्युक्ता' इति क्रियायोगः। इति-एवं 'स्वलक्षणदर्शनाहितवासनाकृतविप्लवरूपाः सर्व एव विकल्पाः' इति वचनमात्रमेव, अभिप्रेतार्थशून्यत्वादिति गर्भः। तत्प्रतिबद्धजन्मत्वासिद्धेश्व, तथाहि-कस्तेषां वस्तुना प्रतिबन्धः? इति वाच्यम् / न तादात्म्यम्,तद्देशादिभेदात् , अनभ्युपगमाचं / न तदुत्पत्तिः, तदसरूपत्वात्, तदनन्तराभावाच / पारम्पर्येण तत्तदुत्पत्तिरिति चेत्।न। विहितोत्तरत्वात्, तत्तद्भावेऽपि तन्निमित्तत्वाविशेषात् नित्यादिविकल्पेभ्योऽपि तनिश्चितिसिद्धेः, वस्तुनस्तथात्वप्रसङ्गात्, अनेकान्तापत्तेरिति। न च न नित्यादि-विकल्पानामपि तत्प्रतिबन्धः, तेषामपि तद्भेदप्रसवाभ्युपगमात्, 'नान्येषाम् तद्भेदप्रसवे सत्यपि' इत्याधुपन्यासात्। तद्भेदप्रसवश्वार्थभेदादुत्पादः। स चानित्यादिविकल्पानामिवामीषां तत इति / तत्कथं न तेभ्यस्तनिश्चितिः? इहैवोपपत्त्यन्तरमाह-तत्प्रतिबद्धजन्मत्वासिद्धेश्ववस्तुप्रतिबद्धजन्मत्वासिद्धेश्च 'विकल्पानाम्' इति प्रक्रमः / तथाहि इत्युपप्रदर्शने / करतेषामधिकृतविकल्पानां वस्तुना सह प्रतिबन्धः? इति वाच्यम् / न तादात्म्यं प्रतिबन्धः, तद्देशादिभेदाद्-वस्तुदेशादिभेदात्। आदिशब्दात्कालस्वभावादिग्रहः। अनभ्युपगमाच। न हि परेणापि वस्तुविकल्पयोस्तादात्म्यमभ्युपगम्यते। न तदुत्पत्तिः प्रतिबन्धः, विकल्पाना वस्तुना / कुत इत्याह तदसरूपत्वातवस्त्वसरूपत्वाद् विकल्पानाम् / उपपा - न्तरमाह-तदनन्तराभावाच्चवस्त्वनन्तरा-भावाच्च कारणादिति। पारम्: येण स्वलक्षणज्ञानव्यवधानजेन, तत्तदुत्पत्तिःतस्माद्वस्तुनो विकल्पोत्पत्तिरिति चेत् एतदाशड्क्याह-न, विहितोत्तरत्वात् परदर्शने निमित्तान्तराभावेन विहितोत्तरमेतत् 'कथं वा निर्विकल्पकत्वेनाभिन्ना भिन्नवि