________________ सामण्णविसेस 688 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस यंजननसमर्थस्वभावात् समगात, तत्सिद्धेस्तथाविधकार्य संसिद्धेः, अन्यथा तत्तत्स्वभावत्वानुपपत्तिरिति हृदयम्। द्वितीयपक्षे च-प्रत्येक ते न तथाविधकार्यजननसमर्थस्वभावा इत्यस्मिन / कि भित्याह-- अपेक्षायामपि सत्या,यसिद्धेः- विवक्षितकार्यासिद्धेः / असिद्धिच प्रत्येकमतत्स्वभावत्वात समग्राणाम। न हि प्रत्येक तैलाजननस्वभावाः सिकताणवः परस्परापेक्षयाऽपि तैल जनयन्ति, तदतत्स्वभावत्वविरोधादिति। तेषामत एव प्रत्येकत्वाभावादप्रत्येकत्वत एव तत्स्वभावत्वाददोष इति चेत् / न / अनेकतः सर्वथैकभवनासिद्धेः, तद्भिन्नस्वभावत्वात्,अन्यथाऽनेकत्वायोगात् / एवं चेतरेतरस्वभाववैकल्येन तत्रानुपयोगात्। तत्स्वभावविकलस्तद्रूपो न स्याद्,नातत्कार्य इति चेत् / न। तत्स्वभावविकलस्य तत्कार्यत्वविरोधात्,तजननैकस्वभावादेव ततस्तदुत्पत्तेः,अन्यतस्तदभावात्, तस्यापि तत्त्वेऽन्यत्वाभाव इति निरूप्यतां सम्यग, अन्यथा कार्यकत्वानुपपत्तिः, समगुस्यैव तस्योत्पत्ते:, अनेकजन्यत्वे च तदयोगात्, सर्वेषां तज्जनकत्वाद्, एकभाविनोऽपरभावासिद्धेः तद्वैयर्थ्यप्रसङ्गात्, समग्रजनकत्वेऽप्येकस्यापि जनकत्वाद्, अन्यथा समग्रजनक त्वविरोधाद्, भेदशस्तद्भावापत्तेः, अन्यतज्जनकत्वे च कुतस्तत्स्वभाववैकल्यम्? इति यत्किञ्चिदेतत् / तेषामित्यादि। तेषां समग्रोत्पन्नाना समग्राणाम; किमित्याह-अत एवं हेतोः, प्रत्येकत्वाभावात् कारणात्, अप्रत्येकत्वत एव--अप्रत्येकत्वेनैव समग्रतयेत्यर्थः, तत्स्वभावत्वात् तथाविधकार्यजननरामर्थरवभावत्वाददोष इति चेदनन्तरविकल्पयुगलकोपनीतः। एतदाशङ्कयाहनानेकेत्यादिना। ननैतदेवम्। कुत इत्याह-अनेकतोऽनेकेभ्यः समग्रेभ्यः, सर्वथैकभवनासिद्धेर्निरंशभवनासिद्धेरित्यर्थः / असिद्धिश्च तद्भिन्नस्वभावत्वात-तेषाभनेकेषां भिन्नस्वभावत्वात्। इत्थं चैतदङ्गीकर्तव्यमित्याह अन्यथा एवमनभ्युपगमेऽभिन्नस्वभावत्वादनेकत्वायोगात्। एवं चेत्यादि / एवं चानेकत्वे सति इतरेतरस्वभाववैकल्येन न य एवैकस्य स्वभावः स एवापरस्य, तदभेदप्रसङ्गादितीतरेतरस्वभाववैकल्य तन, तत्र सर्वथैकभवने, अनुपयोगाद् नानेकतः सर्वथैकभवनमिति / तत्स्वभावविकलस्तस्य विवक्षितस्य कस्यचित् तथाविधकार्यजननसमर्थस्य समगस्य स्वभावस्तत्स्वभावस्तेन विकलो रहितोऽपरः समग्र एव तत्स्वभावविकलः सः, तद्रूपोऽधिकृतसमग्रान्तररूपः, न स्याद्-न भवेत् तद्वैकल्येन, नातल्कार्यो न समग्रान्तराकार्यः, किन्तु तत्कार्य एव,रामग्रान्तरवत्, तस्यापि तज्जननस्वभावत्वादिति चेत् / एतदाश- | झ्याह- नेत्यादि / न-नैतदेवम् / कुत इत्याह--तत्स्वभावविकलरय विवक्षितसमग्रतथाविधकार्यजननसमर्थस्वभावविकलस्य समग्रान्त - रस्येति प्रक्रमः / किमित्याह-तत्कार्यत्वविराधात्-समग्रान्तरकार्यत्व विरोधात् / विरोधश्च तज्जननैकस्वभावादेवतथाविधकार्यजनकस्वभावादेव, ततः प्रथमसमग्रात, तदुत्पत्तेस्तथाविधकार्योत्पत्तेः, अन्यतः समगान्तरात्, तदभावादन्योत्पन्नकार्थाभावात्,तत एवोत्पन्न तदिति किमन्यस्मादुत्पादेन? सोऽपि तज्जननस्वभाव इत्येवं तज्जनयतीत्याशङ्कानिरासायाह-तस्यापि अन्यस्य समग्रान्तरस्य, तत्त्वे तजननैकस्वभावत्वे / किमित्याह.- अन्यत्वाभावः तत्स्वभावस्य तत्त्वादिति निरूप्यतां सम्यक् / अन्यथैवमनभ्युपगमे, किमित्याह-कार्यकत्वानुपपत्तिः। कुत इत्याह-समग्रस्यैव-अखण्डस्यैव, तस्य कार्यस्योत्पत्तेः / यदि नाभव ततः किमित्याह- अनेकजन्यत्वे 8 सति कार्यस्य, तदयोगात्-समग्रोत्पत्त्ययोगात्। अयोगश्च सर्वेषां समग्राणां तज्जनकत्वाद्विवक्षितैककार्यजनकत्वात्। किमेव न समग्रोत्पत्तिरित्याह-एकभाविनः इति, एकरमाद् भवितुं शीलमस्येत्येकभावि कार्य गृह्यते तस्य, किमित्याह-अपरस्मादभावोऽपरभावः, भवन भाव उत्पादः,तदसिद्धः / असिद्धिश्च तद्वैयर्थ्यप्रसङ्गादपरवैयर्थ्यप्रसङ्गात्। नैको जनकः समग्रा एव जनका इत्यसद्ग्रहव्यपोहायाह- समग्रजनकत्वेऽपि साते, किमित्याहएकस्यापि जनकत्वात् / इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा एवगनभ्युपगमे, समग्रजनकत्वविरोधात्, नैकाद्यभावे सामन्यमिति भावनीयम् / यदि नामैवं ततः किमित्याह- भेदशः भेदैः, तद्भावापत्तेःकार्यभावापत्तेः, न तत्रैकोऽप्यजनकः, न चाशजनक इति कृत्वा / अथान्योऽपि तदेव जनयति यदेकेन जनितमित्यत्राह- अन्यतजनकत्वे च अन्यस्यापि समग्रस्य तज्जनकत्वे समग्रान्तरजनकत्वं चाभ्युपगम्यमाने / किमित्याह- कुतस्तत्स्वभाववैकल्यं समग्रान्तरस्वभाववैकल्यम्? नैव, तजन्यजनकत्वान्यथानुपपत्तेः उक्त - "उत्पद्यते यदेकरमा दनशं नान्यतोऽपि तत् / समग्रभावे सामग्या, नैक कार्य सुनीतितः / / 1 / / " इति यत् किञ्चिदेतत्-'तत्स्वभावविकलस्तद्रूपो न स्याद् नातत्कार्यः, इति। हेतुभेदात् फलभेद इति चापन्यायः। तथा च सत्ययमेव खलु भेदो भेदहेतुर्वा भावानां यदुत विरुद्धधर्माध्यासः कारणभेदश्वेत्युक्तिमात्रम्, भावार्थशून्यत्वात् , सामग्रययोगात्, समग्रेभ्यस्तद्भेदाभेदासिद्धेः, तत्त्वतः समग्रमात्रत्वात् / तदुपादानादिभेदेन तद्भेद इति चेत् / ना तत्स्वभावभेदमन्तरेण तद-- सिद्धेः, तद्भेदे चानेकस्वभावतापराधः, अन्यथोभयोस्तुल्यतापत्तेस्तत्कार्ययोरपि तुल्यता, सामस्त्येनोभयजननस्वभावादुभयादुभयप्रसूतेः,तत्तथात्वकल्पनायास्तद्वैचित्र्यापादनेनायोगात् / इति प्रपञ्चितमेतदन्यत्र, नेह प्रतन्यते इति परमते सहकारार्थासिद्धेरशोभनस्तदुपन्यास इति परिचिन्त्यतामेतत्। दोपान्तरमाह-हेतुभेदात् सकाशात् फलभेद इति चापन्यायः, तथानेकैकभावेन। तथा च सति 'अयमेव खलु भेदो भेदहेतुर्वा भावानां, यदुतविरुद्धधर्माध्यासो भेदः, कारणभेदश्च भेदहेतुः, इत्युक्तिमात्रम् / कुत इत्याह- भावार्थशून्यत्वात्। भावार्थशून्यत्वं च सामग्ययोगात् / अयोग