________________ सामण्णविसेस 686 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस सलाम. सन् स्वरावित्तिभेदक इत्येतद् वाच्यम् ? न तत्त्वत इति चेत् स्वसांयेत्तिभेदकः एतदाशङ्कयाह-उत्सन्नो विकल्पः अविशिष्टस्वसंविनिमात्रभावेन / अस्त्विति चेद विकल्पाभावः / एतदाशङ्कयाहप्रतीत्यादिबाधा, आदिशब्दाद-भावेतरभेदबाधाग्रहः। चेतनैवतथाभूता विशिष्टा विकल्प इति चेत / एतदाशङ्कयाह- किं भूता तथाभूतेति चिन्त्यम्? असदाकारा असन्नाकारो यस्याः सा तथेति चेत्। एतदाश याह-अस्वलक्षणमेवेयं चेतना, असदाकारत्वात्ानस्वसंवित्तिरतत्र चेतनायामस्वलक्षणम्, अपितु बहिर्मुखावभास एवास्वलक्षणमिति चेत् / एतदाशङ्कयाह- न खलु नैव सा चेतना स्वसंवित्तिस्ततो बहिर्मुखावभासादन्येति समानं पूर्वेण 'कथं नास्वलक्षणम्, इत्यादिनोक्तेन। इत्येव यदि मानसं कथं स्व-लक्षणादस्वलक्षणजन्म साधीयः--शोभनतरम्?नैवेत्यर्थः / कथं वेत्यादि / कथं वा निर्विकल्पकत्वेनाभिन्नाद् मानसाद भिन्नविकल्पसंभवो विकल्पकत्वेन / कथं च न स्यादित्याह-न हि नीलादिमात्राद्वस्तुनोऽन्यरहितात् क्वचिद् रसादिभावः। आदिशब्दादगन्धादिग्रहः / कथं न रसादिभाव इत्याह- तथाऽदर्शनात् / न चात्र मानसाद् विकल्पजन्मनि किञ्चिद् भेदकमस्ति।कुत इत्याह- अनभ्युपगमात् / अभ्युपगमेऽपि सति भेदकस्य वासनादेः, ततो भेदकादतिशयासिद्धेरिति निवेदयिष्याम ऊर्ध्वम् / गतो मानसपक्षः। विकल्पान्तरेणाहअथान्यैव काचित् / काऽसाविति वाच्यम्? अनादिमदालयगतशक्तेः स्वलक्षणदर्शनसहकारिभावतो विशेषकरणम्, तथाहि-सा तदनुभवं प्राप्याक्षेपेण तथाविधविकल्पजननस्वभावोपजायत इति स्वलक्षणदर्शनाहितेत्युच्यते। अत एव न भिन्नविकल्पसम्भवाभावः, तथाविधशक्तिसहकारित्वेन तदनुभवस्य तदविरोधादिति / एतदपि यत्किश्चित्,तस्य तत्सहकारित्वासिद्धेः, ततस्तस्या उपकाराभावात्, अनुपकार्योपकारकयोश्च सहकारित्वायोगात्। द्विविधो हि वः सहकारार्थः परम्परातिशयाधानेन सन्ताने विशिष्टक्षणोत्पादनलक्षणः,पूर्वस्वहेतोरेव समग्रोत्पन्नैककार्यक्रियालक्षणश्च / न चानयोरेकोऽपि सम्भवति, क्षणिकत्वेन परस्परातिशयाधानायोगात् / अतिशय उपकार इत्यनर्थान्तरम् / न चासावन्यतोऽन्यस्य, विकल्पायोगात्। द्वितीयं विकल्पमधिकृत्याह- अथान्यैव काचित् तथाविधविकल्पजननशक्तिः। एतदुररीकृत्याह-काऽसाविति वाच्यम् ? अनादिमती चासावालयगतशक्तिश्चेति विग्रहः, तस्याः स्वलक्षणदर्शनसहकारिभावतः-प्रवृत्तिविज्ञानसहकारिभावत इत्यर्थः, विशेषकरणमतिशयकरणं सा / एतदेव भावयतितथाहीत्यादिना / तथाहि- साऽनादिगदालयगतशक्तिस्तदनुभवं प्राप्यस्वलक्षणदर्शनमारााद्य, अक्षेपेणाव्यवधानेन, तथाविधविकल्पजननस्वभावा-अनित्यादिविकल्पजननस्वभावोपजायत इति कृत्वा स्वलक्षणदर्शनाहितेत्युच्यते / अत एव __ कारणात् न भिन्न विकल्पसंभवाभावः, किंतर्हि? संभव एव। कुत इत्याहतथाविधशक्ति-सहकारित्वेन हेतुना तदनुभवस्यस्वलक्षणानुभवस्य प्रवृत्तिविज्ञानस्येत्यर्थः तदविरोधादिति प्रक्रमाद् भिन्न विकल्पसंभवाविरोधात् शक्तिरस्योपादानमित्यभिप्राय इति। एतदाशङ्काह-एतदपि यत किञ्चित् / कथभित्याह- तस्य स्वलक्षणानुभवस्य तत्सहकारित्वासिद्धः-प्रस्तुतशक्तिसहकारित्वासिद्धेः / असिद्धिच ततोऽधिकृतानुभवात्। तस्याः शक्तेः, किमित्याह-उपकाराभावात्। यदि नामैवं ततः किमित्याह- अनुपकार्योपकारकयोश्च भावयोः सहकारित्वायोगात्। एनमेवाह-द्विविधो हि वो-युष्माकं सहकारार्थः / द्वैविध्यमाहपरस्परातिशयाधानेन क्षणपरम्परया संताने प्रबन्धे विशिष्टक्षणोत्पादनलक्षणो विवक्षित-कार्ययोग्यताकारीत्यर्थः, तथा पूर्वस्वहेतोरेवोपादानादेः रागोत्पन्नैककार्यक्रियालक्षणश्च समग्रोत्पन्नानामेककार्यक्रियाऽन्त्यानां विवक्षितकार्योत्पत्तिः सैव लक्षणं यस्य सहकारार्थस्य स तथेति समासः / न चेत्यादि / न चानयोः- सहकारार्थयोरेकोऽपि संभवति / कुत इत्याह-क्षणिकत्वेन हेतुना परस्परातिशयाधानायोगात्। एतदेव भावयति-अतिशय उपकार इत्यनान्तरम् / न चासावतिशयोऽन्यतः सकाशादन्यस्य / कथं नेत्याह- विकल्पाऽयोगात्। तदनुभवो हि तच्छक्तेरनुत्पन्नायाः, उत्पन्नायाः, निरुद्धाया एव वोपकुर्यात् ? न तावदनुत्पन्नायाः, तस्या एवासत्त्वात्, असतश्चोपकाराकरणात् / नाप्युत्पन्नायाः, तस्या अनाधेयातिशयत्वात्, क्षणादूर्ध्वमनवस्थितेः / द्वाभ्यामप्येकीभूय तदन्यकरणमेवातिशयाधानम्, तदेव चोपकार इति चेत् / न, उपादानकारणविशेषाधानमन्तरेण ततः कार्यविशेषासिद्धेः। न चैककालभाविनाऽन्यतो भवन्त्या अन्यत एव भवता तस्या अतिशयाधानम्, तन्निबन्धनस्य तत्कृतविशेषासिद्धेः। तदभ्युपगमे च तत्राप्ययमेव वृत्तान्तः, एवं निबन्धनपरम्परायामपि वाच्यम्, इत्यत्राणं निबन्धनपरम्परा। एनमेवाह-तदनुभवो हीत्यादिना। तदनुभवोऽधिकृतस्वलक्षणानुभवो यस्माच्छक्तेरनादिमदालयगतशक्तेरनुत्पन्नाया उत्पन्नाया निरुद्धाया एव वोपकुर्यादिति संभविनो विकल्पाः / न तावदनुत्पन्नाया उपकरोति तदनुभवः / कुत इत्याह- तस्या एव शक्तेरसत्त्वात् / न चासावनुत्पन्नाऽस्ति / यदि नामैवं ततः किमित्याह-असतश्च सामान्येनोपकाराकरणात् / नाप्युत्पन्नाया उपकरोति तदनुभवः / कुत इत्याह- तस्या उत्पन्नाया निष्पन्नत्वेनानाधेया-तिशयत्वात्। एतच्च क्षणादूर्ध्वमनवस्थितेः कारणात् / द्वाभ्यामपि शक्त्यनुभवा भ्यामेकीभूय तदन्यकरणमेव विशिष्टशक्तिकरणमेवातिशयाधानम्, तदेवचान्यकरणमुपकार इति चेत्। एतदाश-क्याह-नेत्यादि। न नेतदेवम्। कुत इति युक्तिमाह-उपादानकारणविशेषाधानमन्तरेण इह तावदधिकृतशक्तिविशेषाधानं विना, ततो विवक्षितानुभवात्, कार्यविशेषासिद्धेः प्रस्तुतविकल्पकार्यभेदासिद्धेरिन्यर्थः / न