________________ सामण्णविसेस 685 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस नामिव / तन्न तेषामिवैकस्य बहूनां वाऽनन्तरं पारम्पर्येण वा | तथाविधफलभेदोऽमीषां न्याय्य इति भाव्यमेतत् / का चेयं तथाविधविकल्पजननशक्तिः , किं तदुत्तरं मानसम्, उतान्यैव काचित्? यदि मानसम्, कथं स्वलक्षणादस्वलक्षणजन्म? अस्वलक्षणं च विकल्पः, असदाकाररूपत्वात् / न स्वसंवित्तिस्तत्रास्वलक्षणम्, अपि तु बहिर्मुखावभास एवेति चेत् / न खलु साततोऽन्या, इति कथं नास्वलक्षणम्? असन्नसौ, सा तु सती,स्वसंविदितत्वादेवेति चेत् / कथमसौतन्मात्रतत्त्वा विकल्प इति चिन्त्यम्? असदाकारानुवेधादिति चेत् / कथमसताऽनुवेधो नाम? स निर्विषयत्वादसत्, न तु तथाप्रतिभासेनेति चेत् / न स्वसंवित्तिस्तथाप्रतिभासनादन्या,इत्यस्वलक्षणत्वमेव / एवं पूर्वपक्षनाशङ्कयाह- एतदपि-असत्-अशोभनम् / कुत इत्याहअविचारितरमणीयत्वात् कारणात् / एतदेवाह-तत्या-दिना / तत्र यतावदुक्तमादौ 'स्वलक्षणदर्शनाहितवासनाकृत-विप्लवरूपाः सर्व एव विकल्पाः' इति एतत् / अत्र किमिदं स्वलक्षणदर्शनं नाम? का वा तदाहिता-स्वलक्षणदर्शनाहिता वासना, यत्कृतविप्लवरूपाः सर्व एव विकल्पा इति ? अवाह वस्त्वनुभवः शुद्धः स्वलक्षणदर्शनम्, तदाहितवासना तु तथाविध-विकल्पजननशक्तिः, तथाविधस्य संवादिनोऽसंवादिनश्च / एत-दाशङ्कयाह-यद्येवम्, कथं निरंशवस्तुविषया निरंशानुभवात्तथाविधविकल्पजननशक्तीनां प्रभूतानां संभवः सामान्येन? कथं वैकस्या एव शक्तेरनेकविकल्पजन्म? को वा किमाह? न चैत–देवम, इत्याशङ्कानिरासायाह-समुत्पद्यन्ते च स्वलक्षणदर्शनानन्तरं नित्यानित्यादिविकल्पाः क्रमेणैकस्य प्रभातुः सांख्यादेबों - द्धादिमतप्रतिपत्त्या, अक्र मेण चानेकप्रमातृणां सौख्यबौद्धादीनां नित्यानित्यादिविकल्पाः। शक्तिभेदश्चैकानेकजनकत्वं चेति विग्रहः, ते चैते, एते विना, क्रमाक्रमपक्षद्वयेऽपीति। एतदेवाह-न चेत्यादि। न च भूयसामपि क्रमपक्षे / केषामित्याह-निरंशवस्तु-विषयनिरंशानुभवानां तुल्यस्वलक्ष्णानुभवानामित्यर्थः / किमि-त्याह- तत्त्वतः-परमार्थेनः तत्त्वे-तद्भाः रुपादिस्वलक्षणानुभवत्व इत्यर्थः,विशेषो भेदः। कि तर्हि? सर्व एवैते-रूपादिस्वलक्षणानु-भवा एवेति / इहैव निदर्शनमाहरूपादिस्वलक्षणानामिव 'एकस्य प्रमातुः' इति प्रक्रमः, तथाविधानुभवनिबन्धनानामिति,तथाहि-क मेणापि रूपादिस्वलक्षणानि स्वाकारमनुभवं कुर्वाणानि न रूपा-दिस्यलक्षणत्वेन विशिष्यन्त इति। प्रकृतयोजनामाहतत्- तस्माद न तेषामिव-रूपादिस्वलक्षणानामिय 'एकस्य प्रमातुः, इति प्रक्रमः, बहूनां वा प्रमाणामनन्तरं बहूना पारम्पर्येण वैकस्य तथाविधफलभेदो भिन्नजातीयविज्ञानादिकार्यभेदो मीषा निरंशवस्तुविषयनिरंशानुभवाना न्याय्य इति भाव्यमेतद्-भावनीयमेतत् / एतदुक्तं भवति-यथा तेषां रूपादि- स्वलक्षणानां न रसादिफलभेदो न्याय्यः, एवमनित्याऽनात्मकवस्त्वनुभवानामपि न नित्याऽऽत्मादिविकल्पजननशक्त्याख्यः फलभेदो न्याय्यः / इहैवाभ्युचयमाह- का चेयमित्यादिना / का चेयं तथाविधविकल्पजननशक्तिर्भवतोऽभिप्रेता? किं तदुत्तरं प्रक्रमादविकल्पप्रत्यक्षोत्तरं मानस स्वविषयानन्तरेत्यादिलक्षणम्, उतान्यैव काचिदालयगता? उभयथापि दोषमाह-यदि मानसम्, कथं स्वलक्षणाद् मानसात् स्वलक्षणजन्म विकल्पोत्पादः? विकल्पास्व-लक्षणत्वमाह-- अस्वलक्षणं च विकल्पो भवन्नीत्या। कुत इत्याह-असदाकाररूपत्वात्असदाकारो विकल्पबुद्धिप्रतिभासोऽस्व-लक्षणत्वाभ्युपगमात् स एव रूपं यरय रा तथा तद्धावस्तस्मात् न स्वसंवित्तिरतत्र विकल्पेऽस्वलक्षणम्, अपि तु बहिर्मुखावभास एवास्वलक्षणमिति चेत् / एतदाशड्क्याह-न खलु सा स्वरावित्तिस्ततो बहिर्मुखावभासादन्या, इत्येवं कथं नास्वलक्षणम्?-अस्वलक्षणमेव / असन्नसौ बहिर्मुखावभासः, सा तु स्वसंवित्तिः सतीविद्यमाना, स्वसंविदितत्वादेव कारणादिति चेत् / एतदाशइक्याह-कथमसौ स्वसंवित्तिस्तन्मात्रत्त्यास्वसंवित्तिमात्रतदावा विकल्प इति चिन्त्यम्, न तत्र स्वलक्षणातिरिक्तोंऽश इति कृत्वा / असदाकारानुवेधाद-सौविकल्प इति चेत्। एतदाशड्क्याह-कथमसता आकारणानुवेधो नाम स्वसंविदः?-नैवेत्यर्थः / स आकारो निर्विषयत्वात् कारणादसंस्तुच्छः, न तु तथाप्रतिभासनेन-न पुनर्बहिर्मुखावभासप्रतिभासनेनासन्निति चेत् / एतदाशड्क्याह- न स्वसंवित्तिरधिकता तथाप्रतिभासनाद् बहिर्मुखावभासप्रतिभासनादन्याऽर्थान्तरभूतेति कृत्वाऽस्वलक्षणत्वमेव स्वसंविदः। . तस्य विभ्रमरूपत्वात् नदन्याऽनन्यत्वकल्पनैवायुक्तेति चेत्। कोऽयं विभ्रम इति कथनीयम्? अनिरूप्यस्वरूपस्तत्त्वतोऽसद्रूप इति चेत् / कथमयं स्वसंवित्तिभेदक इति वाच्यम् ? न तत्त्वत इति चेत् / उत्सन्नो विकल्पः / अस्त्विति चेत् / प्रतीत्यादिबाधा / चेतनैव तथाभूता विकल्प इति चेत् / किं भूतेति चिन्त्यम्? असदाकारेति चेत् / अस्वलक्षणमेवेयम्, असदाकारत्वात्।नस्वसंवित्तिस्तत्रा-स्वलक्षणम् अपितु बहि-- र्मुखावभास एवेति चेत् / न खलु सा ततोऽन्येति समानं पूर्वेण, इति यदि मानसं कथं स्वलक्षणाद-स्वलक्षणजन्म साधीयः? इति। कथं वा निर्विकल्पकत्वेनाभिन्नात् भिन्नविकल्पसस्भवः? हि नीलादिमात्रात् क्वचिद्रसादिभावः तथाऽदर्शनात् / न चात्र किश्चिद्भेदकम्, अनभ्युपगसात् / अभ्युपगमेऽपि ततोऽतिशयासिद्धेरिति निवेदयिष्यामः। तस्य बहिर्मुखावभासप्रतिभास्य विभ्रमरूपत्वात्कारणात् तदन्याऽन्यत्वकल्पनैव तथा स्वसंवित्याऽन्यानन्यत्वकल्पनैवायुक्तेति चेत् / एतदाशङ्कयाह- कोऽयं विभ्रमो यद्रूपत्वादन्याऽनन्यत्वकल्पनाऽयोग इति कथनीयम? अनिरूप्यं स्वरूपं यस्य वैतथ्येन स तथा तत्त्वतः परमार्थतोऽसद्रूप इति चेत् / एतदाशङ्कयाह-कथमयं विभमोऽ