________________ सामण्णविसेस 684 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस भावाभ्युपगमाद- उपलब्धिलक्षणप्राप्तार्थविषयत्वाभावाभ्युपगमात् / एतद्भावनायैवाह- नहि साधारण रूपं विकल्पग्राहामुपलब्धिक्षण - प्राप्तमिष्यते भवद्भिः / कुत इत्याह- तदवस्तुत्वप्रतिज्ञानात- तस्य साधारणरूपस्यावस्तुत्वप्रतिज्ञानात्, अनीदृशा-नुपलब्धेश्चानुपलब्धिलक्षणप्राप्तानुपलब्धेश्च / किमित्याह-अभावनिश्चाय-कत्वानुपपत्तेः तथाभ्युपगमात्। एतेनेत्यादि। एतेन-अनन्तरोदितेन तथाविधग्राह्याभावे प्रमाणाभावेन। किमित्याह-तद्बाधकप्रमाणप्रवृत्तिः-प्रत्युक्ता तस्भिस्तथाविधग्राह्य बाधकप्रमाणप्रवृत्तिनिराकृता / कुत इत्याहउक्तवत् यथोवतं तथा प्रत्यक्षादेः प्रत्यक्षानुमानद्वयस्य तद्बाधकत्वायोगात- तथाविधग्राह्यबाधकः / त्वायोगात् / युक्त्या तदयोगस्तथाविधग्राह्यायोगः साधारणरूपयोग इत्यर्थः 'बाधक इति चेत्। एतदाशड्याह-न, विकल्पानुपपत्तेः / अनुपपत्तिश्चयुक्तिर्हि प्रमाणमप्रमाण वा स्यात्? किशातः? उभयथापि दोष इत्याह-प्रमाणं चेत् / न प्रत्यक्षादेरन्यदिति, अत्र चोक्तो दोषः, प्रत्यक्षस्य स्वलक्षणविषयत्वेन ताप्रवृत्तरित्यादिः 1 अप्रमाणत्वे तुयुक्तेः, किमित्याह-- तदाधकत्वानुपपत्तिः-तथाविधग्राह्यबाधकत्वानुपपत्तिः। कुत इत्याह-अतिप्रसड़ात् स्वलक्षणस्यापि युक्तिबाधितत्वोपपत्तेः, अविषयेऽपीयं प्रवर्तत इति भावना / एवं विकल्पज्ञानस्यापि कस्यचित् प्रामाण्यमङ्गीकर्तव्य'मत्यदंपर्यम्। इत्थमनभ्युपगमे दोषमाहअखिलविकल्पज्ञानभ्रान्ततावादिनश्च तत्सामोत्थं वचनमपि तादृगे वेति सुस्थिता तत्तत्त्वनीतिः / न हि भ्रान्तमात्मनो भ्रान्ततामवैति,द्विचन्द्रज्ञानादावात्मनि भ्रान्तताधिगमव्यपोहेन चन्द्रद्वयाद्यधिगतिदर्शनात्, तत्स्थानोपजातवचसोऽपि स्वभान्तताभिधानपरित्यागेन चन्द्रद्रयाद्यभिधानात्, इति सकलमेव शास्त्रज्ञानाभिधानं भ्रान्तिमात्रम्, इति कथं ततस्तत्त्वनिश्चय इनि चिन्त्यम्? तथाहि अस्य नित्याऽऽत्मादिविकल्पवत् कृतकृत्वादिलिङ्ग द्वारायाता अनित्याऽनात्मादिविकल्पा अपि भ्रान्ता एव,इति कथं तेभ्यस्तनिश्चितिः? निश्चितौ वा कथं न नित्यादावपि,तद्रिकल्पानामपि ततो भावात् ? अखिलविकल्पज्ञानभ्रान्ततावादिनञ्च किमित्याह-तत्सामोत्थंनिःशेषविकल्पज्ञानभ्रान्ततासामर्थ्यात्थं वचनमपि तादृगेवभ्रान्तमेव, इति-एवं सुस्थिता तत्तत्त्वनीतिस्ताभ्यां भ्रान्तविकल्पज्ञानवचनाभ्या तत्त्वनीतिरित्युपहसति, न सुस्थिते-त्यर्थः / कथमित्याह- न ही यादि। न यस्मात भ्रान्तं ज्ञानमिति प्रकमः, आत्मनो भ्रान्ततामवैति / कुत इत्याह-द्विचन्द्रज्ञानादौ आदिशब्दान्-मायाजलज्ञानग्रहः, आत्मनिस्वरूपे भ्रान्तताधिगमव्यपोहेन चन्द्रद्वयाद्यधिगतिदर्शनात, आदि- | शब्दान्-मायाजलग्रहः, तत्स्थामोपजातवचसोऽपिभ्रान्तज्ञानसामर्थ्योपजात-वचनस्यापि स्वभ्रान्तताभिधानपरित्यागेन चन्द्रद्वयाद्यभिधानात, इत्येवं सकलमेव शास्त्रज्ञानाभिधानं भ्रान्तिमात्रमिति करवा / कथं ततः शास्त्रज्ञानाभिधानात् तत्त्वनिश्चयइति चिन्त्यम ? नैव तत्त्वनिश्चय इति / एतद्भावनायैवाह- तथाहीत्यादि / तथावस्याखिलविकल्पज्ञानभान्ततावादिनो नित्याऽऽत्मादिविकल्पवदिति निदर्शनम्, कृतकत्वादिलिङ्ग द्वारायाताऽनित्याऽनात्मादिविकल्पा अपि भ्रान्ता एव नाभ्रान्ताः, इत्येवं कथं तेभ्यो भ्रान्तविकल्पेभ्यस्तनिश्चितिरनित्याऽनात्मादिनिश्चितिः? निश्चितौ वा तेभ्योऽनित्याऽनात्मादेः कथं न नित्यादावपि निश्चिताः? कुत इत्याह-तद्रिकल्पानामपिनित्यात्मादिविकल्पानामपि ततो वस्तुनो भावात्। स्यादेत्स्वलक्षणदर्शनाहितवासनाकृतविप्लवरूपाः सर्व एव विकल्पाः,तथापि केषाञ्चिदेव तत्प्रतिबद्धजन्मनां विकल्पानामतत्प्रतिभासित्वेऽपि वस्तुन्यविसंवादः,मणिप्रभायामिव मणिभ्रान्तेः, नान्येषाम, तद्भेदप्रसवे सत्यपि यथादृष्टविशेषानुसरणं परित्यज्य किञ्चित्सामान्यग्रहणेन विशेषान्तरसमारोपात, दीपप्रभायामिव मणिबुद्धेः, इति संवादिभ्य एव तन्नि-- श्चितिनसिंवादिभ्यः। स्यादेतदित्यादि। स्यादेतदथैवं मन्यसे-स्वलक्षणदर्शननाहिता या वासना तया कृतं विप्लवरूपं येषां ते तथाविधाः सर्व एव विकल्पाः सामान्येन, तथाप्येवमपि व्यवस्थिते सति केषाशिदेगनित्याऽनात्मादिरूपाणां तत्प्रतिबद्धजन्मनावस्तुप्रतिबद्धजन्मनां विकल्पानामतत्प्रतिभासित्वेऽपिवस्त्वप्रतिभासित्वेऽपीत्यर्थः, किमित्याहवस्तुन्यनिसंवादः / निदर्शनमाह- मणिप्रभायामिव विषयभूतायां मणिभ्रान्तः कुक्षिकादिविवरोपलम्भेन, नान्येषां नित्याऽऽत्मादिविकल्पानाम्, तद्भेदप्रसवे सत्यपि वस्तुभेदादुत्पादे सत्यपीत्यर्थः, यथादृष्टविशेषानुसरणं परित्यज्य, कथमित्याह-- किञ्चित्सामान्यग्रहणेन सदृशापरा परहेतुना विशेषान्तरसमारोपाद् हेतोः, 'नान्येषाम्' इति वर्तत / निदर्शनमाह-दीपप्रभायामिव विषयभूतायां मणिबुद्धेः कुञ्चिकादिविवरोपलम्भनेव, इत्येवं संवादिभ्य एव विकल्पभ्यस्तनिश्चितिरभिप्रेततत्त्वनिश्चिति संवादिभ्यः। इत्थं पूर्वपक्षमाशङ्कयन्नाह-- एतदप्यसत्,अविचारितरमणीयत्वात् / तत्र यत्तावदुक्तम् 'स्वलक्षणदर्शनाहितवासनाकृतविप्लवरूपाः सर्व एव विकल्पाः' इति / अत्र किमिदं स्वलक्षणदर्शनं नाम? का वा तदाहिता वासना, यत्कृतविप्लवरूपाः? सर्व एव विकल्पाः इति / वस्त्वनुभवः स्वलक्षणदर्शनम्, तदाहितवासना तु तथाविधविकल्पजनन-शक्तिः ? यद्येवम् ,कथं निरंशवस्तुविषयात् निरंशानुभवात् तथा-विधविकल्पजननशक्तीनां प्रभूतानां सम्भवः? कथं वैकस्या एवा-नेकविकल्पजन्म? समुत्पद्यन्ते च स्वलक्षणदर्शनानन्तरं नित्याऽनित्यादिविकल्पाः, क्रमेणैकस्य, अक्र मेण चाने क प्रमातुणाम् न चैते शक्तिभेदैकानेकजनकत्वे विना। न च भूयसामपि निरंशवस्तुविषयनिरंशानु-भवानां तत्त्वतस्तत्त्वे विशेषः, रूपादिस्वलक्षणा