________________ सामण्णविसेस 683 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस शून्यत्वेऽपि सनि, तत्तथाताऽभ्युपगमे--विकल्पस्य तदाहित्वाभ्युपगम अतिप्रसङ्गात. अतिप्रसङ्गश्व नीलविकल्पस्य पीतग्राहित्वाऽऽपत्तः / नारसी पारम्पर्येण अपि तज्जन्यः इत्याशङ्काऽपोहाय आह- तत्तजनकत्या- | ऽविशेषात, तस्य पीतस्य नीलविकल्पजनकत्वाऽविशेषात्। एतदभावनाय एव आह - उपलब्धपीतनीलद्रष्टुरपि प्रमातुः, तावात नीलविकल्पभावात,तदपि अयुक्तमिति स्थितम्।। न च गृहीतग्राहि ज्ञानमप्रमाणमेव,एकत्र नीलादौ अनेकप्रमा-- | तृज्ञानानां प्रमाणत्वाऽभ्युपगमात्, तेषां चान्योऽन्यं गृहीतग्राहित्वात्, अन्यथा तद्ग्रहणानुपपत्तेः, तथा अगृहीतग्राहिज्ञानाऽसम्भवात् सर्ववस्तूनां सर्वबुद्धस्सदा ग्रहणात्, तेषां सर्वज्ञत्वादन्यथा तत्तत्त्वायोगात्, एकसन्न्तानाऽपेक्षया च गृहीतग्राहिज्ञानाऽसम्भव एव, सर्वेषां सर्वदा अगृहीतग्रहणादिति। दूषणान्तरमाह- नत्र इत्यादिना / न च गृहीतग्राहि ज्ञानमप्रमाणभेव एकान्तेन भक्तः। कुत इत्याह एकत्र नीलादी अनकप्रमादज्ञानानां प्रमाणत्वाऽभ्युपगमात परेणापि, तेषां च अधिकृतज्ञानानाम् अन्योऽन्य परस्परं गृहीतग्राहित्वात / इत्थं च एतदङ्गीकर्तव्यमित्याह अन्यथा तद्ग्रहणाऽनुपपत्तेः-अधिकृतनीलादिग्रहणाऽनुपपत्तेः / तथा इत्यादि। तथा अगृहीर-ग्राहिज्ञानाऽराभवात , असंभवश्च सर्ववस्तूनां नीलादीनाम्, सर्वबुद्धैः सदा ग्रहणात्, ग्रहणं च तेषां बुद्धानां सर्वज्ञत्वादिति,अन्यथा तत्तत्त्वाऽयोग त-तेषः सर्वज्ञत्वाऽयोगात्। एकसन्तानत्यादि। एकसन्तानाऽपेक्षया अवगृहीतग्रहिज्ञानासंभव एव तस्य अर्थस्य च क्षणिकत्यात, सर्वेषां ज्ञानानाम, सर्वदासर्वकालम, अगृहीतप्रणातद्वयोरपि क्षणिकत्येन इति,यद्वा तदभावे भावात अभिधानमात्र ग्रहणमिति अग्रहीतग्रहणमिति। स्यादेतद्, न तत्त्वतो गृहीतग्राहित्वेन अस्य अप्रामाण्यम्, अपि तु अविषयत्वेन इति / कथमयमविषय इति वाच्यम्? यदनेन वेद्यते न तदस्तीति चेत्, व तन्नास्तीति? किं तत्रैव उच्यते, उताहो बहिरिति? यदि तत्रैव कथं वेद्यते,वेद्यमानं वा कथं न तत्रेति चिन्त्यम्? अथ बहिः, अविकल्पके ऽपि समानः प्रसङ्गः,तेनाऽपि वेद्यमानस्य बहिरभावात् स्वरूपस्यैव वेदनात्। तदहिस्थतुल्य-रूपमित्यदोष इति चेद्, केयं तत्तुल्यरूपतेति वाच्यम् ? किं तत्साधारणरूपभावः? उताहो तत्तद्ग्रहणस्वभावता इति / न तावत् साधारणरूपभावः, चेतनाऽचेतनत्वेन तद्वैलक्षण्यसिद्धेः, सामान्यवेदनेन तदप्रामाण्यप्रसङ्गाच / तत्तद्ग्रहणस्वभावतातदङ्गीकरणे च विकल्पज्ञानेऽपि तुल्यः परिहारः, तस्यापि तद्ग्रहणस्वभावताऽभ्युपगमात्। तथाविधग्राह्याभावादस्य कुतस्तद्ग्रहणस्वभावतेति चेत्। न, तथाविधग्राह्यभाये प्रमाणाभावात्, प्रत्यक्षस्य स्वलक्षणविषयत्वेन तत्राप्रवृत्तेः, अनुमानस्याप्युपलब्धिलक्षणप्राप्तार्थविषयत्वात् तस्य च तदभावाभ्युपगमात् / न हि साधारणं रूपमुपलब्धिलक्षणप्राप्तमिष्यते भवद्भिः, तदवस्तुत्वप्रतिज्ञानात्, अनीदृशानुपलब्धेश्वाभावनिश्चायकत्वानुपपत्तेः / एतेन तदाधकप्रमाणप्रवृत्तिः प्रत्युक्ता, उक्तवत्प्रत्यक्षादेस्तद्वाधकत्वायोगान् / युक्त्या, तदयोगो बाधक इति चेत् / न / विकल्पानुपपत्तेः / युक्तिर्हि प्रमाणमप्रमाणं वा स्यात्? प्रमाणं चेत् / न प्रत्यक्षादेरन्यदिति, अत्र चोक्तो दोषः। अप्रमाणत्वे तु तदाधकत्वानुपपत्तिः, अतिप्रसङ्गात्। स्यादतद् न त त्यता गृहीतग्राहित्वेन हेतुना, अस्य विकल्पस्याप्रामाण्यम्, अपित्वविषयत्वेनेति। एतदाशङ्कयाह-कथमयं विकल्पोऽविषय इति वाच्यम्? यदनेन वेद्यते विकल्पेन नतदस्तीति अविषय इति चेत। एतदाशड्क्याह-क्वतद् नास्ति यदनेन वेद्यते, किं तत्रैव विकल्पे, उत बहिरिति? यदि तत्रैव विकल्प एव नास्ति. कथं तेन वेद्यते? वेद्यमानं या कथं न तत्र विकल्पे इति चिन्त्यम्। द्वितीयं विकल्पमधिकृत्याहअथ बहिः यदनेन वेद्यते न तदस्तीति। एतदाशड्क्याह-अविकल्पकेऽपि समानः प्रसङ्गोऽविषयत्व-प्रसङ्गः कथमित्याह तेनापि अविकल्पकेन वेद्यमानस्य बहिर-भावात्; अभावश्च स्वरूपस्यैव वेदनात्। तदित्यादि। तदविकल्पकं वेद्यमानबह:- स्थतुल्यरूपं विषयतुल्यरूपम् , इत्यस्माददाप इति चेत् / एतदाशङ्कयाह- केयं तत्तुल्यरूपता बहिःस्थतुल्यरूपता? इति वाच्यम् / किं तत्साधारणरूपभावो बहिःस्थसामान्यरूपभादोऽविकल्पकस्य, उत तद्ग्रहणस्वभावताबहिः स्थग्रहणस्वभावतेति? किश्चातः? उभयथाऽपि दोषः तथा चाह-- न तावत् साधारणरूपभावः तत्तुल्यरूपता। कुतइत्याह-चेतना-चेतनत्वेन हेतुना तद्वैलक्षण्यसिद्धेः तयोरविकल्पक-बहिःस्थयो_लक्षण्यसिद्धेः। दोषान्तरगाह- सामान्यवेदनेन हेतुना साधारणरूपभावतः तदप्रामाण्यप्रसङ्गाच्च अविकल्पकस्याप्रामाण्यप्रसङ्गाच्चनतत्साधारणरूपभावस्ततुल्यरूपतेति। तत्तद्ग्रहणस्वभावतातदङ्गीकरणे चतस्याविकल्पकस्य तद्ग्रहास्वभावताबहिः स्थग्रहणस्वभाभावता तस्यास्तदङ्गीकरणं-तत्तुल्यरूपताङ्गीकरणमिति विग्रहः, तस्मिन् / किम् ? इत्याह- विकल्पज्ञानेऽपि तुल्यः परिहारः तत्तदहिःस्थतुल्यरूपमित्ययम् / कुतः? इत्याहतस्यापि विकल्पज्ञानस्य तद्ग्रहणस्वभावताभ्युपगमात्-बहि:स्थग्रहणस्वभावताभ्युपगमात् / तथाविधेत्यादि / तथाविधग्राह्याभावात्... विकल्पज्ञानग्राह्याभावादस्यविकल्पज्ञानस्य कुतस्तद्ग्रहणस्वभावता-बहिःस्थग्रहणस्वभावतेति चेत्। एतदाशङ्कयाह-न, तथाविधग्राह्याभावेविकल्पज्ञानग्राह्याभावे प्रमाणाभावात् / अभावश्व प्रत्यक्षस्य तावत् स्वलक्षणविषयत्वेन हेतुना तत्र तथाविधग्राह्याभावेप्रवृत्तेः, अनुमानस्याप्यनुपलब्धि रूपस्योपलब्धिलक्षणप्राप्तार्थविषयत्वात / ततः किम्? इत्याह- तस्य तथाविधग्राह्यस्य तद