________________ सामण्णविसेस 682 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस कात्मकत्वाद् भेदाभेदभावात्, तथास्वभावत्वाद्विरोधाऽनुपपत्तेः, प्रतीतिसिद्धत्वाद् बाधाभावादिति / सद्रव्याद्यनेकस्वभावे वस्तुनि वस्तुमात्रग्राहि एव अवग्रहकल्पमविकल्पकमङ्गीकर्तव्यम्, अन्यथा उक्तदोषाऽनतिवृत्तिः। एवंभूते च अस्मिन् आवयोरविवाद एव, एवं विधाऽवग्रहस्य अस्माभिरप्यभ्युपगमत्वात्, न च अत्र कश्चिद्दोषः, अपि तु शुक्तिकादौ अपि क्वचिद् रजतादिनिश्चयस्यन्यायत एव आपत्त्या गुणः,तस्य हि अवग्रहोत्तरकालमीहाप्रवृत्तस्य तथाविधसमानधर्मोपलब्धुरेव असत्क्षयोपशमभावतो भावाद्, अन्यथा उक्तवत् तदयोगादिति। नचेति-नच एतेभ्यः सन्मृद्रपाकारेभ्यः, अन्य एवघटः एकान्तेन। कुत इत्याह-अग्रहणप्रसङ्गाद्घटस्य, प्रसङ्गश्व अरूपाद्यात्मकत्वात, एतच सन्मृद्पाकारेभ्योऽन्यत्वाऽभ्युपगमेन, उपन्यासश्च एवम.. चक्षुर्गहणाउनुगुण्येना तत्तवृत्तौअपि इत्यादि। तेषां सन्मृद्पाऽऽकाराणां तस्मिन घट वृत्तौ अपि सामान्यद्रव्यगुणाना यथासंभवंतवृत्त्यभ्युपगमेन द्रव्यवृत्तो कारणद्रव्येषुस एव वर्तते इति कृत्वा! किमित्याह-तत्तद्रूपताऽनापत्तेःतस्य घटस्य तद्पताऽनापत्तेः सन्मृद्पाऽऽकाररूपताऽनुपपत्तः / इत्थमपि इत्यादि / इत्थमपि-एवमपि तत्तद्पताऽनापती अपि, तद्ग्रहणेघटग्रहणे अभ्युपगम्यमाने। किमित्याह-- इन्द्रियाणा स्वधर्माऽतिक्रमः-स्वमर्यादापरित्यागः, कथमतिक्रमः इति चेत? एतदाशङ्कचाह-चक्षुरादेः आदिशब्दात्त्वगिन्द्रियग्रहः, अरूपादिग्रहणाद्, घटादिग्रहणाद् इत्यर्थः / एवमपि को दोष इति चेत्? द्विविधं हि द्रव्यम्दार्शन, स्पार्शन च / रूपादिप्रतीतेः तदामित्वेन तदवसानत्वाद इत्यभिप्रायः / एतदाशड्क्याह-- ननु रसादिग्रहणाऽऽपत्तिः रसादेरपि घटवद् अरूपादित्वात् सार्वेन्द्रियं च एवं द्रव्यं प्राप्नाति, रसादिप्रतीतेरपि तगामित्वेन तदवसानत्वाद् इति भावनीयम् / प्रतीतिबाधिता इयं रसादिग्रहणाऽऽपत्तिः इति चेत् / एतदाशड्-क्याह-तदतिरिक्तद्ग्रहे प्रक्रमाद्पादिव्यतिरिक्तघटग्रहे का प्रतीतिः? ननु किमनया? नतेभ्यो रूपादिभ्यः एकत्वबुद्धिः, अनेकत्वाद् अमीषामिति चेत् / एतदाशड्- | क्याऽऽह- ततः किमिति वाच्यम्? किमपि,अत्राऽस्ति च इयमेकत्वबुद्धिरिति चेत् / एतदा-शक्याह- न खलु अस्यामेकत्वबुद्धी विगानम्,यः कश्चित्: एतन्निमित्तम्--एतस्या एकत्वबुद्धः आलम्बनम्, (स) स इति स घटः,तेभ्यो रूपादिभ्योऽन्य इति चेत् / एतदाशड्क्याहसंख्यायाः एकसंख्यायाः, एकत्वबुद्धिनिमित्तत्वेन तद्भावप्रसङ्ग:घटभाव--प्रसङ्गः, न सा संख्या, तदनाश्रिताघटाऽनाश्रिते इति चेत्। एतदाशड्क्याह-- एवमपि तदाश्रितत्वेऽपि, तत्त्वतः-परमार्थेन, अन्या एव सन्मृद्पाऽऽकारेभ्य इति / यदि नामैव ततः किमिति चैत / एतदाशड्क्याह- तन्निमित्तासदादिभिन्नसंख्यानिमित्ता एकत्वबुद्धिः, सा | संख्या, तद्विशेषणभूता प्रस्तुता एकाऽवयवविशेषणभूता, इति चेत् / एतदाशड्वयाह-कथमेतद् विनिश्चीयते यदुत सा तद्विशेषणभूता इति? एकोऽयमिति व्यवसायाद् इति, चेद् विनिश्चीयते इति। एतदाशक्याहनाऽसौ व्यवसायः, सदादिभिन्नप्रतिभासी इति / कुत इत्याह- तथा सदादिभिन्न प्रतिभासित्वेन अननुभवात, एवमपि तथा अननुभवेऽपि, तत्कल्पनेसदादिभिन्नाऽवयविकल्पने अतिप्रसङ्गात् अतिप्रसङ्गश्च तदन्त-रापत्तेः-तत्रैव अवयव्यन्तरापत्तेः आपत्तिश्च निराकरणाऽयोगात् तदन्तरस्य, अयोगश्च अननुभवाऽविशेषाद् द्वयोरपि इति, इत्येवं तदेकत्वपरिणामनिबन्धन एव अयं प्रक्रमात् सन्मृद्रव्याऽऽकारैकत्वपरिणामनिबन्धन एवायम्, एकोऽयमिति व्यवसायः। तेषामेव सदादीनामेकाऽनेकत्मकत्वात्, एतच्च भेदाऽभेदभावात्, अयं च तथास्वभावत्वात्, तथास्वभावत्वे व विरोधाऽनुपपत्तेः अनुपपत्तिश्च प्रतीतिसिद्धत्वात् / नहि प्रतीतिरेव सिद्धौ निमित्तमित्याशङ्काऽपोहाय आहबाधाभावादिति तदेकत्वपरिणामनिबन्धन एव अयम्, इति एवं सद्दव्याघनेकस्वभावे वस्तुनि। किमित्याह-- वस्तुमात्रग्राहि एव अवग्रहकल्पमविकल्पकमगीकर्तव्यम् / किमित्याह-अन्यथा उक्तदोषाऽनतिवृत्तिः, उक्तदोषाः "न्यायाऽनुभवविरोधाद्' इत्येवमादयः तदनतिवृत्तिः, एवं भूते च अस्मिन् अविकल्पके। किमित्याह-आवयोः-तव ममच, अविवाद एव। कुत इत्याह-एवंविधाऽवग्रहस्य अविकल्पकस्य अस्माभिः अभ्युपगतत्वात, न चाऽत्र अभ्युपगमे कश्चिद् दोषः, अपि तु शुक्तिकादौ अपि,आदिशब्दाद मरीचिकाग्रहः, वचिद् रजतादिनिश्चयस्य आदिशब्दाद जलनिश्चयग्रहः, न्यायत एव आपत्त्या गुणः / न्यायत एव आपत्तिमाह- तस्य इत्यादिना / तस्य हि शुक्तिकादौ रजतादिनिश्चयस्य, अवग्रहोत्तरकालमीहाप्रवृत्तस्य सतः / कस्य इत्याहतथाविधसमानधर्मोपलब्धुरेव शुक्तिकादिरजतादिसमानधर्मोपलब्धुरेव प्रमातुर्नान्यस्य, असत्क्षयोपशमभावतः-असत्क्षयोपशमभावेन भावात्, अन्यथा एवमनुभ्युपगमे, उक्तवत्यथोक्तम्- "शुक्तिकाया अपि अक्षज्ञानेन नीलादिवत् तत्त्वेन एव ग्रहणाद्" इत्यादि तथा अयोगाद् इति। यच्च उच्यते- "गृहीतग्राहित्वाद्विकल्पोऽप्रमाणम्" इति, एतदपि अयुक्तम् / स्वमतविरोधात्,निर्विकल्पक ज्ञानेन स्वलक्षणस्य गृहीतत्वाद्विकल्पस्य तद्ग्राहित्वानुपपत्तेः, तत्प्रतिभासशून्यत्वात्, एवमपि तत्तथाताऽभ्युपगमे अतिप्रसङ्गात्, नीलविकल्पस्य पीतग्राहित्वापत्तेः पारम्पर्येण तत्तजनकत्वाविशेषात्,उपलब्धपीतनीलद्रष्टुरपि तद्भावादिति। यच्च उच्यत परैः- "गृहीतग्राहित्वाद् विकल्पः अप्रमाणम्' इति एतदपि अयुक्तम् / कथमित्याह- स्वमतविरोधाद, विराधश्च निर्विकल्पकज्ञानेन स्वलक्षणस्य गृहीतत्वात, विकल्पस्यतग्राहित्याऽनुपपत्तेः- स्वलक्षणग्राहित्वाऽनुपपत्तेः, अनुपपत्तिश्च लत्प्रतिभासशून्यत्वात, स्वलक्षणाऽऽकारशून्यत्वादित्यर्थः / एवमपि तत्प्रतिभास