________________ सामण्णविसेस 681 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस चेत्, सत्यमेतत्, किन्तु तन्मात्रमपि न भवतीति / तथाs, प्रतीतेनिश्चयाऽनुभवेन अविगानत एव एकत्र सन्मृदूपाऽऽकारवेदनात, सन्मात्राद् एव एतदनुपपत्तेरतिप्रसङ्गात्, रूपमात्राद् रूपरसादिनिश्चयापत्तेः / न च सत्त्वाऽऽकारयोरपि अभेद एव, अनेकदोषप्रसङ्गात्, तथाहि-घटसत्त्वं तावद् एकं तस्य मृदूपाद्यत्मकत्वे एकत्यहानिः, तदनभ्युपगमे प्रतीतिबाधा / तथा एकत्वेऽपि कस्य असौ आकार इति वाच्यम्? न रूपसत्त्वस्य, त्वगिन्द्रियेणाऽपि ग्रहणात्, तस्य च रूपाऽविषयत्वात् तथाऽप्रतीतेः, तत्सत्त्वस्य च तत्वात् न स्पर्शसत्त्वस्य,चक्षुषाऽपि उपलब्धेः स्पर्शात् तत्सत्त्वभेदप्रसङ्गात् रूपेऽपि अनुगमोपपत्तेः, अन्यथा अनुभवविरोधात्, न च उभयसत्त्वस्य तदेकत्वाऽयोगात् इन्द्रियसङ्करप्रसङ्गात, लोकविरोधापत्तेः असमञ्जसत्वादिति। न च तयोराकारयोर्भे द एव तथा प्रतीत्यभावात्, तत्त्वत उभयाऽयोगात् तत्सत्त्वैकत्वक्षतेः, तथा च अभ्युपगमविरोधादिति। तथा तद्रत्याद्यनेकस्वभावता च वस्तुना-न्यायत एक्च्यवस्थिता। कममित्याह- तशाऽनुभवसिद्धत्वात् अवग्रहादिप्रकारेण अनुभवसिद्धत्यादिति। कि हि सत्त्वाद् अन्यद्अर्थान्तरमूलं, द्रव्यत्वादि इति चेत्? एतदाशङ्कयाह-प्रतीतमेतद्द्यत्तस्मिन-सत्त्वे, गृहीतेऽपिसति कथंचिद व गृहाते इति नैवविध किञ्चिद्यत्तस्मिन् गृहीतऽपि कथञ्चिद्न गृह्यत इति. तद् अगच्छाम इति चेत् / एतदाशङ्कयाह-किं न भवति भवतः क्वचिद्घटा दीवस्तुनि, सन्मात्रग्रहे सति, अन्य ग्रहोवस्त्वन्तराऽग्रहः? किं तवस्तु, यद भयः पुनः -सन्मात्रग्रहोत्तरकाल गृह्यत इति चेत् / एतादशड्क्याऽऽह- ननु इति-अक्षमायाम, बालादिसिद्धं तदनुविद्वमेव-स-मात्राऽनुविद्वमेव विशिष्ट मृद्पादि, न तद मृदूपादि, तत्सत्त्वतः- सन्मात्रसत्त्वाद्, अन्यद् एव इति चेत् / एतदाशङ्कयाहसत्यमेतद्, अन्यद् एव न किन्तु तन्मात्रमपिसन्मात्रमपि न भवति। कुत इत्याह-तथा-सन्मात्रत्वेन अप्रतीतः, अप्रतीतिश्व निश्चयाऽनुभवेन अवग्रहो तरकालम, अविगानतः अविगानेन एव, एकत्र वस्तुनि / किमित्याह- सन्मृदूपाऽऽकारवेदनात् / यदि नामैवं ततः किमित्याह-- सन्मात्राद् एव एकस्वभावात, एतदनुपपत्तेः -सन्मृद्-रूपाकारवेदनाऽनुपपत्तः अनुपपत्तिश्च अतिप्रसङ्गात्, अतिप्रसङ्गश्च रूपमात्रात सकाशत्, रूपरसादिनिश्चयापत्तेः सन्मात्राद् इव विजातीयनिश्वयन्यायन इहेवदोषान्तरमधिकृत्य आह.न चेत्यादि न च सत्त्वाऽऽकारयोः अपि इह अधिकृतयोः, अभेद एव एकान्तन / कुत इत्याह--अनेकदोषप्रसङ्गात् / एनमेव आह -तथाहि इत्यादिना / तथाहि- ''घटसत्त्वं तावद एक निरंश स्वलक्षणम्' इत्यविचारितरमणीयेन भवदभ्युपगमन, तस्य मृदपाद्यात्मकत्वे सकललोकाऽनुभवसिद्ध अभ्युपगम्यमाने एकत्वाहानिः मृदादिशाबल्येन, तदनभ्युपगमे मृद्रूपाद्यात्मकत्वाऽनभ्युपगमे, प्रतीतिबाधा मृदुपादिप्रतीतेः, तथा एकत्वेऽपि सत्त्वाऽऽकारयोरिति प्रक्रमः, कस्य असो आकारः रूपादिसत्त्वाऽपेक्षया इति वाच्यम् ? किश्च अतः? सर्वधा अणि दोष इत्याह-नरूपसत्त्वस्य असौ आकारः / कुत इत्याहत्वगिन्द्रिोण अपि ग्रहणात कारणात् / यद्येव ततः किमित्याह-तस्य च त्वगिन्द्रियस्य रूपाऽविषयत्वात्, अविषयत्वं च तथा त्वगिन्द्रियरय रूपविषयत्वेन अप्रतीतेः, तत्सत्त्वस्य च रूपसत्त्वस्य च, तत्त्वात् रूपत्वात्, एवं न स्पर्शसत्त्वस्य असौ आकार इति गम्यते। कुत इत्याहचक्षुषा अपि उपलब्धेः कारणात्। ततः किमित्याह-स्पर्शात् सकाशात्, तत्सत्त्वभेद-प्रसङ्गात् स्पर्शसत्त्वभेदप्रसङ्गात्, प्रसङ्गश्च रूपे अपि अनुगमोपपतेः। इत्थं च एतत् इत्याह- अन्यथा एवमनभ्युपगमे अनुभवविरोधात, चक्षुषा तदुपलब्धिरिति अनुभवः,नच उभयसत्त्वस्य रूपस्पर्शसत्त्वस्य, असौ आकार इति प्रक्रमः। कुत इत्याह-तदेकत्वाऽयोगात, तस्य आकारस्य एकत्वाऽयोगात्, उभयाऽव्यतिरेकेण योगे अपि इन्द्रियसंकरप्रसङ्गात् विषयसाङ्कर्ये ण, संकरे च लोकविरोधाऽऽपत्तेः, एवमसमञ्जसत्वादिति ! न च इत्यादि। न च तयोराकारयोः चक्षुरत्वग्गाह्ययोः, भेद एव एकान्तेन / कुत इत्याह तथा भेदगर्भतया, प्रतीत्यभावात स्पर्शनात् अपि 'सोऽयं यो दृष्टः' इत्यवगमात्, तथा तत्त्वतः उभयाऽयोगात् तदभ्युपगमेन तथा च आह-तत्सत्त्चैकत्वक्षतेः घटसत्चैकत्वक्षतरित्यर्थः, तथा च एवं च,अभ्युपगमविरोधात वस्तुनोऽनेकस्वभावत्वाऽऽपत्त्या न च तयोराकारयोः भेद एव इति स्थितम् / एवं बौद्धमतवक्तव्यतामधिकृत्य एतत् उक्तम्। . अधुना वैशेषिकमतमुररीकृत्य आहन च एतेभ्योऽन्य एव घटः, अवग्रहणप्रसङ्गात् अरूपाद्यात्मकत्वात्, तत्तवृत्तौ अपि तत्तद्प ताऽनापत्तेः, इत्थमपि तद्--- ग्रहणे इन्द्रियाणां स्वधर्माऽतिक्रमात्। कथमतिक्रम इति चेत्? चक्षुरादेररूपादिग्रहणात् / एवमपि को दोष इति चेत्? ननु रसादिग्रहणापत्तिः, प्रतीतिबाधिता इयमिति चेत्, तदतिरि-- क्ततद्गृहे का प्रतीतिः? न तेभ्य एकत्वबुद्धिरिति चेत्, ततः किमिति वाच्यम्? अस्ति इयमिति चेत्, न खलु अस्यां विगानम्, य एतन्निमित्तः (स) स तेभ्योऽन्य इति चेत्, संख्यायाः तद्भावप्रसङ्गः। न सा तदनाश्रिता इति चेत्, एवमपि तत्त्वतोऽन्या एव / यदि नामैवं ततः किमिति चेत्? तन्निमित्तैकबुद्धिः सा तद्विशेषणभूता इति चेत्, कथमेतत् विनिसीयत इति ? एकोऽयमिति व्यवसायादिति चेत्, न असौ सदादिभिन्नप्रतिभासीति तथाऽननुभवात् / एवमपि तत्कल्पनेऽतिप्रसङ्गात् तदन्तरापत्ते निराकरणाऽयोगात, अननुभवाऽविशेषादिति तदेकत्वपरिणामनिबन्धन एव अयम् / तेषामेव एकाउने