________________ संखडि 47 - अभिधानराजेन्द्रः - भाग 7 संखडि ध्ये उपाश्रयस्य बहिर्वा हरितानि छित्त्वा छित्त्वा विदार्य विदार्य उपाश्रयं संस्कुर्यात, संस्तारकं वा संस्तारयेत, गृहस्थश्वानेनाभिसन्धानेन संस्कुर्यात्। यथैव-साधुः शय्यायाःसंस्कारे विधातव्ये विलुंगयामा त्तिनिर्गन्थ: अकिञ्चन इत्ययः स गृहस्थः कारणे संयतो वा स्वयमेव / संस्कारयेदित्युपसंहरति, तस्मात् तथाप्रकाराम् अनेकदोषदुष्टां संखडिं विज्ञाय सा पुनःसंखडिः पश्चात्संखड़ियं भवेत्, जातनामकरणविवाहाऽऽदिकापुरःसंखडिः, तथा मृतकसंखडि:-पश्चात्संखडिरिति, यदिवा-पुरः- अग्रतः-संखडिर्भविप्यति अतोऽनागतमेव यायात, / वसति रा गृहस्थः संस्फुर्यात्, वृत्ता वा संखडिरतोऽत्र तच्छेषोपभोगाय साधवः समागच्छेयुरिति / सर्वथा रार्वा संखडिं सखडिप्रतिज्ञया नोऽभिसंधारयेत्-न पर्यालोचयेगगनक्रियामिति, एवं तस्य भिक्षोः सामग्यसम्पूर्णता भिक्षुभावस्य यत्सर्वथा संखडिवर्जनमिति / आचा०२ श्रु० 1 चू०१ अ०२ उ०। अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके दोषसम्भवात्संखडिगमन निषिद्ध प्रकारान्तरेणाऽपि तद्गतानेव दोषानाह से एगइओ अन्नयरं संखडिं आसित्ता पिबित्ता छड्डिज वा वमिज्ज वा भुत्ते वा से नो सम्मं परिणामिज्जा अन्नयरे वा से दुक्खे रोगायके समुप्पजिज्जा, केवली बूयाआयाणमेयं / (सू०१४) इह खलु मिक्खू गाहावईहिं वा गाहावइणीहिं या परिवायएहिं वा परिवाइयाहिं वा एगज्जं सद्धिं सुंड पाउं भो वइमिस्सं हुरत्था वा उवस्सयं पडिले हेमाणो नो लभिज्जा तमेव उवस्सयं सम्मिस्सीभावमावजिज्जा, अन्नमणे वा से मत्ते विप्परियासियभूए इस्थिविग्गहे वा किलीबे वा तं भिक्खुं उवसंकमित्तु बूयाआउसंतो समणा ! अहे आरामंसि वा अहे उवस्सयंसि वा राओ वा वियाले वा गामधम्मनियंतियं कटु रहस्सियं मेहुणधम्मपरियारणाए आउट्टाभो, तं चेवेगईओ सातिजिजा, अकरणिज्जं चेयं संखाए एए आयाणा (आयतणाणि)संति संविजमाणा पच्चवाया भवंति, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडि संखडिपडियाए नो अभिसंधारिज्जा गमणाए। (सू०-१५) स भिक्षुः एकदा-कदाचिद् एकचरो वा अन्यतराम-काश्चित्पुरः संखडिं पश्चात्सखडि वा संखडिमिति संखडिभक्तम् आस्वाद्यभुक्त्वा तथा पीत्वा शिखरिणीदुग्धादि तच्चातिलोलुपतया रसगृझ्याऽऽहारितं सत् 'छड्डेज वा' छर्दिविदध्यात, कदाचिच्चापरिणतं तद्विशूचिकां कुर्यात्, अन्यतरो वा रोग:-कुष्ठादिकः आतङ्कस्त्वा-शुजीवितापहारी शूसादिकः समुत्पद्येत, केवली-सर्वज्ञो ब्रूयात्, यथा एतत् संखडीभक्तम् आदान-कर्मोपादान वर्तत इति / यथै-लदादानं भवति तथा दर्शयति- 'इहेति' संखडिस्थाने स्मिन् वा भवेऽमी अपायाः, आमुष्मिकास्तु दुर्गतिगमनादयः, खलुशब्दो वाक्यालङ्कारे, भिक्षधशीलो भिक्षुः स गृहपतिभिस्तद्भार्याभिर्वा परिव्राजकैः परिवाजिकाभिर्वा सार्द्धमेकद्यम्-एकवाक्यतया सम्प्रधार्य भो-इल्यामन्त्रणे एतानामन्त्र्य चैतद्दर्शयति-संखडिगतस्य लोलुपतया सर्व संभाव्यत इत्यतस्तैर्व्यतिमिश्र 'सुंड' ति सीधुम् अन्यद्वा प्रसन्नादिकं पातुं पीत्वा ततः 'हुरवत्था वा' बहिर्वा निर्गत्योपाश्रयं याचेत,यदा च प्रत्युपेक्षमाणो विवक्षितमुपाश्रयं न लभेत ततस्तमेवोपाश्रयं यत्राऽसौ संखडिस्तत्राऽन्यत्र वा गृहस्थपरिवजिकादि-भिर्मिश्रीभावमापद्येत। तत्र चासावन्यमना मत्तो गृहस्थादिको विपर्यासीभूत आत्मानं न स्मरति, स वा भिक्षुरात्मानं न स्मरेत, अस्मरणाच्चैवं चिन्तयेद्-यथाऽहं गृहस्थ एव, यदिवा-स्वीविग्रहेशरीरे विपर्यासीभूतः-अध्युपपन्नः क्लीये वा नपुंसके वा। सा च स्त्री नपुंसको वा तं-भिक्षुम् उपसंक्रम्यआसन्नीभूय ब्रूयात्, तद्यथा-आयुष्मन् ! श्रमण ! त्वया सहैकान्तमहं प्रार्थयामि, तद्यथाआरामे वोपाश्रये वा,कालतश्च रात्रौ वा विकाले वा, तं भिक्षु ग्रामधर्म :विषयोपभोगगतैर्व्यापार-नियन्त्रितं कृत्वा, तद्यथा-मम त्वया विप्रियं न विधेयं, प्रत्यहमहमनु-सर्पणीयेति, एवमादिभिर्नियम्य ग्रामासन्ने वा कुत्रचिद्रहसि मिथुन-दाम्पत्यं तत्र भवं मैथुनम्-अब्रह्मेति तस्य धर्माःतद्रता व्यापारास्तेषां 'परियारणा' आसेवना तया 'अउट्टामो' त्तिप्रवर्तीमहे / इदमुक्तं भवति-साधुमुद्दिश्य रहसि मैथुनप्रार्थना काचि(कुर्यात, तां चैकः कश्चिदेकाकी वा 'साइजेज' त्ति अभ्युपगच्छेत्. अकरणीयमेतद एवं संख्यायज्ञात्वा संखडिगमनं न कुर्याद्। यस्मादेतानि आयतनानि कर्मोपादानकारणानि सन्तिभवन्ति संचीयमानानि प्रतिक्षणमुपचीयमानानि / इदमुक्तं भवति-अन्यान्यपि कर्मोपादानकारणानि भवेयुः, यत एवमादिकाः प्रत्यपाया भवन्ति तस्मादसो संयतो निर्ग्रन्थस्तथाप्रकारा संखडिं पुरःसंखिडिं पश्चात्संखडिं वा संखडिं ज्ञात्वा संखडिप्रतिज्ञया नाभिसंधारयेद् गमनायगन्तुनपर्यालोचयेदित्यर्थः / तथासे भिक्खू वा भिक्खुणी वा अन्नयरिं संखडिं सुच्चा निसम्म संपहावइ उस्सुयभूएण अप्पाणेणं, धुवा संखडी नो संचाएइ तत्थ इयरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिगाहित्ता आहारं आहरित्तए, माइहाणं संफासे, नो एवं करिज्जा / से तत्थ कालेण अणुपविसित्ता तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिगाहित्ता आहारं आहारिजा। (सू०-१६) स भिक्षुरन्यतरां-पुरःसंखडि पश्चात्संखडिवा श्रुत्वाऽन्यतः स्वतो वा निशम्यनिश्चित्य कुतश्विद्धेतोस्ततस्तदभिमुखं सम्प्रधावत्युत्सुकभूतेनात्मना / यथा-ममात्र भविष्यत्यद्भुतभूतं भोज्य, यत-स्तत्र धुवानिश्चिता संखडिरस्ति; नो संचाएइ ति न शक्नोति तत्र संखडिग्रामे इतरेतरेभ्यः कुलेभ्यः संखडिरहितेभ्यः सामुयाणिय तिभैक्ष, किम्भूतम् ?