________________ संखडि 48 - अभिधानराजेन्द्रः - भाग 7 संखडि एषणीयम् आधाकर्मादिदोषरहितं 'वेसियं' ति केवलरजोहरणादिवेषालब्धमुत्पादनादिदोषरहितम्, एवम्भूतं पिण्डपातम् - आहारं परिगृहाभ्यवहर्तुं न शक्रोतीति सम्बन्धः। तत्र चाऽसो मातृस्थानं संस्पृशेत. तस्य मातृस्थान संभाव्येत, कथं!-यद्य-पीतरकुलाहारप्रतिज्ञया गतो, नचासौ तमभ्यवहर्तुमल पूर्वोक्तया नीत्या, ततोऽसौ संखडिमेव गच्छेत् / एवं च मातृस्थानं तस्य संभाव्येत, तस्मात्रैव कुर्याद-ऐहिकामुष्मिकापायभयात् संखडिग्रामगमनं न विदध्यादिति। यथा च कुर्यात्तथाऽऽहस भिक्षुः तत्र संखडिनिवेशे कालेनानुप्रविश्य तत्रेतरतरेभ्यो गृहेभ्यः उग्रकुलादिभ्यः सामुदानिकं -समुदानंभिक्षा तत्र भवं सामुदानिकम् एषणीयं-प्रासुकं वैषिककेवलवेषावाप्तं धात्रीपिण्डादिरहितं पिण्डपात प्रतिगृह्याहारमाहारयेदिति। पुनरपि संखडिविशेषमधिकृत्याहसे भिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जा गामं वा०जाव | रायहाणिं वा इमंसिखलु गामंसि वा.जाव रायहाणिंसि वा संखडी सिया तं पि य गाम वा जाय. रायहाणिं वा संखडिं संखडिपडियाए नो अभिसंधारिजा गमणाए / केवली बूयाआयाणमेयं, आइन्नाऽवमाणं संखडिं अणुपविस्समाणस्सपाएण वा पाए अकंतपुध्वे भवइ, हत्थेण वा हत्थे संचालियपुव्वे भवइ, पाएण वा पाए आवडियपुव्वे भवइ, सीसेण वा सीसे संघट्टियपुव्वे भवइ, कारण वा काए संखोभियपुव्वे भवइ, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुणा वा कवालेण वा अभिहयपुटवेण वा भवइ, सीओदएण वा उस्सित्तपुव्वे भवइ, रयसा वा परिघासियपुव्ये भवइ, अणेसणिज्जे वा परिभुत्तपुव्वे भवइ अन्नेसिं वा दिजमाणे पडिग्गाहियपुवे भवइ / तम्हा से संजए नियंठे तहप्पगारं आइन्नावमाणं संखडि संखडिपडियाए नो अभिसंधारिजा गमणाए। (सू०१७) स भिक्षुर्यदि पुनरेवम्भूतं ग्रामादिक जानीयात्,तद्यथा-मामे वा नगरे वा यावद्राजधान्यां वा संखडिर्भविष्यति, तत्र च चरकादयोऽपरे वा भिक्षाचराः स्युरतस्तदपि ग्रामादिकं संखडिप्रतिज्ञया ना-भिसन्धारयद्मनाय-न तत्र गमनं कुर्यादित्यर्थः। तद्गतांश्च दोषान् सूत्रेणैवाह-केवली बूयाद्-यथैतदादान-कोपादानं वर्तत इति दर्शयति-सा च संखडिः आकीर्णा वा भवेत्-चरकादिभिः सडकुला अवमाहीना शतस्योपस्कृतेःपञ्चशतोपस्थानादिति. तां चाकीमवमा चानुप्रविशतोऽमी दोपाः, तद्यथा-पादेनापरस्य पाद आक्रान्तो भवेत्, हरतेन वा हरतः राञ्चालितो भवेत. पात्रेण वा भाजनेन वा यात्रं भाजनमापतितपूर्व भवेत्.शिरसा वा शिरः संघट्टितं भवेत, कायेनापरस्य चरकादेः कायः सशोभित-पूर्वो भवेदिति / स च चरकादिरारूषितः कलहं कुर्यात,कुपितेन च तेन टण्डेनास्थ्ना वा मुष्टिना वा लोष्टेन वा कपालेन वा साधुरभिहापूर्वो | भवेत, तथा शीतोदकेन वा कश्चित्सिचेत, रजसा वा परिघर्षितो वा भवेत् / एते तावत्सङ्कीर्णदोषाः / अवमदोषाश्वामी-अनेषणीयपरिभोगो भवेत्, स्तोकस्य संस्कृतत्वात्प्रभूतत्वाचार्थिना; प्रकरणकारस्यायमाशयःस्याद् यथा मत्प्रकर णमुद्दिश्यते समायातास्तत एतेभ्यो मया यथाकथशिद्देयमित्यभिसन्धिनाऽऽधाकर्माद्यपि कुर्याद, अतोऽनेषणीयपरिभोगः स्यादिति / कदाचिद्वा दात्राऽन्यस्मै दातुमभिवाञ्छितं, तच्चान्यस्मै दीयमानगन्तराले साधुर्गृह्रीयात्, तस्मादेतान् दोषानभिसम्प्रधायं संयतोनिन्थिस्तथाप्रकारामाकीर्णमवमा संखडि विज्ञायं संखड़िप्रतिज्ञया नाऽभिसन्धारयेद् गमनायेति। आचा०२ श्रुः१ चू० 1 अ०३ उ० / इहानन्तरोद्देशके संखडिगतो विधिरभिहितस्तदिहाऽपि तच्छेषविधेः प्रतिपादनार्थमाहसे भिक्खू वा भिक्खुणी वा.जाव समाणे से जं पुण जाणेज्जा मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा हिंगोलं वा संमेलं वा हीरमाणं पेहाए अंतरा से मग्गा बहुपाणा बहुबीया बहुहरिया बहुओसा बहुउदया बहुउत्तिंगपणगदगमट्टियमक्के डा-संताणया बहवे तत्थ समणमाहणअतिहि-किवणवणीमगा उवागया उवागमिस्संति (उवागच्छंति) तत्थाइन्ना वित्ती नो पन्नस्स निक्खमणपवेसाए नो पन्नस्स वायणपुच्छणपरियट्टणागुप्पेह-धम्माणुओगचिंताए, से एवं नचा तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपडिआए नो अभिसंधारिज्जा गमणाए। से भिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जा मसाइयं वा मच्छाइयं वा०जाव हीरमाणं वा पेहाए अंतरा से मग्गा अप्पा पाणा०जाव संताणगा नो जत्थ बहबे समण०जाव उवागमिस्संति अप्पाइन्ना वित्ती पन्नस्स निक्खमणपवेसाए पन्नस्सवायणपुच्छण-परियट्टणाणुप्पेहधम्माणुओगचिंताए, सेवं नचा तहप्पगारं पुरेसंखडिं वाजाव अभिसंधारिजा गमणाए। (सू०-२२) स भिक्षुः कचिदग्रामादौ भिक्षार्थ प्रविष्टः सन् यद्येवम्भूतां संखडि जानीयात् तत्प्रतिज्ञया नाभिसन्धारयेद् गमनायेत्यन्ते क्रिया। यादृगभूता च संखडि न गन्तव्यं तां दर्शयति-मांसमादौ प्रधानं यस्यां सा मासादिका तामिति / इदमुक्तं भवति-मांसनिवृत्ति कर्तुकामाः पूर्णायां वा निवृत्ती मांसप्रचुर संखडि कुर्युः, तत्र कश्चित्स्वजनादिस्तदनुरूपमेव किश्चिन्नयेत्, तच नीयमानं दृष्ट्वा न तत्र गन्तव्यं तत्र दोषान् वक्ष्यतीति। तथा मत्स्या आदी प्रधानं यस्यां ससा तथा, एवं मांसखलमिति, यत्र संखडिनिमितं मांस छित्त्वा छित्त्वा शोष्यते शुष्कं वा पुचीकृतमास्ते तत्तथा, क्रिया पूर्ववत् / एवं मत्स्य खलमपीति / तथा- 'आहेणं' ति यद्विवाहोत्तरकालं वधूप्रवेशे वरगृहे भोजनं क्रियते, 'पहेणं' ति वध्वा नीयमानाया यत्पितृगृहभोजनमिति, 'हिंगोल' ति मृतकभक्तं, यक्षा-दियात्राभोजनं वा, 'संमेल' ति परिजनसन्मानभक्तं गोष्ठीभक्त वा, तदेवम्भूता सख