________________ सामण्णविसेस 676 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस अन्यतराऽवगमापत्तेः हेतुफलयोरेव, आपत्तिश्च तथा इतरेतराऽवधिकत्वेन, विशिष्टस्य तत्स्वभावतया ग्रहणात् / अस्त्वेवमित्यधिकृत्य आह-अभ्युपगमे-अधिकृतग्रहणस्य अनुभवविरोधात्, विरोधश्च अविनाभावग्रहणमुभयगतमन्तरेण, तदयोगात-तथाविशिष्टस्य ग्रहणाऽयोगात्,अयोगश्च लोके तथोपलब्धेः अविनाभावग्रहणमन्तरेण संबन्धिनः संबन्ध्यन्तरविशिष्टतया अग्रहणोपलब्धेः / अविनाभावग्रणात्, एतदेव भविष्यति इत्याह-तस्य च-अविनाभावग्रहणस्य परपक्षे अभावात्, अभावश्च ज्ञानानां प्रतिनियताऽर्थत्वात् क्षणिकत्वेन, यथोक्तम्- "एकमर्थ विजानाति, न विज्ञानद्वयं यथा। विजानाति न विज्ञानमेकमर्थद्वयं तथा // 1 // " इत्यादि / तत्तथेत्यादि। तस्य-हे तुज्ञानस्य, तथा फलज्ञानत्वेन, अभावतः कारणात् / किमित्याह-अनुसन्धानाऽयोगात् 'अत इदम्' इत्यनुसन्धानम्, तथाविधविकल्पस्याऽपि तत्पृष्ठभाविनः असिद्धेः, असिद्धिश्च तस्याऽपिविकल्पस्याऽपि, क्षणिकत्वात्, स्वसंविनिष्ठितत्वेन, ततश्च तथा इतरेतराऽवध्यनुसन्धानत्वेन, तत्तन्निश्चयाऽनुपपत्तेः प्रक्रमात् तस्य कस्यचित्, तन्निश्चयः तन्निर्विकल्पकत्व-कार्यत्वनिश्चयः तत्तन्निश्चयः तस्य अनुपत्तिः ततः, न कार्यहतोरपि तदवगतिरिति क्रियायोगः / अत्राऽपिकार्यहतौ अपि, बुद्ध्यारूढधर्मधर्मिन्यायतोऽपि अधिकृतव्यवहाराऽभावः-अनुमानाऽनुमेयव्यवहाराऽभावः। कुत इत्याह-उक्तवत् यथोक्तं तथा, न्यायतो-न्यायेन, तदयोगात्-अधिकृतव्यवहाराऽयोगात्, योगेऽपि बुद्ध्यारूढधर्मधर्मिन्यायेन अधिकृतव्यवहारस्य अभिलषिताऽर्थाऽसिद्धिरेव / कुत इत्याह- अर्थस्य अर्थगमकत्वाऽभ्युपगमात् / यदि नामैवं ततः किमित्याह-तत्तथातायां च अर्थाद् अर्थगमकतायां च निश्चयाऽभावात्, अभावश्च तस्य-अर्थस्य, तद्विषयत्वाऽभ्युपगमाद्विकल्प-विषयत्वाऽनभ्युपगमात्, पारम्पर्यतः-पारम्पर्येण, तत्तद्भावे तस्य विकल्पस्य तस्माद्-अर्थाद् भावे / किमित्याह- प्रमाणाऽभावात्. अभावश्च परनीतितः--परनीत्या, तदसिद्धेः-प्रमाणासिद्धेः, स्वलक्षणात्-स्वलक्षणज्ञानं ततो विकल्प इति। नहि एवं स्वलक्षणसामान्यलक्षणाऽऽलम्बन परनीत्या प्रमाणमस्ति, इति भावनीयम्, एवमभिलषिताऽर्थाऽसिद्धिरेव इति / एतेनेत्यादि। एतेन–अनन्तरोदितेन, धूमाद् अग्न्यनुमानं निषिद्धम् / कुत इत्याह-समानयुक्तित्वाळूमाद् अग्न्यनुमानस्य। न च अयं सर्वस्यैव वादिनो दोष इत्याह-यस्य पुनरित्यादि। यस्य पुनर्वादिनः, अन्वयव्यतिरेकवद् नित्यानित्यमित्यर्थः, अत एव एकाऽनेकस्वभावं निश्चयात्मकमेव प्रत्यक्षम्- 'इदम्- इत्थमिति' तस्य उक्तदोषाऽभावः, निर्विकल्पकं प्रत्यक्षमित्यत्र न प्रमाण तेनैव तदनधिगतेः, अर्थविषयत्वाद् इत्येवमादयः, उक्ता दोषाः तदभावः / कथमित्याह-सत्र-सविकल्पकादौ निरूप्ये। किमित्याह- अनुपचरितनिबन्धनभावात-तात्त्विकनिबन्धनभावादित्यर्थः / अत एव आह प्रतीत्यादि / तस्य प्रत्यक्षस्य, चित्रस्वभावता स्वविषयग्रहणरूपाविच्छिन्नार्थग्रहणस्वभावसंवेदनवेदनेन तच्चित्रस्वभावता, प्रतीतिसचिवा चासौ तथाप्रतीतेः तच्चित्रस्वभावताच इति विग्रहः, तया प्रतीतिसचिवतच्चित्रस्वभावतया कारणेन, तद्विरोधात्- प्रक्रमाद् उक्तदूषणविपक्षतः, सविकल्पकत्वादौ तेनैव तदनधिगत्याद्यविरोधात्, अविरोधश्व पूर्वपक्षग्रन्थाऽनुसारतः प्रतिपक्षोपन्यासेन स्वतन्त्रनीत्या स्वयमेव भावनीय इति अलं प्रसङ्गेन। अस्तु वा निर्विकल्पकमपि प्रत्यक्षम्, तत्र असाधारणमेव वस्तु प्रतिभासते इत्येतद् अयुक्तम्, न्यायाऽनुभवविरोधात् / तत्प्रतिभासो हि निश्चयबलेन व्यवस्थाप्यते, अन्यथा तदयोगात, भावतस्तेनैव तदनधिगतेस्तथा अनुभवाऽभावात्, एवमपि तत्कल्पने अतिप्रसङ्गापत्तेः नियामकाऽभावादिति / न च द्राग्दर्शनात् तन्निश्चयः अपि तु सदादिमात्रस्य, अतः प्रथमाऽक्षसन्निपाते तदेव प्रतिभासत इति एतत् युक्तम्, सितेतरादिषु अपि क्षिप्रादिदर्शने तावन्मात्रनिश्चयात्, न च तत्र तदग्रहणमेव, तथा अनुभवविरोधात्, नच अन्यथाग्रहणेऽन्यथानिश्चयोत्पादः प्रमाणाऽभावात्। न च सन्नपि अयं न्याय्यः असमञ्जसत्त्वापत्तेः, न च वैभ्रमिक एवं अयम्, तद्भावभावित्वोपलब्धेः। अवग्रहादपि अयमयुक्त इति चेत् / सत्यम्, अदोषस्तु तन्मात्राऽनभ्युपगमात् / एवमपि दृष्टबाधा इति चेत् / न / अन्तरालाऽवायत एव तद्भावात् / कथमेतत् अवगम्यत इति चेत्? अवग्रहबोधस्य अल्पत्वात् / यदि नामैवं ततः किमिति चेत्? नाऽसौ विशिष्टाध्यवसायबीजम्, यस्तु भवति सोऽवान्तराऽवायरूपः, अवायबहुत्वात्। एवं सद्रव्याद्यनेकस्वभावं वस्तु तदितरधर्माऽऽलोचनेन समानधर्मव्यवच्छे दतः तद्वोधपूर्वकत्वात्, तदितरबोधस्य तथाऽनुभवतस्तत्तथास्वभावत्वाऽवगमात्, प्रथममेव विशेषाऽग्रहणात् इन्द्रियद्वारेणैव तथाऽर्थविशेषप्रतिपत्तिः,सकललोक सिद्धत्वात् / अन्यथा तदनुपपत्तेः, द्राग्दर्शने क्वचिदभावात् शीघ्राऽवगमस्याऽपि दीर्घत्वात् कालसौक्ष्म्यादिति / वस्तुनोऽनेकस्वभावात् सर्वेषां सदा भावात, अन्यथा तदनुपपत्तेश्चित्राऽऽस्तरणवद् एकदैव किं नाऽर्थविशेषप्रतिपत्तिः? येन 'एतदेवम्' इति ग्रहीतुः क्षयोपशमाऽभावादित्युक्तप्रायम् / इहैव उपचयमाह-अस्तुवा इत्यादिना। अस्तुवा-भस्तुवा, निर्विकल्पकमपि प्रत्यक्षम् , तत्र निर्विकल्पके प्रत्यक्षे, असाधारणमेवसजातीयेतरविविक्तमेव, वस्तुरूपादि, घटादि, प्रतिभासते। इति-एतद् अयुक्तम्अघटमानकम् / कुत इत्याह-न्यायाऽनुभवविरोधात्-न्यायप्रधानोऽनुभवो न्यायाऽनुभवः तेन विरोधात् / अथवा न्यायोयुक्तिः,अनुभवः--प्रत्यक्षम्, ताभ्यां विरोधाता एनमेवाऽऽह-तत्प्रतिभासो हि इत्यादिना। तत्प्रतिभासोहि