________________ सामण्णविसेस 677 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस णायोगात् स्वनिर्विकल्पकत्वस्य तदकारणत्वात्, अकारणस्य चाऽविषयत्वात्, अन्यथा अभ्युपगमविरोधात्। एतेन स्वसंविदितत्वं प्रत्याख्यातम्। किश्चेत्यादि / 'केंच-निर्विल्पकं प्रत्यक्षम् इति-अत्रार्थ न प्रमाणम् / कुत इत्याह- तेनैव-प्रत्यक्षेण, तदनभिगते:- तस्य निर्विकल्पकस्य अनधिगतेः, अनधिगतिश्च अर्थविषयत्वात्प्रत्यक्षस्य,तस्य च-अर्थस्य, ततः-प्रत्यक्षाद् अन्यत्वात्. प्रस्तुतैदपर्यमाह- तथाहीत्यादिना। तथाहि- न तद निर्विकल्पकत्वमेव-अधिकृत-प्रत्यक्षनिर्विकल्पकत्वमेव, तदर्थः-प्रत्यक्षाऽर्थः,न च अनर्थो विषयः- ''रूपाऽऽलोकमनस्कार-चक्षुद्यः संप्रवर्तते। विज्ञानं मणिसूर्याऽशुगोशकृय इवाऽनलः ||1||'' इति वत्तनात्, न च अविषये अधिगतिः, अपन्यायाद, इतिएवम, नतत्र-निर्वेकल्पकत्वे, अस्य-प्रत्यक्षस्य प्रमाणता।कुतइत्याहअतिप्रसङ्गात्-विषयलक्षणाऽयोगेन प्रमाणताभ्युपगमे सर्वत्र प्रमाणतापनिरिति अतिप्रसङ्गः, उभयम्-स्वनिर्विकल्पकत्वार्थोभयम्, विषयः प्रत्यक्षरय इति चेत् / एतदाशड्क्याह-न / उभयोः-स्वनिर्विकल्पकत्वार्थयोः तल्लक्षणाऽयोगात्-विषयलक्षणाऽयोपात्, अयोगश्च स्वनिर्विकल्पक न्यस्यतदकारणत्वात्प्रत्यक्षाऽकारणत्वात्, अकारणस्य च अविषयत्वा / / इत्थं चैतद् अड्गीकर्तव्यमित्याह- अन्यथाभ्युपगमविरोधात् / विरोधश्च "नाऽकारण विषयः" इति वचनप्रामाण्यात्, तदयं नोभयं विषय इति / एतेनेत्यादि / एतेन-अनन्तरादितेन, स्वस वेदितत्वं प्रत्याख्यात प्रत्यक्षस्य इति प्रक्रमः। अनेन विषयाऽवेदनप्रसङ्गात् सर्वथैकस्वभावत्वाद्,निर्वि-- षयतापत्तेः / न च स्वसंवेदनमेव विषयवेदनम्। तयोः कालादिभेदात्, तद्वेदनस्यैकत्वाभावात् तच्चित्रताप्रसङ्गादित्येकस्वभावत्ववस्तुवादिनः, अन्याऽवेदनप्रसङ्ग एव / एवं च सति स्वनिर्विकल्पकत्ववेदनात, तत्सामर्थ्यतस्तत्पृष्ठभावी विकल्पः स्वतस्तद्विषय एव स्यात् रूपादिविकल्पवत्, न च भवति तथाऽप्रतीतेः, न च तमन्तरेण, तत्तथाताव्यवस्थितिरतिप्रसङ्गादिति, एतेन यदाह न्यायवादी"प्रत्यक्ष कल्पनापोडं, प्रत्यक्षेणैव सिद्ध्यति। प्रत्यात्मवेद्यः सर्वेषां, विकल्पो नाम संश्रयः / / 1 / / संहृत्य सर्वतश्चिन्तां, स्तिमितेनाऽनन्तरात्मना। स्थितोऽपि चक्षुषा रूप-मीक्षते साऽक्षजा मतिः॥२॥ पुनर्विकल्पयन् किञ्चि-दासीन्मे कल्पनेदृशी। इति वेत्ति न पूर्वोक्ता-वस्थायामिन्द्रियाद् गतौ // 3 // " इत्यादि,तदपाकृतमवसेयम्, उक्तवत्प्रत्यक्षेणैव असिद्धेः | तदेकस्वभावत्वविरोधादिति। इहैव उपचसमाह- अनेन-स्वसंविदितेन प्रत्यक्षेण / किमित्याह- | विषयाऽवेदनप्रसङ्गात्, प्रसङ्गश्च सर्वथा एकस्वभावत्वाद् अस्य। एवमपि | को दोष इत्याह-निर्विषयतापत्तेः स्वसंविदितत्वेन / न चेत्यादि। न च स्वसंवेदनमेव विषयवेदनम् / कुत इत्याह- तयोः- स्वविषययोः, कालादिभेदात आदिशब्दात-स्वरूपग्रहः / यदि नामैव ततः किमित्याहतद्वेदनस्यतयोः स्वविषययोर्वेदनं तद्वेदनं तस्य / किमित्याहएकत्वाऽभावात् उभयवेदनेन, अत एव तचित्रताप्रसङ्गाद् इत्येवमेकस्वभावत्ववस्तुवादिनो वादिनः / किमित्याह-अन्याऽवेदनप्रसङ्गः एवस्वव्यतिरिक्तविषयाऽवेदनप्रसङ्ग एव इत्यर्थः, एवं च सतिस्वनिविकल्पकत्ववेदनात् कारणात्, तत्सामर्थ्यतः-स्वनिर्विकल्पकत्ववेदनसामर्थ्येन हेतुना, तत्पृष्ठभावी विकल्पः- प्रक्रमात् सामान्येन प्रत्यक्षपृष्ठभावी विकल्पः, स्वतः-आत्मना एव समारोपव्यवच्छेदमन्तरेण, तद्विषय एव स्यात्-स्वनिर्विकल्पकत्ववेदनविषय एव भवेत् रूपादिविकल्पवद् इति; निदर्शनम् / नच भवति स्वत एव, तथाऽप्रतीतेः कारणात्, न च तमन्तरेण विकल्पम्, तत्तथाताव्यवस्थितिः-तस्य प्रत्यक्षस्यतथाताव्यवस्थितिः स्वनिर्विकल्पकत्ववेदनभावव्यवस्थितिः स्वसंविदितत्वव्यवस्थितिरित्यर्थः / कथं न इत्याह- अतिप्रसङ्गात् विषयान्तरविषयवेदनाऽभावप्रसङ्गादिति, एतेनअनन्तरादितेन, यदाह न्यायवादी धर्मकीर्तिवार्तिक- "प्रत्यक्षमित्यादि" तदपाकृतमवसेयमिति योगः-प्रत्यक्ष प्रस्तुतम्, कल्पनापोढमित्येतत् प्रत्यक्षेणैव सिध्यति। कथमित्याह-प्रत्यात्मवेद्यो यस्मात् सर्वेषां प्रमातृणाम्, विकल्पो नामसंश्रयः शब्दानुविद्ध इत्यर्थः / / 1 / / तथा संहृत्य सर्वतश्चिन्ता विकल्परूपाम्,स्तिमितेन अन्तराऽऽत्मना-प्रसन्ननियापारेण, स्थितोऽपि सन्, चक्षुषा रूपमीक्षतेपश्यति, यथा बुद्ध्या सा अक्षजा मतिः / / 2 / / ईक्षित्वा पुनर्विकल्पयन् किंचित् पश्चाद् आसीद् मे कल्पना ईदृशी एवंभूता इति वेति, न पूर्वोक्तावस्थायां चक्षुषा रूपेक्षणलक्षणायाम्, इन्द्रियाद् गती 13|| इत्यादि यदाह न्यायवादी तद् अपाकृतम्-अपास्तमवसेयम्। कथमित्याह-उक्तवत्-यथोक्तं तथा, प्रत्यक्षेण एव असिद्धेः-प्रत्यक्षेणैव सिध्यति इत्यस्य असिद्धेः, असिद्धिश्च तदेकस्वभावत्वविरोधात् तस्य प्रत्यक्षस्य-एकस्वभावत्वविरोधात् स्वविषयपरिच्छेदकत्वेन इति भावितार्थमतदिति। सामान्यसिद्धावनुमानप्रामाण्य निरस्यतिन चानुमानमत्र प्रमाणम्, अस्य स्वलक्षणत्वात् अनुमानस्य च सामान्यसक्षणालम्बनत्वात्, न चेदं परपक्षे चारु, गमकलिङ्ग ऽसम्भवात् स्वभावकार्याऽसिद्धेः स्वभावस्य तादात्म्येन तत्त्वात् तद्वत् तदग्रहणात्, तद्ग्रहे साध्यप्रतिपत्तेः, तदप्रतिपत्ती तद्ग्रहणाऽयोगात् एकान्तैकत्वात्, तथाग्रहे मोहाऽभावात्, भावे वा निवृत्यनुपपत्तेः उपायाऽभावादिति। अनेन शिंशपादिप्रतिपत्तौ वृक्षाऽप्रतिपत्तिः प्रत्युक्ता, तुल्ययोगक्षेमत्वात्,अन्यथा कथञ्चित् तद्भेदापत्तेः / व्यावृत्तिभेदोऽभ्युपगम्यत एव इति चेत्, न तर्हि तदेकस्वभावता। सोऽपार-मार्थिक इति चेत्, किमर्थमस्योप