________________ सामण्णविसेस 676 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस धिया तद्विषयानुपलब्ध्यसिद्धेः, अन्यथाऽनुपलब्धौ तद्भावा-- ऽसिद्धरतिप्रसङ्गात्। न चाऽतैमिरिकस्याऽपि तत्प्रत्ययप्रसङ्गः, तस्य तिमिरतदन्यहेतुजन्यस्वभावत्वात्, अतैमिरिकाणां च तदभावात् तथा लोकप्रसिद्धेः / न च बाधातोऽस्य भ्रान्तता, बाधाऽसिद्धः भिन्नकालविषयप्रत्ययेन तदभ्युपगमेऽतिप्रसङ्गात्, क्वचिद् अभ्रान्तस्याऽपि असदिौ तदन्यतो बाधोपलब्धेश्च / न चाऽनर्थक्रियाकरणतः, अप्राप्यदेशगतजलादिज्ञानेन व्यभिचारात्,संविन्मात्रार्थक्रियाविधाने चास्य इतरत्रापि तद्भावात् तथाप्रतीतेः, न च लोकप्रतीतितः, अभ्युपगमविचाराद् तेन च तदप्राप्तेः, तस्य च इहाधिकृतत्वादिति अलमनया लोकागमानुभवविरुद्धया अतिसूक्ष्मेक्षिकया उक्तवत् सर्वत्र असमञ्जसतापत्तेः / यस्तु लोकादिसापेक्षः तस्यैव तद्भेदस्य विददङ्गनादिलोकप्रतिष्ठितत्वात् अविगानतस्तथाऽप्रतीतेः तद्व्यवस्थाकारिसदागमभावाद् उक्तदोषाभाव इति। एवं यथा कल्पनापोढत्वविशेषणम्. तथा अभ्रान्तत्वविशेषणमपि असंगतमेव / कुत इत्याह- परनीतितो व्यवच्छेद्याऽयोगात् / इन्दुद्वयादिज्ञानम्-आदिशब्दाद्-वियत्के शज्ञानादिग्रहः, व्यवच्छेद्यमिति चेत् / एतदाशङ्कयाह-न, तस्य इन्दुद्वयादिज्ञानस्य अभ्रान्तत्वात्, एतच्चाऽभ्रान्तत्वं तल्लक्षणोपपत्तेः-अभ्रान्तलक्षणोपपत्तेः, उपपत्तिश्च तस्याऽपि इन्दुद्वयादिज्ञानस्य,तत्प्रकाशकस्वभावत्वेन-- इन्दुद्वयादिप्रकाशकस्वभावत्वेन, तादृक्फलजननस्वभावहेतुजत्वतश्च इन्दुद्वयादिज्ञानजननस्वभावहेतुत्पन्नत्वेन च अस्य भान्तताऽसिद्धेः, अन्यथा-एवमनभ्युपगमे, तदयोगात्- इन्दुद्वयादिज्ञानाऽयोगात, तस्य च इन्दुद्वयादिज्ञानस्य अनुभवसिद्धत्वात् / न च बहिर्वियदादौ, तद्विषयाऽनुपलब्ध्याइन्दुद्वयादिज्ञानविषयाऽनुपलब्ध्याकारणेन, तत्सिद्धिः-भ्रान्ततासिद्धिः / कुत इत्याह-तद्ग्रहण - स्वभावधिया-बहिस्तद्विषयग्रहणस्वभावधिया ; इन्दुद्वयादिग्रहणस्वभावबुद्ध्या इत्यर्थः तद्विषयानुपलब्ध्यसिद्धेः-इन्दुद्वयादिज्ञानविषयानुपलब्ध्यसिद्धः, तद्ग्रहणस्वभावा हि तद्गृह्णात्येव, अन्यथा तत्स्वभावताऽयोगः / अन्यथेत्यादि / अन्यथा अतद्ग्रहणस्वभावया धिया इति प्रक्रमः, अनुपलब्धिः बहिस्तद्विषयस्य इति प्रक्रम एव इत्यन्यथानुपलब्धिस्तस्याम् / किमित्याह- तदभावाऽसिद्धेः- बहिस्तद्विषयाऽभावाऽसिद्धेः इन्दुवयाद्यभावासिद्धेरित्यर्थः / कुत इत्याह- अतिप्रसङ्गात्-पटादिग्रहणस्वभावया धिया घटो न गृह्यत इति तस्यापि अभावप्रसङ्गाद इत्यर्थः / न चेत्यादि। न च अतैमिरिकस्याऽपि प्रक्रमात् / प्रमातुः तत्प्रत्ययप्रसङ्गः-इन्दुद्वयादिप्रत्ययप्रसङ्गः, तदस्ति इति कृत्वा / कुत इत्याह- तस्ये-त्यादि / तस्य-इन्दुद्वयादिप्रत्ययस्य तिमिरसहायतदन्यहेतुजन्य-स्वभावत्वात् तिमिरसहायचक्षुरादिजन्यस्वभावो हि इन्दुद्वयादिप्रत्ययः / यदि नामैवं ततः किमित्याह-अतैमिरिकाणां च प्रमातृणाम्, तदभावात्-तिमिराऽभावात, ततश्च कारणवैकल्यात कार्याऽभाव इति स्थितम् / इत्थं च एतदङ्गीकर्तव्यमित्याह तथा लोकप्रसिद्धेः अतैमिरिकाणां तिमिराऽभावेन न इन्दुद्वयादिप्रत्यय इति लोकप्रसिद्धेः / न चेत्यादि / न च बाधातः कारणात्, अस्य इन्दुद्वयादिज्ञानस्य इति प्रक्रमः भ्रान्तता / कुत इत्याह-बाधासिद्धेः तस्यैव तिमिराऽपगमे एकेन्द्वादिज्ञानभावतो बाधा। इत्यारेकानिरासाय आहभिन्नेत्यादि। भिन्नौ कालविषयौ यस्य स भिन्नकालविषयः, एवंभूतश्चासौ प्रत्ययश्व इति विग्रहस्तेन, तदभ्युपगमेबाधाऽभ्युपगमे / किमित्याहअतिप्रसङ्गात्-सर्व एवंभूतः तदन्यस्य बाधक इति अतिप्रसङ्गः। दोषान्तरमाह-क्वचिदित्यादिना / क्वचिद् मन्दमन्दप्रकाशादौ. अभ्रान्तस्याऽपि प्रक्रमाद् ज्ञानस्य, असदिौ-- असपादिविषयस्य, तदन्यतो भ्रान्ताद्ज्ञानाद् इति प्रक्रम एव। किमित्याह-बाधोपलब्धेश्व तथा रज्जुचलनादेः सर्पज्ञाने न तदसर्पज्ञानस्य, इति नाऽलौकिकमेतद् अतो भावनीयमिति / दोषान्तरमभिधातुमाह-न चेत्यादि / न घ अनर्थक्रियाकरणतोऽस्य भ्रान्तता इति वर्तते। कुत इत्याह-अप्राप्यदेशगतजलादिज्ञानेन व्यभिचाराद्इति भावितार्थमतत्। संविन्मात्राऽर्थक्रियाविधाने च अस्य-अनन्तरोदितज्ञानस्य। किमित्याह-इतरत्राऽपि प्रक्रमाद् इन्दुद्वयादिज्ञानेऽपि, तद्भावात्- संविन्मात्राऽर्थक्रियाविधानभावाद, भावश्च तथाप्रतीतेः / न चेत्यादि / नचलोकप्रतीतितोऽस्य भ्रान्तता इति प्रक्रमः / कुत इत्याह-- अभ्युपगमविचारात / यदि नामैत ततः किमित्याह- तेन च- अभ्युपगमेन, तदप्राप्तः- उक्तवद् भ्रान्तताऽप्राप्तेः, तस्य च-अभ्युपगमस्य, इह-प्रक्र मे अधिकृतत्वात्, ततश्चततो यत् सिद्ध्यति तत् तत्त्वम्, अतोऽन्यद् अतत्त्वमित्यलमनया एवंभूतया, लोकाऽऽगमाऽनुभवविरुद्धया अतिसूक्ष्मेक्षिकया। किमित्यत आह- उक्तवद्- यथोक्तं तथा, सर्वत्र असमञ्जसतापत्तेः, अतो जातिरियमिति प्रतिपत्तव्या सर्वत्र तत्त्वेन। यस्तु लोकादिसापेक्षोलोकाऽऽगमाऽनुभवसापेक्षो वादी इति गम्यते, तस्य उक्तदोषाऽभाव इति संबन्धः / कथमित्याह-एतद्भेदस्य-प्रक्रमाद् भान्तेतरज्ञानभेदस्य, आविद्वदङ्गनादिलोकप्रतिष्ठितत्वात् कारणात्, एतत्-प्रतिष्ठितत्वं च अविगानतस्तथा भ्रान्तेतरत्वेन प्रतीतेः, तथा तव्यवस्थाकारिसदागमभावाद्-- अधिकृतैतद्भेदव्यवस्थाकारिसर्वज्ञप्रणीतागमभावादित्यर्थः, उक्तदोषाऽभावः जातियुक्तिर्धान्तेतरज्ञानयोः समत्वाऽऽपादनमुक्तो दोषस्तदभावः, उपन्यस्तहेत्वन्यथानुपपत्तिरिति। दूषणान्तराभिधित्सयाऽऽह-- किश-निर्विकल्पकं प्रत्यक्षमित्यत्र न प्रमाणं,तेनैव तदनधिगते : अर्थविषयत्वात् तस्य च ततोऽन्यत्वात्, तथाहि न तन्निर्विकल्पकत्वमेव तदर्थः, न चानों विषयः, न चाऽविषयेऽधिगतिरिति न तत्रास्य प्रमाणता, अतिप्रसङ्गात् / उभयं विषय इति चेत् / न। उभयोस्तलक्ष