________________ सामण्णविसेस 675 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस स्वभावोऽधिकृताधिगमः, कुतोऽस्माद् निश्चयजन्म? कथं च न स्याद? इत्याह- अतत्स्वभावात्- अधिकृताधिगमात्, समारोपजनस्वभावत्वेन भावनिश्चयजन्मनः अतिप्रसङ्गात्, तद्वद् निश्चयान्तरभादेन / उभयजननस्वभावत्वेस्वगृहीतनिश्चयसमारोपोभयजननस्वभावत्वे विरोधः, न्यायाविरोधेऽपि तत्तथाचित्रस्वभावतया अभ्युपगमबाधा-- अनेकान्तवादापत्तेः / अनुभयजननस्वभावत्वे अधिकृताधिगमस्य / किमित्याह- तदुभयाऽभावो निश्चयसमारोपोभयाभावोऽस्तु इति आरेकाऽपाहायाऽऽह-तथा च एवं च सति प्रतीतिविरोधः, तदुभयस्य तथावेदनात, इति-एवमुक्तनीत्या.एकान्तेन निर्विकल्पप्रत्यक्षवादिनो वादिनः, न न्यायतः-उक्तनीत्या, रूपादिनिश्चयाऽनुमाननिश्चययोर्भेद इति-एतद्, सूक्ष्मधिया भावनीयम्। कथं तर्हि अनुमानविकल्पो नाऽनन्तरम्? सन्न्यायतोऽ-- क्षज्ञानेन तद्विषयानधिगतेः। वस्तुनोऽनेकधर्मत्वात् क्षयोपशमवैचित्र्याद् इत्युक्तप्रायम् / अतो न निर्विकल्पकमेव प्रत्यक्षम्। आह- यदि एवम्, कथं तर्हि अनुमानविकल्पो न अनन्तरंदर्शनस्य इति प्रक्रमः ? एतदाशझ्याह-सन्न्यायतः-तत्त्वनीत्या, अक्षज्ञानेनअविकल्पेन, तद्विषयानधिगते:-अनुमानविकल्पविषयानधिगतेः कथं कस्यचिद् अधिगतिः, कस्यचिद् न इत्येतदपि युक्तिमदिति? एतदाशङ्कयाह- वस्तुनोऽनेकधर्मत्वात् एतदपि युगपदेव प्रायशः इत्याह.. क्षयोपशमवैचित्र्याद इत्येतदउक्तप्रायम् / प्रायेण उक्तम् अता न निर्विकल्पकमेप प्रत्यक्षमिति निगमनम्। लक्षणायोगाच, 'प्रत्यक्ष कल्पनापो ढमभ्रान्तम्" इति लक्षणम्, न चैतद् न्याय्यं परनीत्याऽनेकदोषापत्तेः, कल्पनापोढत्वस्य अव्यापकत्वात्, कल्पनायामपि स्वसंविदः प्रत्यक्षत्वाभ्युपगमात्, तस्याश्च तदव्यतिरिक्तत्वात्, व्यतिरिक्तत्वेऽधिकृतविशेषणायोगात्, तत्त्वतो व्यवच्छेद्यानुपपत्तेः अवस्तुत्वात् कल्पनायाः। स्वसंविदा तत्त्वेतरविकल्पाभ्यां दोषापादनमयुक्तमिति चेत् / न / तदवस्तु तत्त्वेन विकल्पधियोऽभावप्रसङ्गात्, स्वसं विन्मात्रस्यैव भावात्, असत्योपरागायोगात् क्लिष्टताऽसिद्धेरिति। तथा लक्षणाऽयोगाच ननिर्विकल्पकमेव प्रत्यक्षमिति / लक्षणाऽ- ! योगमाह- "प्रत्यक्ष कल्पनापोढमभ्रान्तम्" इति लक्षणं परकीयम, न च एतद् न्याय्यम् / कुत इत्याह- परनीत्या अनेकदोषापत्तेः अस्य लक्षणस्य, आपत्तिश्च कल्पनापोढत्वस्य लक्षणत्वेन उपन्यस्तस्य अव्यापकत्वात् / अव्यापकत्वं च कल्पनायामपि स्वसविदः परेण / प्रत्यक्षत्वाभ्युपगमात्, कल्पनाऽपि स्वसंवित्ताऽधिष्ठानार्थे विकल्पनाद् इति / तस्याश्च कल्पनायाः, तदव्यतिरिक्तत्वात्- स्वसंविदव्यतिरिक्तत्वात् / इत्थं चैतत् अङ्गीकर्तव्यमित्याह-व्यतिरिवतत्वे कल्पनायाः, स्वसंविदोऽभ्युपगम्यमाने। किमित्याह- अधिकृतविशेष गायोगारा, अयोगश्च तत्त्वतः-परमार्थन, व्यवच्छेद्यानुपपतेः सर्वस्या एव रवसविदः कल्पनापोढत्वात् / अत्राह-अवस्तुत्वात् कल्पनाया स्वरांविदा सह तत्वेतरविकल्पाभ्यां तत्त्वाऽन्यत्वविकल्पाभ्यामित्यर्थः, दोषापादनमनन्तरादितमयुक्तमिति चेत्। एतदाशझ्याह-न नैतद् एवम, तदवर तुत्वंन तस्याः- कल्पनायाः अवस्तुत्वेन हेतुना / किमित्याहविकल्पधियः कल्पनाबुद्धेः अभावप्रसङ्गात्, प्रसङ्गश्च स्वसंविन्मात्र एव भावात, सर्वत्र 'इयमेव कल्पना उपरक्ता विकल्पधीः' इत्यपि अराद / इति आवेदयन्नाह- असत्याः कल्पनायाः अवस्तुत्वन / किमित्याह- उपरागायोगात् स्वसंविदेवक्लिष्टा विकल्पधीः, इत्यपि अयुक्तिमद्, इत्याह-क्लिष्टताऽसिद्धेरिति स्वसंविन्मात्रत्वेन, अतः स्थितमेतत्, न च एतद् न्याय्यमिति। किञ्च-एकान्तवादिनः सर्वथा कल्पनाऽपोढत्वे कल्पनाऽपोढकल्पनातोऽपि अपोढत्वात् कल्पनाऽपोढत्वलक्षणायोगः। प्रत्यक्षसामान्य लक्षणविषय इति चेत्।न। तस्य ततो व्यतिरिक्तेतरविकल्पायोगात्, व्यतिरिक्तत्वे न तदध्यक्षलक्षणम्, अव्यतिरिक्तत्वे तु उक्तवल्लक्षणायोगः1 निरूपणाऽनुस्मरणविकल्पाभ्यामविकल्पकं स्वभावविकल्पेन तु सविकल्पकमिति चेत् / न / विरोधात्, अन्यथा अनेकान्तापत्तेः स्वाभ्युपगमपरित्यागादिति। दूषणान्तरमाह- किशोत्यादिना / किञ्च, एकान्तवादिनो वादिनः एकान्तेन कल्पनापोढमेतत्, ततश्च सर्वथा कल्पनापोढत्वे सति / किमित्याह- कल्पनापोढकल्पनातोऽपि अपोढत्वात् कारणात्, कल्पनापोढत्वलक्षणाऽयोगः, तत्र तद्योग्यताऽभावादिति / प्रत्यक्ष-- सामान्यम् अप्रत्यक्षव्यावृत्तिरूपम् लक्षणविषय इति चेत् तत्र तद्योगता इति भावः / एतदाशडक्याह-न,तस्य- प्रत्यक्षसामान्यस्य,ततःप्रत्यक्षात्। किमित्याह-व्यतिरिक्तेतरविकल्पा-यामयोगात्। आह चव्यतिरिक्तत्वे प्रत्यक्षात् तत्सामान्यस्य न तदध्यक्षलक्षण तद्व्यतिरिक्ततासामान्यलक्षणत्वात्, अव्यतिरिक्तत्वे तु प्रत्यक्षात् तत्सामान्यस्य, उक्तव यथोक्तं तथा। किमित्याह-लक्षणाऽयोगः तत्र तद्योग्यताऽभावाद् इति / अत्राह-निरूपणाऽनुस्मरणविकल्पाभ्याम्-एवंभूतमेतद् इति, तदात्वे आयत्यां चैतद्गोचराभ्यामविकल्पकमेतत्, स्वभावविकल्पेन तु कल्पनापोढस्वभावत्वलक्षणेन सविकल्पकमेव इति चेत् / एतदा-. शङ्कयाह- न, विरोधात् 'अविकल्पकं सविकल्पकं च' इति विरोधः. अन्यथा निमित्तभेदतो विरोधमन्तरेण। किमित्याह- अनेकान्तवादापत्तेः / ततः किमित्याह- स्वाभ्युपगमपरित्यागाद् नेति योगः। एवमभ्रान्तत्वविशेषणमपि असङ्गतमेव, परनीतितो व्यवच्छेद्याऽयोगात्। इन्दुद्वयादिज्ञानं व्यवच्छेद्यमितिचेत्।न।तस्याऽभ्रान्तत्वात्, एतच लक्षणोपपत्तेः तस्याऽपि तत्प्रकाशकस्वभावहेतुजत्वतश्च भ्रान्तताऽसिद्धेः, अन्यथा तदयोगात, तस्य चाऽनुभवसिद्धत्वात्, न च बहिस्तद्विषयानुपलब्ध्या तत्सिद्धिः, तद्ग्रहणस्वभाव--