________________ सामण्णविसेस 672 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस थमस्तदुक्तम्, भद्रकमिति चेत् / एतदाशङ्कयाह- न खलुनैव अनुभव इत्येव एतावता अंशेन तत्त्वव्यवस्थाहेतुः / कथं न? इत्याह- | न्यायबाधितस्य अनुभवस्य तदनुपपत्तेः तत्त्वव्यवस्थाहेतुत्वानुपपत्तेः, नीत्या द्विचन्द्रानुभवादौ तथाऽभ्युपगमादिति / यदि नामैवं ततः | किमित्याह- अस्य नप्रक्रान्तसदृशानुभवस्य उक्तवद् यथोक्त तथा न्यायबाधितत्वात् क्षणिकत्वेश हेतुना तथा पदार्थ-बोधानुभवरूपेणासम्भवाच्च, तथाहि-निश्चयानुभवोऽपि क्षणिक एव इति भावना। एतेन इत्यादि / एतेन-अनन्तरोदितेन वस्तु-जातेन, "यत्र-तु | प्रतिपत्तुभ्रान्तिनिमित्तं नास्ति तत्रैव अस्य दशनाविशेषेऽपि वाश्मात्या निश्चयो भवति, समारोपनिश्चययो-बध्यिबाधकप्रवाद'' इति यदुक्तम् / तत् किमित्याह- तदपि प्रत्युक्तमेव / कथमित्याहसर्वथैकस्वभावत्वे वस्तुनो वाह्यस्य दर्शन च तस्य इत्थं यथोक्तं तथा अभिधानाऽयोगात्, अयोगश्च एकत्र वस्तुनि, भ्रान्तिनिमित्तसम्भवे सति, सर्वत्र तदापत्तेः-भ्रा-न्तिनिमित्तसम्भवापत्तेः, आपत्तिश्च तत्तदेकरवभावत्वतत्त्वात्-तस्य वस्तुनो भ्रान्तिनिमित्तसम्भवकस्वभावत्वरूपत्वात्। अन्यथेत्यादि। अन्यथा-एवमनभ्युपगमे,यत्र वस्तुनि भ्रान्तिनिमित्तम, न घटपटादौ, यत्र च अस्ति शुक्तिकारजतादों; अनयोः वस्तुनोः, कथञ्चित् स्वभावभेदः, वस्त्वभेदेऽपि स्वसत्ताभेदः, इति-एवम्, बलात् तदने कस्वभावता; तस्य-वस्तुनः, सामान्य नाऽने कस्वभावता, तदेकान्तैकस्वभावत्वे तु न एतद् उत्पद्यते इति / उपपत्त्यन्तरमाहशुक्तिकादावपि-शुक्तिकारजतादौ अपि, तन्नियमाऽभावाच्च-प्रक्रमाद् भ्रान्तिनिमित्तसम्भवस्वभावत्वनियमाऽभावाच्च, बलाद् तदनेकस्वभावता इति वर्तते / तथाहि-न शुक्तिकादौ, अपि सर्वस्य समारोप एव कस्यचिद् दर्शनाद् अनन्तरं शुक्तिकानिश्चयः, अपरस्य तदा तत्रैव समारोप इति न एतद् एकान्तकस्वभावत्वे वस्तुन इति भावनीयम् / अतद्- इत्यादि। तद्-वस्तु, निबन्धनकारणम्, येषां ते तन्निबन्धना न तन्निबन्धना अतन्निबन्धनास्तगावस्तस्मिन्, अतन्निबन्धनत्वे च-- अवस्तुनिबन्धनत्वे इत्यर्थः / केषामित्याह-निश्चयानां न तेभ्योनिश्चयेभ्यः, तत्तत्त्वव्यवस्थावस्तुतत्त्वव्यवस्था,इति उक्तं प्राक्।। एवं च यत्र स्वत एव निश्चयः स प्रत्यक्षः, यत्र तु न सोऽनुमेय | इति सन्न्यायप्राप्तिः, अन्यथाऽसमञ्जसत्वात् / न चैवं सविकल्पकप्रत्यक्षवादिनोऽपि अनेकस्वभावत्वाद् वस्तुनः क्षयोपशमवैचित्र्येण तथानिश्चयप्रवृत्तौ कश्चिद् दोषः, निरुपचरिततन्निबन्धनभावात् / दृश्यते च कथञ्चिद् एकत्र एव एकाऽनेकप्रमात्रपेक्षः शब्दलिङ्गाऽध्यक्षैः प्रतीतिभेदः, तथाहि-अत्र निकु ज्जे वह्निरस्तीति शब्दतस्तथाविधदेशमात्रावच्छिन्नमनिसामान्य प्रतीयते, धूमदर्शनात् तु विशिष्ट देशावच्छिन्नस्तद्विशेषः, अध्यन्न-तस्तु विशिष्टतरो ज्वालादिरित्याऽऽगोपालाङ्गनाप्रसिद्धत्वाद् अत्याज्य एव इति। एवं च सन्न्यायसिद्धे प्रमाणानां वस्तुविषयत्वे यदुक्तं पुरस्तान् "नहि अन्य एव अन्योपकारको नाम'' इत्यादि, तदयुक्तमेव / परमार्थतो निर्विषयत्वात्। न च वस्तु अपि तदेकमनेकधर्मोपकारकशक्तिमद् इष्यते जैनेः, एकाऽमेक-स्वभावत्त्वाऽभ्युपगमात् पृथग्भूतधर्म्यसिद्धेः / इति कृतमत्र प्रसङ्गेम॥ एवं च यत्रांऽशे वस्तुज्ञानसंबन्धिाने नीलादौ, स्वत एव निश्चयः समारोपट्यवच्छेदमन्तरेण, स प्रत्यक्षोऽशः, यत्र तु अनित्यत्वादी, सोऽनुमेय इति सन्न्यायप्राप्तिः। कुत इत्याह- अन्यथाऽसमज-सल्वात् इत्येतच निदर्शितमसकृत / यदि नामैवं ततः किमित्याह- न चैवं सविकल्पकप्रत्यक्षवादिनोऽपि वादिनः, अनेकस्वभावत्वाद् वस्तुनः, क्षयोपशमवैचित्र्येण हेतुना, तथानिश्चयप्रवृत्तौ अनन्तरोदितक्रमण कश्चिद् दोषः, कथं नदोषः? इत्याह-निरुपचरिततन्निबन्धनभावाद्वास्तवप्रवृत्तिनिबन्धनभावादित्यर्थः। अमुमेवाऽर्थमुपदशयति-दृश्यते चेत्यादिना / दृश्यते च कथञ्चिद् एकत्रैव वस्तुनि, एकाऽनेकप्रमात्रपेक्षः शब्दलिङ्गाऽध्यक्षैः-आगमानुमानप्रत्यक्षैः प्रतीतिभेदः, तथाहि- 'अत्र निकुञ्ज वह्निरस्ति' इति शब्दतः-शब्दात् तथाविधदेशमात्राऽवच्छिन्न सद् अग्निसामान्य प्रतीयते,धूमदर्शनात् तु विशिष्टदेशावच्छिन्नस्तद्विशेषः-अग्निविशेषः पूर्वसामान्यापेक्षया, अध्यक्षतस्तु प्रत्यक्षेण पुनः, विशिष्टतरा ज्वालादिः प्रतीयते इति, आगोपालाङ्गनाप्रसिद्धत्वात् कारणात, अत्याज्य एष प्रतीतिभेद इति / एवं च सन्न्यायसिद्धे सति, प्रभाणाना-प्रत्यक्षादीनां वस्तुविषयत्वे यदुक्तं पुरस्तात् पूर्वपक्षग्रन्थे'नहि अन्य एवअन्योपकारको नाम" इत्यादि / तत् किमित्याहतदयुक्तमेव परमार्थतो निर्विषयत्वात् तस्य उक्तस्य। न चत्यादि / न च-वरत्वपि तद्- एकं सद्- अनेकधर्मोपकारकशक्तिमद् इष्यते वैशेषिकैरिव जैनैः / कुत इत्याह-एकानेकस्वभावत्वाभ्युपगमात् कारणात्, पृथग्भूतधर्म्यऽसिद्धधर्मधर्मिस्वभावत्वाद् वस्तुनः, इति कृतमत्र प्रसङ्गेन। यच्चोक्तम्-"समारोपनिश्चययोर्बाध्यबाधकभावाद" इति, एतदप्ययुक्तम् / परनीत्या समारोपनिश्चययोर्भ दाऽसिद्धेः समारोपस्यापि निश्चयत्वात्, तदभावभावित्वस्य च उभयत्राविशेषात्, पौर्वापर्यस्य च अनियामकत्वात् क्वचित् तस्याऽपि तुल्यत्वात् / अनित्यादिप्रतिपत्तावपि पुनर्नित्यादिनिश्चयोपलब्धेः वस्तुन एव पारम्पर्येण तद्भावाद्, तदन्यतराऽपरनिमित्तत्वे तदितरत्र तन्निमित्तत्वानाश्चासात्, विशेष-हेत्वभावात् अनित्यस्यापि अर्थक्रियायोगादिति निर्लोठयिष्यामः। यच्चोक्तमधिकृतपूर्वपक्षे-"समारोपनिश्चययोर्बाध्यबाधकमा-वाद" इत्येतदपि अयुक्तम् / कथमित्याह- परनीत्या समारोपनिश्चययोमैदासिद्धः,असिद्धिश्वसमारोपस्याऽपि शुक्तिकादौ रजतादिरूपस्य निश्चयत्वात्, तथाहि-शुक्तिकायां रजतनिश्चय एव समारोपः, तदभावभावित्वस्य च-शुक्तिकाद्यभावभावित्वस्य चशब्दाततदनुभवोपादानप्रस्य च, उभयत्र समाक्षेपे निश्चये नाटिशेषात्, नहि