________________ सामण्णविसेस 671 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस भवान्तरवद् न तस्य तत्त्वम्, तत्त्वे वा ततस्तदुत्पादे व्यवहारनियमोच्छेदः, एवं हि नीलाऽनुभवजन्योऽपि तन्निश्चयः पीताद्यनुभवस्य तत्स्वभावतया तज्जन्योऽपि सम्भाव्यत एव / एवमन्यत्राऽपि इति न न्यायविदस्ततो व्यवहारे नियमतः प्रवृत्तिर्युक्ता सर्वत्राऽऽशङ्कानिवृत्तेरिति, न अनिवृत्तिः सर्वत्र / बीजाभावाद् वैधhण साधाऽसिद्धेः, साधाच समारोप इति। इत्थमेव इदमिति चेत् / तत्त्वेनैव ग्रहणमित्यर्थः / एतदाशडक्याह-कथ व्यवधानसंभवः? नहि तस्य व्यवधानजनकत्वमित्यर्थः। ततः शुक्तिकाज्ञानाद् इन्द्रियजात्, तन्निश्च याऽनुत्पत्तेः-शुक्तिकानिश्चयाऽनुत्पत्तेः, व्यवधानसंभव इति चेत् / एतदाशड्क्याह- सैव तावद् निश्चयाऽनुत्पतिः, किं केन कारणेन? इति चिन्त्यम्, निश्चयान्तरोत्पादाद् रजतनिश्चयोत्पादात् इति चेत्, तन्निश्चयाऽनुत्पत्तिः / एतदाशड्ययाहकथमनुभवान्तरात्, शुक्तिकानुभवरूपात् निश्चयन्तिरोत्पादा रजतनिश्चयोत्पादः? तस्य शुक्तिकाऽनुभवस्य, तत्स्वभावत्वाद्-रजतनिश्चयोत्पादनरवभावत्वात, इति चेत्। एतदाशक्याह-अनुभवान्तरवद्रजतानुभववद् इत्यर्थः,न तस्य-शुक्तिकाऽनुभवस्य, तत्त्वंशुक्तिकानुभवतत्त्वम्, तत्त्वे वा-शुक्तिकाऽनुभवतत्त्वे वा, ततः शुक्तिकाउनुभवात, तदुत्पाद--निश्चयान्तरोत्पादे। किमित्याह- व्यवहारनियमोच्छेदः / एनमेव भावयन्नाह– एवं हीत्यादि / एवं यस्मात्, नीलानुभवजन्योऽपि तन्निश्चयो-नीलनिश्चयः पीताद्यनुभवस्य, तत्स्वभावतया नीलनिश्चयजननस्वभावतया, तज्जन्योऽपि-पीताद्यनुभवजन्योऽपि सम्भाव्यत एव, विजातीयशुक्तिकाऽनु--भवाद्-विजातीयरजत निश्चयोपपत्तेः, एवमन्यत्रापि रक्तादि-निश्चये, इति एवम्, नन्यायविदः पुरुषस्य, ततो निश्चयात, व्यवहारे प्रस्तुते, नियमतो-नियमन, प्रवृत्तियुक्ता। कुतो न युक्ता इत्याह- सर्वत्र विकल्पे, उत्थापकं प्रति आशङ्कानिवृत्तेः कारणात, न अनिवृत्तिराशङ्काया इति प्रक्रमः / कुत इत्याह-सर्वत्र बीजा-भावात् आशङ्काबीजाभावात्, किन्तु निवृत्तिरेव / प्रस्तुतभेवाऽऽह-वैधर्मेण हेतुना, साधासिद्धेः सर्वत्र / यदि नामैव ततः किमित्याह-साधम्याच्च- समारोप इति / अस्ति च शुक्तिकारजतयोः तद् इत्यभिप्रायः। यद्येवम्, स्थिरेतरादीनां किं साधर्म्यम्? क्व वा तेषां ग्रहणम्? येन अस्थिरादिषु तत्समारोपः / सदृशाऽपराऽपरोत्पत्तिविप्रलम्भात् अयमिति चेत्, किमिदं सजातीयेतरविविक्तैकस्वभावानां भावानां सादृश्यम्? कथं वा सदपि एतत् तदेकग्राहिणा ज्ञानेन गम्यते? तेषामेव तत्स्वभावतया तथा ग्रहणेन इति चेत्। आकालं तदेकग्रहणे कुतोऽयं नमस आप्तवादः? अनेकभिन्न-- कालभावग्रहणे च एकेन अपैति क्षणिकता / तथाविधभावाऽनुभवसामर्थ्यजनिश्चयात् तदवगम्यत इति चेत्, न युक्त-मस्य इमामक्र मागतामवगमश्रियं प्रतिपत्तुम, तत्पूर्व क्षणानां च न्यायतस्तद्रीजाभाव उक्तः। तथानुभवसिद्धत्वात् सर्व भद्रकमिति चेत्, न खलु अनुभव इत्येव तत्त्वव्यवस्थाहेतुः, न्यायबाधितस्य तदनुपपत्तेः, अस्य च उक्तवत् न्यायबाधितत्वात क्षणिकत्वेन तथाऽसम्भवाच्च / एतेन "यत्र तु प्रतिपत्तुभ्रान्तिनिमित्तं नास्ति तत्रैव अस्य दर्शनाविशेषेऽपि पाश्चात्यो निश्चयो भवति समारोप-निश्चययोबर्बाध्यबाधकभावात्" इति यदुक्तम्, तदपि प्रत्युक्तमेव, सर्वथैकस्वभावत्वे वस्तुनो दर्शने चेत्थममिधानाऽयोगात्, एकत्र भ्रान्तिनिमित्तसम्भवे सर्वत्र तदापत्तेः तत्तदेकस्वभावत्वतत्त्वात्, अन्यथा यत्र भ्रान्तिनिमित्तं न यत्रच अस्ति, अनयोः कथञ्चिद्भेद इति बलात् तदनेकस्व-भावता, शुक्तिकादावपि तन्नियमाऽभावाच, अतन्निबन्धनत्वे च निश्चयानां न तेभ्यस्तत्तत्त्वव्यवस्था इत्युक्तम्। एतदाशडक्याह-यद्येवम्, स्थिरेतरादीनां-नित्याऽनित्यादीनाम् 'किं साधर्म्यम् ? लक्षणभेदाद् न किञ्चिद् इत्यर्थः / क्व वा तेषां ग्रहणम्? नित्यानामभावेन तदयोगात्, येनाऽस्थिरादिषु भावेषु आदिशब्दाद्अनात्मादिग्रहः, तत्समारोपोनित्याऽऽत्मादिसमारोपः,सदृशाऽपरापरोत्पत्तिप्रलम्भात् कारणात्, अयमिति-आत्मादिसमारोपः, इति चेत् / एतदाश ड क्याह- किमिदं सजातीयेतरविविक्तेक स्वभावानां भावानाम्- अत्यन्तविलक्षणाना-मित्यर्थः, सादृश्यम्? न किञ्चित् / कथं वा सद् अपि एतत् सादृश्यम्, तदेकग्राहिणा तेषां भावानामेकग्रहणशीलं तदेकग्राहि तेन ज्ञानेन गम्यते? तदनेकग्रहणनान्तरीयकत्वात् तदवगमस्य न गम्यते इत्यर्थः। तेषामेवेत्यादि / तेषामेव भावानाम्, तत्स्वभावतया-सदृशस्वभावतया तथाग्रहणेनसदृशग्रहणेन, इति चेद् गम्यते। एतदाशङ्कयाह- आकालं यावदपि कालस्तावदपिसर्वकालमित्यर्थः, एकग्रहण सति कुतोऽयं "तेषामेव तत्स्वभावतया'' इत्यादिलक्षणः, नभसः-आकाशात् आप्तवादः? अनेकभिन्नकालभाव-ग्रहणे च एकेन प्रक्रमाद् ज्ञानेन। किमित्याह-अपैति क्षणिकता भावानामिति / तथाविधेत्यादि / तथाविधभावानुभवसामर्थ्यजनिश्चयात्- संतानप्रवृत्तान्त्यक्षणभावानुभववीर्योत्पन्ननिश्चयाद् इति भावः, तत्- सादृश्यम्, अवगम्यते इति चेत् / एतदाशङ्कयाह-न युक्तमस्य निश्चयस्य, इमामक्रमाऽऽगतामन्वयाभावेन, अव-गमश्रियंपदार्थतया विसदृशबोधरूपा प्रतिपत्तुम्, यदाह कश्चित्- "असत्सङ्गाद् दैन्यात् प्रखलचरितैर्वा बहुविधैरसद्भूतैर्भूतिर्यदि-भवति भूतेरभवनिः / सहिष्णोः सबुद्धेः परहितरतस्योन्नतिमतः, परा भूषा पुंसः स्वविधिविहितं वल्कलमपि // 1 // " स्वविधिश्च क्षणिकस्य परतो निरपेक्षिता इति भावनीयम्। तत्पूर्वक्षणानां च--विवक्षितक्षणभावानुभवपूर्वक्षणानां च, न्यायतोन्यायेन, निरन्वयनश्वरतया, तद्वीजाभावो-विवक्षितक्षणबीजाभावः, उक्तः प्राग नित्यानित्यवस्तुनिरूपणाधिकारे एकान्त इत्यादिना ग्रन्थेन। तथेत्यादि। तथाऽनुभवसिद्धत्वात-सदृशत्वेनानुभवसिद्धत्वात् कारणात्, स