________________ सामण्णविसेस 670 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस भिधाय पक्षान्तरे दोषमभिधातुमाह-अथ पर्युदासरूपः प्रस्तुतः समारोपाभावः। एतदाशक्याह-कथन वस्तुस्वभावनिश्चयात्मकं तद् रूपादिनिश्चयज्ञानम्? तत्रैव-रूपादावेव प्रवृत्तः,न तद् रूपादि,तदा निश्चयज्ञानकाले इति चेत् / एतदाशक्याह-कथमसमारोपविषयेसमारोपाभावे पर्युदासात्मके, अस्य-रूपादिनिश्चयज्ञानस्य, भावः? अयमित्यादि। अयम्- असमारोपविषयः, अस्यैव अधिकृतनिश्चयज्ञानस्य आत्मा, नतु अन्यो-व्यतिरिक्तः, इति चेत्। एतदाशड्क्याहस्वात्मन एव ज्ञानसंबन्धिनः, तदितरविकल्पस्यविषयविकलस्य, तत्त्वकल्पनायांविषयत्वकल्पनायाम, उक्तनीत्या / किमित्याहअतिप्रसङ्गः / कथमित्याह-स्वलक्षणज्ञानस्याऽपि तत्त्वेन तदितरविकलत्वेन हेतुना, तद्भावापत्तेः-- असमारोपविषयभावापत्तेः-निश्चयज्ञानत्वापत्तेरित्यर्थः। यचोक्तम्-'यत्र हि अस्य समारोपो भवति यथा स्थिरः सात्मक इति वा, न तत्र निश्चयो भवति" एतदप्ययुक्तम् परमार्थे न तस्याऽस्थिरानात्मकस्यैव ग्रहणात् तत्र रूपादाविव समारोपप्रवृत्त्ययोगात् / स्यादेतत्, नहि तथा गृहीतोऽपि भावस्तथैव प्रत्यभिज्ञायते, क्वचिद्भेदे व्यवधानसंभवात् यथा शुक्तेः शुक्तित्वे / यत्र तु प्रतिपत्तुर्धान्तिनिमित्तं नास्ति तत्रैव अस्य दर्शनाऽविशेषेऽपि स्मार्तो निश्चयो भवति, समारोपनिश्चययोर्बाध्यबाधकभावाद् इति / एतदप्यसत्, निरंशे तथा गृहीते क्वचिद् व्यवधानं क्वचित् न इत्यपन्यायत्वात् भेदाभावेन तत्त्वत एक निश्चयज्ञानप्रसङ्गात्, न खलु रूपे एव तदेकस्वभावनिबन्धनानि भूयांसि निश्चयज्ञानानि। यचोक्तम्- अधिकृतपूर्वपक्षग्रन्थे- “यत्र हि अस्य समारोपो भवति यथा स्थिरः सात्मक इति वा, नतत्र निश्चयो भवति" एतदपि अयुक्तम्। कथमित्याह-परमार्थन वस्तुस्थित्या, तस्य पदार्थस्य, अस्थिराऽनात्मकस्यैव ग्रहणाद, नान्यत् तस्य रूपमिति कृत्वा / ततः किमित्याहतत्र अस्थिरत्वादौ, रूपादाविव समारोपप्रवृत्त्ययोगाद्, नहि रूपेरूपतया गृहीत समारोपः / स्यादेत-दित्यादि। स्यादेतद्, नहि तथा स्वरूपेण, गृहीतोऽपि भावः पदार्थः तथैव प्रत्यभिज्ञायते-निश्चयज्ञानेन गम्यते। कथमित्याह-क्वचिद् भेदे भावविशेषे, व्यवधानसभवात् प्रत्यभिज्ञानस्य समा रोपेण इति भावः / निदर्शनमाह- यथा शुक्तेः- शीप्रकद्रव्यस्य, शुक्तित्वे व्यवधानसंभवः प्रत्यभिज्ञानं प्रति रजतसमारोपेण, यत्र तु भावभेदे पदार्थे, प्रतिपत्तुः पुरुषस्य, भ्रान्तिनिमित्तं सादृश्य नास्ति, तत्रैव-भावभेदे, अस्यपुरुषस्य, दर्शनाऽविशेषेऽपि-उभयत्र यत तत्त्वं तद दृश्यते इति दर्शनाऽविशेषस्तस्मिन्नपि सति, स्मार्ता निश्चयो भवतीति गृहीतग्राही। किमेतदेवमित्याह समारोपनिश्चययोर्बाध्यबाधकभावात्, समारोपो बाध्यः, निश्चयो बाधकः इति। पूर्वपक्षमाशक्याह-एतदपिअनन्तरोदितम्, असद्-अशोभनम् / कुत इत्याह- निरंश इत्यादि। निरशे वस्तुनि तथा निरंशतया गृहीते,वचिद् व्यवधानं क्वचिद् न इति अपन्याय-त्वाद, एतद् अपि असत्, अपन्यायत्वं च भेदाऽभावेन हेतुना निरशत्वेन, तत्त्वतः-परमार्थन, एकनिश्चयज्ञानप्रसङ्गात् निबन्धनैक-- त्वेन। एतद्भावनायैवाह-नखल्वित्यादि। न खलु-नैव, रूपे एव आलम्बन तदेकरवभावनिबन्धनानि तद्रूपमेव एकः स्वभावो निबन्धनं येषा तानि तथा, भूयासि-प्रभूतानि, प्रक्रमाद् जातिभेदनधिकृत्य निश्चयज्ञानानि रूपरसादिलक्षणानि,किं तर्हि प्रभूतानि अपि व्यक्तिभेदाऽपेक्षया रूपज्ञानानि एव? एवं भेदाऽभावेन तत्त्वतः एकनिश्चयज्ञानप्रसङ्गः। दूषणान्तरमाहकिंच-असौ भावः स्वप्रत्यभिज्ञानजनने व्यवधानसम्भवस्वभावो वा स्याद्, न वा? उभयथाऽपि क्वचिद् भेदे व्यवधानसंभावाद्, इत्यपि अयुक्तम्, यथाक्रमं सर्वत्रैव तत्सम्भवाऽसम्भवापत्तेः, अन्यथा एकस्वभावत्वविरोधात् अतन्निबन्धनत्वे च निश्चयानां न तेभ्यस्तत्तत्त्वव्यवस्था, इत्वफला तत्कल्पना, एवं च"यथा शुक्तेःशुक्तित्वे" इत्यनुदाहरणमेव, भवन्नीत्या तदयोगात् शुक्तिकाया अपि अक्षज्ञानेन नीलादिवत् तत्त्वेनैव ग्रहणात्। किंच, असौ भावः- पदार्थः, स्वप्रत्यभिज्ञानजननेस्वनिश्चयज्ञानजनने, व्यवधानसंभवस्वभावो वा स्याद् न वा? इति द्वयी गतिः / उभयथाऽपि पक्षद्वयेऽपि वचिद् भेदे व्यवधानसभावाद् इति अयुक्तम्। कुत इत्याह-यथाक्रमम्-यथासंख्यम, सर्वत्रवक्वचिद् इत्येतद्व्युदासेन सर्वत्रेव वस्तुनि, तत्संभवाऽसंभवापत्तेः-तस्य व्यवधानस्य, संभवश्वासंभवश्व तत्संभवासंभवौ, तयोरापत्तिः, तत एतदुक्तं भवति-यदि असा भावः स्वप्रत्यभिज्ञानजनने व्यवधानसंभवस्वभावस्ततस्तत् सभवत्येव सर्वत्र व्यवधानम्, न चेद्, न संभवत्येव इति हृदयम्। इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा एकस्वभावत्वविरोधात्, एकस्वभावो हि स्वप्रत्यभिज्ञानजनने व्यवधानसंभवैकस्वभावः, तदसंभवैकस्वभावो वा, अन्यथा तच्चित्रस्वभावता एव इति भावनीयम् / अतन्निबन्धनत्वे चविव-क्षितभावानिबन्धनत्वे च निश्चयानाम् / किमित्याह-न तेभ्यो निश्चयेभ्यः, तत्तत्वव्यवस्थाविवक्षितभावतद्भावव्यवस्था, इति एवम् अफलानिष्प्रयोजना, तत्कल्पना प्रक्रमाव्यवधानसंभवकल्पना, एवं च सति "यथा शुक्तेः शुक्तित्वे" इत्यनुदाहरणमेव / कथमित्याहभवन्नीत्यात्वदर्शनाऽनुसारेण,तदयोगात्-प्रक्रमाद् व्यवधान-संभवायोगात्, अयोगश्च शुक्तिकाया अपि अक्षज्ञानेन-इन्द्रियज्ञानेन, नीलादिवद् इति निदर्शनम्, तत्त्वेनशुक्तिकात्वेन एव ग्रहणात्। इत्थमेव इदमिति चेत्, क थं व्यवधान सम्भवः? ततस्तन्निश्चयानुत्पत्ते रिति चेत्, सैव तावत्कि मिति चिन्त्यम् ? निश्चयान्तरोत्पादाद् इति चेत्, कथमनुभवान्तराद् निश्चयान्त रोत्पादः? तत्-तत्स्वभावत्वाद् इति चेत्, अनु