________________ सामण्णविसेस 666 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस शक्तत्वविरोधात्, कथञ्चिद् अविरोधेऽप्यभ्युपगमविरोधात, भिन्नांशविषयनिश्चयभावाभावयोस्तु न तस्य किञ्चिद् इति कथं क्वचिद् प्रामाण्यमात्मसात्कुरुत इति? नैवं सन्नारोपव्यवच्छेदार्थमपि प्रमाणान्तरप्रवृत्तिः, न्यायतः समारोपस्यैवाऽयोगात्, सजातीयेतरविविक्तैकस्वभावस्य वस्तुन इन्द्रियज्ञाने प्रतिभासनात्, रूपादिनिश्चयज्ञानवत् तन्निबन्धननिश्चयज्ञानानां तमन्तरेणैव प्रवृत्तिसम्भवात् / तथाहि- यद् रूपादिदर्शनानन्तरमलिङ्ग निश्चयज्ञानं भवति तत्कथमसति समारोपे मवत् तद्व्यवच्छेदविषयम्? इतश्च वचनमात्रम्-'यत्र तुभ्रान्तिकारणसद्भावाद् अशक्ततत्र प्रमाणान्तरं व्याप्रियते' इत्याधुपन्यासात् पूर्वपक्षगन्ध एव। इहैव भावनार्थमाहतथाहीत्यादिना। तथाहि-यदि तत् प्रक्रमाद् अविकल्पम,क्वचिदशक्त पाश्चात्यं निश्चय जनयितुम, एवं तर्हि अशक्तमेव एकान्तेन। कुत इत्याहसर्वथैकत्वात् कारणात्, एकस्य च वस्तुनः, एकस्वभावत्वेन हेतुना, शक्तत्वाऽशक्तत्वविरोधात् / तथाहि- एकमेकस्वभावं यदि शक्त शक्तमेव, अथाऽशक्तमशक्तमेवेति भावनीयम्। कथञ्चिद् अविरोधेऽपि निमित्तभेदेन शक्तत्वाऽशवतत्वस्य, अभ्युपगमविरोधाद् अनेकान्तवादोषत्या / अथ भिन्ना अस्यांऽशा इति / एतद् व्यपो हायाऽहभिन्नांशेत्यादि / भिन्नौ च तौ प्रत्यक्षादिति प्रक्रमः, अंशौ च भिन्नांशौ, तौ विषयो ययोस्तौ भिन्नांश-विषयो भिन्नांशविषयौ च तो निश्चयौ चेति विग्रहः, तयोर्भावाऽभावौ, तयोः, पुनर्न तस्य प्रत्यक्षरय, किञ्चिद् इति एवम्,कथं क्वचित् प्रामाण्यमात्मसात्कुरुत-इति। नैवमित्यादि। नैवम्उक्तेन प्रकारेण, समारोपव्यवच्छेदार्थमपि प्रमणान्तरप्रवृत्तिः / कुत इत्याह--न्यायतोन्यायेन समारोपस्यै–व अयोगात्, अयोगश्च सजातीयेतरविविक्तैक-स्वभावस्य वस्तुन इन्द्रियज्ञाने प्रतिभासनात् कारणात्, रूपादिनिश्चयज्ञानवदिति निदर्शनम् / तन्निबन्धननिश्चयज्ञानानाम् - अधिकृतवस्तुनिबन्धननिश्चयज्ञानानाम्, तमन्तरेणसमारोपमन्तरणैव,प्रवृत्तिसंभवात कारणात्, न समारोपव्यवच्छेदार्थमपि प्रमाणान्तरप्रवृत्तिः, अनित्यत्वादिनिश्चयानामपि सामारोपव्यवच्छे दमन्तेणैव भावप्रसङ्गादित्यर्थः / अधिकृतार्थभावनायैवाऽऽह-तथाहीत्यादि। तथाहि इति-उपप्रदर्शने / यद् रूपादिदर्शनाऽनन्तरम्- अव्यवधानेन अलिङ्गम्-लिङ्गरहितम्, निश्चयज्ञानं भवति प्रक्रमाद् रूपादिविषयमेव, तत्कथमसति समारोपे अरूपादिविषये भवद्- उत्पद्यमानम, तद्व्यवच्छेदविषयसमारोपव्यवच्छेदविषयम, नैव समारोपाभावेन तद्व्यवच्छेदाऽयोगादिति। स्यादेतद, असमारोपविषये भावात् तद्व्यवच्छेदविषयम्, यत्र हि अस्य समारोपो भवति यथा स्थिरः सात्मक इति था, न तत्र निश्चयो भवति, तद्विविवेक एव चान्यापोह इति तदपि तन्मात्रा ऽपोहगोचरमेव, न वस्तु स्वभावनिश्चयात्मकमिति / एतदपि यत्किञ्चित, वाङ्मात्रत्वात्। स्यादेतद् असमारोपविषये भावात्तदव्यच्छेदविषयमितिसमारोपस्य विषयः समारोपविषयः न समारोपविषयोऽसमारोपविषयः तस्मिन् समारोपशून्य इत्यर्थः, भावाद्- उत्पत्तेः कारणाद् अधिकृतनिश्चयज्ञानस्य, तद्व्यवच्छेदविषयमिति / एतद्भावनाये-वाह-यत्र पदार्थे, हिशब्दोऽवधारणे, अस्य पुरुषस्य, समारोपो भवति, यथा स्थिरः सात्मक इति वायं पदार्थः / नतत्र निश्चयो भवति अनित्यत्वादिनिश्चयस्तधाथात्म्यविषयः, तद्विवेक एव च-समारोपविवेक एव च, अन्यापोहः तद्व्यवच्छेदः, इति-एवम्, तदपि अधिकृतनिश्चयज्ञानम्, तन्मात्रापाहगोचरमेव समारोपापोहमात्रगोचरमित्यर्थः / न वस्तुस्वभावनिश्चयात्मक-न स्वलक्षणनिश्चायकमिति योऽर्थः / एवं पूर्वपक्षमाशङ्याहएतदपि यत् किश्चिद्-असारम्, कुत इत्याह-वाङ्मात्रत्वात् वाच्याऽर्थशून्यत्वात्। यत्तावदुक्तम्-"असमारोपविषये भावाद्" इत्यत्र समारोपाभावेऽस्य वृत्तिरुक्ता, अयं च समारोपाभावो यदि प्रसज्ज्य-- प्रतिषेधरूपः, न क्वजिदस्य वृत्तिस्तस्य तुच्छत्वात्, तत्त्वत इत्थमेव इदमिति चेत् कथमतुच्छप्रतिभासं रूपादिनिश्चयज्ञानम्? तुच्छप्रतिभासमेव तद इति चेत्, अनुभवविरोधःरूपादिप्रतिभासस्य वेद्यमानत्वात, अन्यथा तदनाकारत्वेन वेदनाऽयोगादिति / अथ पर्युदासरूपः, कथं न वस्तुस्वभावनिश्चयात्मकं तत्? तत्रैव प्रवृत्तेर्न तत् तदा इति चेत्, कथमसमारोपविषयेऽस्य भावः? अयमस्यैव आत्मा न त्वन्य इति चेत्,स्वात्मन एव तदितरविकलस्य तत्त्वकल्पनायामतिप्रसङ्ग:स्वलक्षणज्ञानस्याऽपि तत्त्वेन तद्भावापत्तेरिति। एतदेव दर्शयति- यत्तावदुक्तमित्यादिना। तत्र यत्तावदुक्तम्पूर्वपक्षग्रन्थे ''अरसमारोपविषये भावाद'' इत्यत्र ग्रन्थे, समारोपाभावे अस्य निश्चयस्थ वृत्तिरुवता, एतद् ऐदपर्यम् / यदि नामैवं ततः किमित्याऽऽहअयं च समारोपाऽभावो यदिप्रसज्ज्यप्रतिषेधरूपः समारोऽपाभवनमात्रलक्षणः / ततः किमित्याह-न क्वचित् अस्य निश्चयस्य, वृत्तिः / कुत इत्याह-तस्य प्रसज्ज्यप्रतिषेधरूपस्य समारोपाऽभावस्य, तुच्छत्वात्असत्त्वादित्यर्थः / तत्त्वत इत्यादि / तत्त्वतः-परमार्थेन, इत्थमेवेदं न क्वचित् अस्य वृत्तिः इति चेत् / एवदाशक्याह-- कथमतुच्छप्रतिभासं रूपादिवरत्वाऽऽकार रूपादिनिश्चयज्ञानम्? तुच्छेत्यादि। तुच्छप्रतिभासमेव, तत्- रूपादिनिश्चयज्ञानम्, इति चेत् / एतदाशडक्याहअनुभवविरोधः। एवं कथमित्याह-रूपादिप्रतिभासस्यरूपादिनिश्चयज्ञाने वेद्यमानत्वात्, अन्यथा एवमनभ्युपगमे, तस्य-रूपादिनिश्चयज्ञानस्य, अनाकारत्वेन हेतुना। किमित्याह-वेदनाऽयोगाद, तद् हि अनाकार कस्य वेदनम्? इति भावनीयम्। एवं प्रसज्ज्यपक्षे दोषम