________________ सामण्णविसेस 668 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस न्तराव्यतिरेकात् समनन्तराच्च अविकल्पकजन्मेति भावना / | नाऽप्यध्यवसिततद्भावता प्रत्ययदाढयम् / कुत इत्याह- अतदाभेनअवस्त्याकारेण ज्ञानेन, तत्परिच्छेदाऽयोगाद्-वस्तुपरिच्छेदाऽयोगात्, अयोगश्च तत्त्वतः परमार्थतः तदनुपपत्तेः-अध्यवसिततद्भावतानुपपत्तेः नाऽतदाभं तत्परिच्छेदकम् ; नचाऽतो न,अध्यवसिततदावतेति भावनीयम् / नाऽपि ध्वनियोगः- प्रत्ययदायम् / कुत इत्याहतत्तादात्म्याद्यऽयोगतः तस्य-प्रत्ययस्य,तेनध्वनिना तादात्म्वाद्ययोगतः-तादात्म्यमेकत्वम् आदिशब्दात-- तदुत्पत्तिग्रहः, तदसिद्धेःध्वनियोगासिद्धेः,तथा तद्युक्तस्याऽपिध्वनियुक्तस्याऽपि प्रत्ययस्यति प्रक्रमः, तदाकारोत्पत्तिप्रधानत्वाद् विषयाकारोत्पत्तिप्रधानत्वादिति। न चेत्यादि / न च सा एव-तदाकारोत्पत्तिः, केवला ध्वनियोगरहिता, अनिश्चयः- अपरिच्छेदः / कुत इत्याह- स्वालम्बनपरिच्छेदात्स्वविषयपरिच्छेदात्, केवलयाऽपि न च-न सोऽपि-स्वालम्बनपरिच्छेदः, तत्त्वतः-परमार्थेन / कुत इत्याह- तत्स्वभावतयास्वालम्बनपरिच्छेदस्वभावतया, ततः स्वालम्बनात्,तद्बोधोपपत्तेः-- विवक्षितालम्बनबोधोपपत्तेः, अन्यथा तदुत्तरक्षणवत् ततो भावेऽपि अबोधरूपतैवेति हृदयम् / न चेत्यादि / न च मूककल्पत्वात् केवलायास्तदाकारोत्पत्तेरिति प्रक्रमः,नेति-न निश्चयरूपता। कुत इत्याहबोधस्थाऽनिश्चयत्वविरोधात, बोधो निश्चयोऽवगम इति तुल्याऽर्थाः / न चेत्यादि / न चाऽस्पष्टया कारणेन, नेति-न निश्चयरूपता, केवलायास्तदाकारोत्पत्तेरिति प्रक्रमः / कुत इत्याह-तस्याः तदाकारोत्पत्तेः, स्पष्टताऽभ्युपगमादिति। यच्चोक्तम्- "तच्च यत्रांऽशे पाश्चात्यं निश्चयं जनयितुं शक्नोति तत्रैव प्रमाण्यमात्मसात्कुराते"। एतदप्ययुक्तम्, तस्य निरंशत्वाभ्युपगमात्, अन्यथा परसिद्धान्तापत्तिः। व्यावृत्तयोंऽशा इति चेत् / न / तासां परमार्थतस्तदव्यतिरिक्तत्वेन तन्मात्ररूपत्वात्, तस्यैव त्रैलोक्यव्यावृत्त्येकस्वभावत्वादिति। कथं च निश्चयस्य विकल्पात्मकत्वात् तत्त्वतो निर्विषयत्वात् तद्विषयता युक्ता? येनोच्यते "यत्रांशे पाश्चात्यं निश्चयं जनयितुं शक्नोति" इति / स ततो भवतीति तन्निश्चय इति चेत्।न। अतिप्रसङ्गात् नीलादि पश्यतः क्वचित् भिन्नजातीयविकल्पाभ्युपगमात्, तस्य च ततो भावात्, अन्यथा अहेतुकत्वापत्तेः / संवादको निश्चय इति चेत् / न / अप्राप्यदेशगतजलादिनिश्चयेन व्यभिचारात् / न च संवादनशक्तिरेव संवादनमित्यदुष्टम, शक्तेरप्रत्यक्षत्वात् कार्यमन्तरेण तद्भावानवगतेः,न च ततोऽनन्या शक्तिरिति तदवगतावेव तदवगतिः, तदाभासतोऽप्रवृत्तिप्रसङ्गात् तच्छ क्त्यवगमापत्तः, न च तदाभासत्वतो न तच्छक्त्यवगमः, तेनाऽपि आत्मवेदनात् तस्याश्च तदनन्यत्वात्, न च सम्यग् निश्चयशक्तेरेवाऽवगतिरिति युक्तम्, तत्त्वतो वचनमात्रत्वात् तथा-प्रतीप्रत्यभावात, इति। एवं च तत्रैव प्रामाण्यमात्मसात्कुरुत इति वचनमात्रम्। यचोक्तं पूर्वपक्षग्रन्थे एव- 'तच्च यत्रांशे पाश्चात्यं निश्यं जनयितु शक्नोति तत्रैव प्रामाण्यमात्मसात्कुरुते। एतदप्ययुक्तम्। कुत इत्याहतस्य प्रक्रमात् प्रमेयवस्तुनः, निरंशत्वाऽभ्युपगमात्, अन्यथा एवमनभ्युपगमे, परसिद्धान्तापत्तिस्तत्सांशतापत्त्या इत्यर्थः / व्यावृत्तयोऽशा इति चेत्, तथाहि-त्रैलोक्यव्यावृत्तं तदिति। एतदाशङ्कयाह-न। तासां व्यावृत्तीनाम,परमार्थतस्तदव्यतिरिक्तत्वेन-वस्त्वव्यतिरिक्तत्वेन हेतुना, तन्मात्ररूपत्वाद्-वस्तुमात्ररूपत्वात्। एतदेव स्पष्टयन्नाह-तस्यैव वस्तुनः, त्रैलोक्यव्यावृत्तिरेव एकः स्वभावो यस्य तत् तथेति विग्रहस्तद्रावस्तस्मादिति / दोषान्तरमाह- कथञ्चेत्यादिना / कथं च निश्वयस्य विकल्पात्मकत्वात् कारणात्,तत्त्वतः- परमार्थन निर्विषयत्वात्, तद्विषयतावस्तुविषयता युक्ता, येनोच्यते 'यत्रांशे पाश्चात्यं निश्चयं जनयितुं शक्नोति' इति,नहिएतद्-अतद्विषयत्वे चारु। सतत इत्यादि। स-निश्चयः, ततो वस्तुनः भवतीति कृत्वा तन्निश्चयो-वस्तु-निश्चय इति चेत् / एतदाशक्याह-न / अतिप्रसङ्गात् / एनमेवाह-नीलादि पश्यतः प्रबन्धन क्वचिद् अर्थान्तरावगमे, भिन्नजातीय-विकल्पाभ्युपगमात-स्मार्तपीता-विकल्पाभ्युपगमात्, तस्य च विकल्पस्य,ततो नीलादिदर्शनाद्भावात् / अन्यथा एवमनभ्युपगमे, अहेतुकत्वापत्तेस्तस्याऽतिप्रसङ्ग इति / निश्चयमेवाऽधिकृत्य, प्रकारान्तरमाह-संवादको निश्चय इति चेत्। एतदाशक्याह-न। अप्राप्यदेशगतजलादिनिश्चियेन व्यभिचारात. स हि निश्चयोऽसंवादकश्च / न च संवादनशक्तिरेव संवादनमित्यदुष्टम्, किं तु दुष्टमेव / कुत इत्याह--शक्तेरप्रत्यक्षत्वात्। यदिनामैवं ततः किमित्याह-कार्यमन्तरेण संवादनादिरूपम्, तद्भावानवगतेः-शक्तिभावानवगतेः। न चेत्यादि। न च ततो निश्चयात्, अनन्या शक्तिरिति कृत्वा तदवगतावेवनिश्चयावगतावेव, तदवगतिः- शक्त्ययगतिः / कुत इत्याह- तदाभासतोनिश्चयाभासतः / किमित्याहअप्रवृत्तिप्रसङ्गात्। प्रसङ्गश्च-तच्छक्त्यवगभापत्तेः-तदाभासशक्त्यवगमापत्तेः / न चेत्यादि। न च तदाभासत्वतः कारणात्, न तच्छक्त्यवगमोन तदाभासशक्त्यवगमः, किन्तु अवगम एव / कुत इत्याह- तेनाऽपि तदाभासे न, आत्मवेदनात् कारणात् / यदि नामैवं ततः किमित्याहतस्याश्च तदाभासशक्तेः, तदन्यत्वात्-तदाभासाऽनन्यत्वात् / न चेत्यादि / न च सम्यग् निश्चयशक्तेरेवाऽवगतिरिति युक्तम् / कुत इत्याह- तत्त्वतो वचनमात्रत्वाद्, वचनमात्रत्वं च तथा सम्यग् निश्चयशक्त्यवगमरूपेण प्रतीत्यभावादिति / एवं च यथोक्तनीत्या, तत्रैय प्रामाण्यमात्मसात्कुरुते इति वचनमात्र निरर्थकमित्यर्थः / इतश्च वचनमात्रम्- "यत्र तु भ्रान्तिकारणसद्भावाद् अशक्तं तत्र प्रमाणान्तरं व्याप्रियते" इत्याद्युपन्यासात् / तथाहि यदि तत्क्वचिद् अशक्तं पाश्चात्यं निश्चयं जनयितुमेवं तर्हि अशक्तमेव, सर्वथैकत्वात् एकस्य चैकस्वभावत्वेन शक्तत्वाऽ