________________ सामण्णविसेस 667 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस स्याऽपि वर्धमानादिज्ञानस्य तद्भावापत्तिः- ऋषभादिज्ञान त्वापत्तिः / कुत इत्याह- अधिकृतवस्तुनः अनेकस्वभावतया तथानियतस्य उक्तयद विचित्रस्य, तथात्वावराधात् तत्तज्ज्ञान्यपक्षया इत्यादित्वविरोधात् / तथाहि- ऋजुपालि कातीरादौ दुष्षमसुषमान्ते च वधमानादिज्ञान्यपक्षया अविकलात्मग्राहकज्ञानाभिव्यञ्जकात्मकत्वेन एव एकत्र ऋषभादिज्ञाने,अस्य कालन्यापयोग इति वर्धमानादिज्ञानाऽभावे तथात्वविरोधः / एवमन्यापेक्षयाऽप्यतिसूक्ष्मधिया भावनीयमेतद् अतिगहनत्वा-दिति। एकान्तेत्यादि। एकान्तकस्वभाववस्तुयादिनस्तु बोद्धादेः, एष दोषः-अनन्तानां तदविकलात्मग्राहकज्ञानाऽभावलक्षण अनिवारितप्रसर एव / कथमित्याह- तद्भेदनिबन्धनाअनन्तज्ञानभेदनिबन्धना, अधिकृतवस्तुवैचित्र्यानुपपत्तेः उक्तवद् अधिकृतवस्तुवैचित्र्यमेवाऽत्र कारणमिति। दूषणान्तरमाह-किश्चेत्यादिना। किश-निर्विकल्पकनाऽपि प्रत्यक्षेण भवदभिमतेन, एकस्वभावेएकान्तकस्वभावे, वस्तुनि भवदभिमते परिच्छिन्ने सति कथं नाऽनेकप्रमाणवादहानिरिति। चिन्त्यम् / प्रमेयान्तराभावेन प्रमाणान्तराभावाद् हानिरेवेत्यर्थः / पराभिप्रायमाह-प्रत्यक्षस्य निर्विकल्पकस्य, अनिश्चयरूपत्वात् कारणाद् चिन्तितमेवैतद्। यदुक्त भवता न च एतद् अपूर्वमिति उपदर्शयन्नाहआह च न्यायवादी-न प्रत्यक्षं कस्याचिद् निश्चायकम्, तद् यमपि गृह्णापि तं न निश्चयेन, किं तर्हि? तत्प्रतिभासेन / तच्च यत्रांशे पाश्चात्यं निश्चयं जनयितुं शक्नोति तत्रैव प्रमाण्यमात्मसात्कुरुते, यत्र तु भ्रान्तिकारणसद्भावाद् अशक्त तत्र प्रमाणान्तरं व्याप्रियते, समारोपव्यवच्छेदार्थमिति भ्रान्तिव्युदासाय प्रमाणान्तरप्रवृत्तिरिति। आह च न्यायवादी धर्मकीर्तिर्वातिके, किमाह? इत्याह-न प्रत्यक्ष कस्यचित् पदार्थस्य निश्वायकम, तद्द्यमपि पदार्थ गृह्णाति त न निश्चयेन 'एवमेतद्' इत्येवंरूपेण, किं तर्हि? तत्प्रतिभासेन आदर्शवत्गृह्यमाणाऽऽकारण तच्च एवंभूतं प्रत्यक्षम्, यत्रांशे वस्तुगते, पाश्चात्यं निश्चयंजनयितु शक्नोति नीलादौ तत्रैवाऽशे प्रामाण्यमात्मसात्कुरुते नीलादौ / यत्र तु अंशेऽनित्यादौ, भ्रान्तिकारणसद्भावात् कारणात्, अशक्त पाश्चात्य निश्चयं जनयितुम्, तत्रांशे प्रमाणान्तरं व्याप्रियतेऽनुमानम् / किमर्थमित्याह-समारोपव्यवच्छेदार्थपरिकल्पितसमारोपव्यवच्छेदार्थम्, इत्यवं भ्रान्तिव्युदासायसमारोपव्युदासाय,प्रमाणान्तरप्रवृत्तिः- अनुमानप्रवृत्तिः / इत्येवं पूर्वपक्षमाशङ्कयाहअत्रोच्यते-यदुक्तम्- 'न प्रत्यक्ष कस्याचिद् निश्चायकम्' इति, अत्र कोऽयं निश्चयो नाम? स्वालम्बनोऽध्यवसाय एवेति चेत्, नाऽयं तदाकारोत्पत्तिव्यतिरेकेण। अस्त्वेवततः को दोषः? इति चेत्, नासौ-न प्रत्यक्षेऽपि, कथमनिश्चयिकं तत् ? वस्तु मात्रप्रतिभासनाद् इति चेत्, अवस्तुप्रतिभासा तर्हि निश्चयः / न / तत्रैव दृढः प्रत्यय इति चेत्, कथं तदाकारशून्यस्तत्रेति। किञ्च-किं पुनरस्य दयम् किं निर्विकल्पकसमनन्तरत्वम्? किं वा वासनाजन्म? उताऽध्यवसिततद्धावता? आहोस्वित् ध्वनियोगः? न तावद् निर्विकल्पकसमनन्तरत्वम्, तदपरानविल्पकेन व्यभिचारात् निर्विकल्पकसमनन्तराद् निर्विकल्पकोत्पत्तेः / नाऽपि वासनाजन्म,निर्विकल्पकस्याऽपि तत उत्पत्तेः,तत्-तत्समनन्तराऽव्यतिरेकात् / नापि अध्यवसिततद्भवता, अतदाभेन तत्परिच्छेदायोगात् तत्त्वतस्तदनुपपत्तेः। नाऽपि ध्वनियोगः, तत्तादात्म्याद्ययोगतस्तदसिद्धेः, तद्युक्तस्यापि तदाकारोत्पत्तिप्रधानत्वादिति / न च सैव के वला अनिश्चयः, स्वालम्बनपरिच्छेदात् न च न सोऽपि, तत्त्वतः तत्स्वभावतया ततस्तद्वोधोपपत्तेः। न च मूककल्पत्वाद् नेति, बोधस्याऽनिश्चयत्वविरोधात् / न चाऽस्पष्टतया नेति, तस्याः स्पष्टताऽभ्युपगमादिति। अत्रोच्यते-- यदुक्तमित्यादि / यदुक्तमादौ-'न प्रत्यक्ष कस्यचिद् निश्चायकम् इति / अत्र व्यतिकरे कोऽयं निश्चयो नाम? स्वाऽऽलम्बनाध्यवसायः-स्वविषयपरिच्छेद एवेति चेत् / एतदाशङ्कयाह- नायं यथोदिताध्यवसायः, तदाकारोत्पत्तिव्यतिरेकेण स्वालम्बनाऽऽकारोत्पत्तिव्यतिरेकेण, अस्त्वेवम्-भवतु स्वालम्बनाकारोत्पत्तिरेव निश्चयः, ततः को दोष इति चेत् ? एतदाशङ्ख्याह-नासौ स्वालम्बनाकारोत्पत्तिः, न प्रत्यक्षेऽपि, किंतर्हि अस्त्येव। अतः कथमनिश्चायक तत् प्रत्यक्षम् ? भवदभिप्रेतनिश्चयलक्षणोपपत्तेनिश्चायकमेव इत्यर्थः / वस्तुमात्रप्रतिभासनाद् अनिश्चायक तद् इति चेत्। एतदाशङ्कयाऽऽह-अवस्तुप्रतिभासी तहि निश्चयः तताऽनिश्चय इति गर्भः। नाऽवस्तुप्रातभासी, किंतु तत्रैव वस्तुनि, दृढः प्रत्ययो निश्चयः इति चेत्। एतदाशङ्कयाह-कथं तदाकारशून्योवस्त्वाकारशून्यस्तन्मात्रप्रतिभासनेनतत्रेतिवस्तुनीति। अभ्युच्चयमाह-किञ्चेत्यादिना / किं पु, नरस्य प्रत्ययस्य दाढ्यम् ? किं निर्विकल्पकसमनन्तरत्वम् , निर्विकल्पकं समनन्तरा यस्येति विग्रहस्तद्भावो निर्विकल्पकसभनन्तरत्वं तत्? किंवा-वासनाजन्म वासनातो जन्म तत? उताऽध्यवसिततद्धावता-अध्यवसितः-परिच्छिन्नः तद्भावोऽवस्तुभावो ये नेति विग्रहस्तद्भावोऽध्यवसिततद्भावता? अहोस्वित् ध्वनियोगः-शब्दसम्बन्धः प्रत्ययदाळमिति? एवं विकल्पचतुष्टयमुपन्यस्याऽऽह-न तावद निर्विकल्पक-समनन्तरत्वं प्रत्ययदाढयम्। कुत इत्याह-तदंपरनिर्विकल्पके-न व्यभिचारात्, तस्माद् अधिकृतप्रत्ययाद अपरं च तन्निर्विकल्पकं च तेनाऽनैकान्तिकत्वात्। एतत्प्रकटनायैवाऽऽहनिर्विकल्पकसमनन्तरात्सकाशात्, प्रबन्धेन निर्विकल्पकोत्पत्तेः / नाऽपि वासनाजन्म प्रत्ययदायम् / कुत इत्याह-निर्विकल्पकस्यापि तता वासनातः, उत्पत्तेः कारणात् उत्पात्तश्च तत्- तत्समनन्तराऽव्यतिरेकात् तस्यावासनायाः तत्समनन्तराऽव्यतिरेकात निर्विकल्पकसमन