________________ सामण्णविसेस 666 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस मात्रा, तद्ग्रहात्-अधिकृतस्वभावग्रहात, तदपरावसायग्रहणप्रसङ्ग:तस्मात-एकस्मात् प्रमातुरपर प्रक्रमात्,प्रमातार एव तदपरे तेपामयसायाः-ज्ञानाति तेषां ग्रहणम्-अवगमस्तत्प्रसङ्ग इति समासः / कुत इत्याह-तस्यत्यादि। तस्याऽधिकृतस्वभावस्य, किं विशिष्टस्यत्याहतज्जननस्वतत्त्वस्य अपरावसायजननस्वभावत्वस्य, अन्यथा तदपराऽवसायग्रहणमन्तरेण, ग्रहणाऽयोगात्, अयोगश्च तत्सावधिकत्वात्, - तदपरावसायजननस्वभावो ह्यसाविति तत्सावधिकः / यदि नामैवं ततः किमित्याह-न निरवधिक ग्रहणं तदपराऽवसायजननस्वभावविकलं ग्रहणम्, तद्ग्रहणं तदपरावसायजननस्वभावग्रहणमिति भावनीयमेतत् / परभिप्रायमाह-मलसामर्थ्याद् हेतोः तदग्रहणम्- अपरावसायाख्यावध्यग्रहणम् / एतदाशङ्कयाऽऽह- तदग्रहणमेवतस्याधिकृतरयभावस्याऽग्रहणमेव। कुत इत्याह-सर्वथैकत्वात् एक एव ह्यसौ तदपराऽवसायजननस्वभाव इति, तदग्रहणेऽग्रहणमिति गर्मः। इत्थं चैतदगीकर्तव्यमित्याह- अन्यथा एवमनभ्युपगमेतदवधिग्रहणानभ्युपगमे, अस्य स्वभावस्य, ग्रहणाऽग्रहणप्रसङ्ग / समान्येन ग्रहणात् अवधिमत्तयाऽग्रहणात्। यदि नामव ततः किमित्याह-तथा च सतिएवं च सति, अरमन्मतानुवाद एव तचित्रताविधानेन, अत एवाह-- गृह्यमाणाऽगृह्यमाणयोर्धर्मयोः, एकत्वविरोधादिति / एवं तच्चित्रतयैवस्वभावचित्रतथैव, कशंचित् केनचित् प्रकारेण, तद्ग्रहणात्- अधिकृतस्वभावग्रहणात, एकस्याऽपि वस्तुनः, सामान्येन अनेकप्रमातृभिरवसायः , नान्यथा। कुत इत्याह-उक्तदोषानति वृत्तेः 'ततस्तयारक्यम्' इत्याधुक्तदोषानतिवृत्तेः, इत्यलं प्रसनेनेति। यत्रोक्तम्-किञ्च विकल्पात्मकत्वेऽस्य 'निश्चयात्मकमिदम्' इत्यनेकप्रमाणवादहानिः, तेनैव वस्तुनो निश्चयात्, नित्यवादी भान्त्यनुपपत्तेः, अनेकधर्मके वस्तुन्यन्यतरधर्मनिश्चयात्, तदन्यनिश्चयाय प्रमाणान्तरसाकल्यमिति चेत्, इत्याशय'नैकधर्मविशिष्ट स्यापि निश्यचे सर्वधर्मवत्तया निश्चयात्, प्रमाणान्तरस्य निश्चितमेव विषयीकुर्वतः स्मृतिरूपानतिक्रमात्, एकधर्मद्वारेणाऽपि तद्वतो निश्चयात्मना प्रत्यक्षेण विषयीकरणे सकलधर्मोपकारकशक्त्यभिन्नात्मनो निश्चयात्' इत्यादि, तदप्ययुक्तम् / छद्मस्थज्ञानस्येत्थमप्रवृत्तेः, ज्ञेयतज्ज्ञानक्षयोपशमानां तथास्वभावत्वादित्युक्तप्रायम्, केवलिनां तु तथानिश्चयः,प्रमाणान्तराभावश्च, इति न कश्चिद्घोषः / आहएवमप्यने कस्वभावतया ततस्तथानियतात् कथमनन्तानां केवलिनां तदविकलात्मग्राहकज्ञानभावः, एकत्र कास्योपयोगित्वेन तत्तज्जननस्वभावत्वात्, अपरस्यापि तद्भावापत्तेर्हेत्वविशेषादिति, न, हेत्वविशेषासिद्धेः, ज्ञानिनोऽन्यत्वात्, अधिकृतवस्तुनश्च विचित्रत्वात्, तत्तज्ज्ञान्यपेक्षया तत्र तत्र तदा तदाऽविकलात्मग्राहक ज्ञानाभिव्यञ्जकात्मकत्वेनै कत्र कास्न्योपयोगित्वादिति / न चैवम-परस्यापि तद्भावापत्तिः, अधिकृतवस्तुनस्तथात्वविरोधादिति सूक्ष्मधिया भावनीयम् / एकान्तकस्वभाववस्तुवादिनस्त्वेष दोषोऽनियारितप्रसर एव, तद्भेदनिबन्धनाधिकृतवस्तुवैचित्र्यानुपपत्ते रिति / किश्चनिर्विकल्पकेनाऽपि प्रत्यक्षेणैकस्वभावे वस्तुनि परिच्छिन्ने कथं नाऽनेक प्रमाणवादहानिरिति चिन्त्यम्? प्रत्यक्षस्यानिश्चयरूपत्वाचिन्तितमेवैतत् / यत्रोक्तं पूर्वपक्षे-- किश विकल्पात्मकत्वेऽस्येत्यादि / यावदेकधर्मद्वारेणाऽपि तद्वतो निश्चयात्मना प्रत्यक्षेण विषयीकरणे सकल-- धर्मोपकारकशक्त्यभिन्नात्मनो निश्चयादित्यादि, तदप्ययुक्तम्। कुत इत्याह-छदारथज्ञानस्यत्थमप्रवृत्तेः कारणात्, अप्रवृत्तिश्च ज्ञेयतज्ज्ञानक्षयोपशमाना त्रयाणामपि, तथास्वभावत्वात् चित्रतयाउसर्वधर्मवत्तया निश्चयनिबन्धस्वभावत्वात्, इत्युक्तप्राय प्रायेणोक्तम् / केवलिनां तु क्षीणसकलावरणाना, तथानिश्चयः-सकलधभवत्तया निश्वयः, प्रमाणान्तराभावश्च केवलिनामनुमानाद्यभावश्चेति / न कश्चिद् दोष : / आह- एवमपि केवलिनां तु तथा-निश्चयतेऽपि सति, अनेकस्वभावतया, ततो वस्तुनः, तथानियतात्- समग्रानेक-स्वभावतया नियतात्, एकस्वभावत्वविकल्पादित्यर्थः / कथमनन्तानां प्रभातॄणां केवलिनां वृषभादीनाम्, तद्विकलात्मकग्राहकज्ञानभावः तस्यानेकस्वभावतया तथानियतस्य वस्तुनोऽविकलो य आत्मा, तद्ग्राहकज्ञानोत्पादस्ततः कथम्? नैवेत्यर्थः / कथं नेत्याह- एकत्रेत्यादि / एकत्रऋषभादिज्ञाने, कान्योपयोगित्वेन हेतुना, तत्तजननस्वभावत्यात्-- अधिकृतवस्तुन ऋषभादिज्ञानजननस्वभावत्वात्, नान्यथा ततस्तथा तदुत्पाद इति भावनीयम्। यदि नामैवं ततः किमित्याह-अपर-स्यापि वर्द्धमानादिज्ञानस्य, तद्भावापत्तेः-ऋषभादिज्ञानापत्तेः / कथमित्याहहेत्वविशेषादिति। ऋषभादिज्ञानजननस्वभावह्यधिकृतं वस्तुतद्धेतुस्ततस्तस्याऽपि तद्वत्तद्भावापत्ते, अतो न ततोऽनन्तानां तदविकलात्मग्राहकज्ञानभाव इति / उक्त च यतः- 'स्वभावतो जातम्' इत्यादि, असर्वज्ञतावा सर्वेषामन्योन्यमधिकृतवस्तुनोऽनुत्पत्तितस्तदनधिगमःदिति पराभिप्रायः। एतदा-शङ्कयाह-नेत्यादि। न-नैतदेवम्,यदभ्यधायि परेण, कुत इत्याह-हेत्वविशेषासिद्धेः / कथमसिद्धिरित्याह-ज्ञानिनोऽन्यत्वाद् वर्द्धमानादेः, द्वयमिहज्ञानहेतुः-जीवः, अधिकृतवस्तु च। न चैतदप्येकरूपमेवेत्याह-अधिकृतवस्तुनश्च अनेकस्वभावतया तथानियतस्य विचित्रत्वात। ततः किमित्याह-तत्तज्ज्ञान्यपेक्षया-ऋषभवर्द्धमानादिज्ञान्यपेक्षया, तत्र तत्र सिद्धाथवनऋजुपालिकातीरादौ क्षेत्र, तदा तदा सुषमदुःषमादुः पमसुषमान्तादौ काले, अविकलात्मग्राहकज्ञानाभिव्यकात्मकत्वेन एवंभूतेनात्मना, एकत्र ऋषभादिज्ञाने. कारन्योपयोगित्वात-- सामस्त्येनोपयोगित्वादिति। न चेत्यादि। न चैवम्-उक्तेन प्रकरण, अप--