________________ सामण्णविसेस 673 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस अत्र अन्यत् समारोपस्यापि उपादानम्, अपि तु-अधिकृतानुभव एव पौर्वापर्यस्य च पूर्व समारोपः पश्चान्निश्चय इत्येवंभावस्य च अनियामकत्वाद् भेदे प्रति, तथा क्वचिद् तस्यापि पौर्वापर्यस्य तुल्यत्वात् / एतदेवाह- अनित्यादिप्रतिपत्तावपि सत्यां तथागत वचनादेः, पुनार्नेत्यादिनिश्वयोपलब्धः कपिलादिवचनादेः, वस्तुन एव सकाशात तस्या नित्यादिनिश्चयोपलब्धेः पारम्पर्येण भावात्, तदाश्रयत्वाद् वचनप्रवृत्तः। यद्वा-वचनमन्तरेणाऽपि स्वत एव कृचिदेवंभावात्, तथाहिवस्तुनि अनित्यत्वविकल्पोऽपि भवति, नित्यत्वविकल्पोऽपि भवतीति लौकिकमतत् / एवं च सति तदन्यतरापरनिमित्तत्वे तयोः- समारोपनिश्चययोरन्यतरल्य-समारोपस्य, अपरनिमित्तत्वे अभ्यु-पगम्यमाने, तदितरत्र अपि निश्चये, तन्निमित्तत्वानाश्वासात्-अधिकृतवस्तुनिमित्तत्वाना श्वासात्। इह तावद् अनित्यादिप्रतिपत्तिर्वस्तुनिमित्ता इति भवतो मतम्, इहापि अनाश्वासः, तत्तुल्ययोगक्षेमाया नित्यादिनिश्चयोपलब्धेः अतन्निमित्तत्वाभ्युपगमाद इति भावः / अनाश्वासश्वविशेषहेत्वभावाद् द्वयोरपि, तथा--दर्शनानन्तरभावित्वेन नित्यस्य सत्ता एव असंभविनी, क्रमयोगपद्याभ्यामर्थक्रियायोगाद् इति। विशेषहेतुनिराचिकीर्षया आहअनित्यस्यापि निरन्वयक्षणस्थितिधर्मिणः, अर्थक्रियाऽयोगाद इत्येतद निर्लोटयिष्यामः पुरस्ताद, अत एतद् अपि अयुक्तमिति स्थितम्।। किञ्च-समारोपव्यवच्छेदभावाविशेषाद् अनुमानविकल्पवत् कथं रूपादिविकल्पो न प्रमाणम् ? समुद्भूतसमारोपव्यवच्छेदेन अभावादिति चेत् / न / क्वचित् तथाऽपि भावदर्शनेन अविरोधात्, शुक्तिकाशकलादौ रजतादिसमारोपव्यवच्छेदेन तद्भावात् न च-नसोऽपि रूपादिविकल्पः तन्मात्रहेतुत्वात,न च तत्त्वत एक स्याऽपि तदितरनाशनेन प्रवृत्तिः,नाशस्य निर्हेतुकत्वाऽभ्युपमात् तदभाव एव तद्भावोपपत्तेः / लिङ्गलिनिसम्बन्धस्मरणादिनाऽप्रवृत्तेरिति चेत्, कोऽयं गुणे भवतो दोषाभिनिवेशः? वस्तुसमारोपाभावेऽय उपयोगात्, न च- | नाऽसौ रूपादिविकल्पस्याऽपि तदभावे तत्प्रवृत्त्यनुपपत्तेः इति नानयोर्विशेषः। स खलु गृहीतग्राही एव, प्रत्यक्षप्रतिभासिनोऽर्थस्य परामर्शात्,नहि अनुमानविकल्पोऽपि नैवमिति परिभाव्यतामेतत्। अभ्युचयमाह- किश्वेत्यादिना / किंच-समारोपव्यवच्छेदभावा- | विशेषात, कारणात्, अनुमानविकल्पवद इति दृष्टान्तः, कथं रूपादिविकल्पो न प्रमाणं प्रमाणलक्षणयोगेऽपिः एतदाशङ्कयाहसमुद्भूतसमारोपव्यवच्छेदेन अभावाद् इति चेत् / न हि अयमनुमानविकल्पवत् समुद्भूतसमारोपव्यवच्छेदेन भवति। एतदाशङ्क-याहम. यादि / न, वचिद्-वस्तुनि, तथापि-समुद्भूतसमारोपव्यवच्छदेनाऽपि भावदर्शनेन-उत्पाददर्शनेन हेतुना, रूपादिविकल्पस्य | अविरोधात प्रमाणत्वस्य / एतदेवाऽऽह-शुक्तिका-शकलादौवस्तुनि, रजतादिसमारोपव्यवच्छेदेन तद्भावात्-शुक्तिकादिविकल्पभावात् / नचेत्यादि। न च न सोऽपि-शुक्ति-काविकल्पो रूपादिविकल्पः, किन्तु रूपादिविकल्प एव / कुत इत्याह-तन्मात्रहेतुत्वाद्-रूपादिमात्रहेतुत्वात. न च तत्त्वतः-परमार्थेन, एकस्याऽपि-अनुमानविकल्पस्य रूपादिविकल्पस्य वा; तदितरनाशनेनसमुद्भूतसमारोपनाशनेन, अञ्जसा प्रवृत्तिः। कुतो न इत्याह नाशस्य निर्हेतुकत्वाऽभ्युपगमात्तथा तदभावे एव-समारोपाऽभावे एव, तद्भावोपपत्तेः- अनुमानादिविकल्पभावोपपत्तेः / इहैव परिहारान्तरमुपन्यस्यन्नाह- लिङ्ग लिङ्गिसंबन्धस्मरणादिना प्रकारेण, अप्रवृत्तेः कारणाद् इति चेत्, रूपादिविकल्पो न प्रमाणमिति प्रक्रमः / एतदाशङ्ख्याह- कोऽयं गुणे भवतो दोषाभिनिवेशः? ननु लिङ्ग लिङ्गि संबन्धस्मरणादिप्रवृत्तिमन्तरेण तद्भवनं गुणः / प्रस्तुतसमर्थनाय आह--वस्तुसमारोपाऽभावे अस्य अनुमानविकल्पस्य उपयोगात्, न च-नासौ रूपादिविकल्पस्यापि वस्तुसमारोपाभावे उपयोगः, किन्तु अस्त्येव / कुत इत्याह-- तदभावे-वस्तुसमारोपा-भावोपयोगाभावे समारोपभावेन, तत्प्रवृत्त्यनुपपत्तेः-रूपादिविकल्प-प्रवृत्त्यनुपपत्तेः, अस्ति च प्रवृत्तिरिति नानयोरनुमानविकल्परूपादि-विकल्पयोर्विशेषः, अतः कथमनुमानविकल्पवद्रूपादिविकल्पो न प्रमाणमित्याख्येयमेतत् / प्रस्तुतमाचिख्यासुराह- स खल्वित्यादि। स खलु-प्रक्रमाद् रूपादिविकल्पः / किमित्याह- गृहीतग्राही एव / कुत इत्याह-प्रत्यक्षप्रतिभासि नोऽर्थस्य रूपादेः, परामर्शात कारणात्, स हि तमेव स्पृशति नाधिकं परिच्छिनत्ति, अतो न प्रमाणमिति / एतदाशङ्ख्याह-नहीत्यादि / नहि अनुमानविकल्पोऽपि नैवम्, किं तर्हि एवमेव-गृहीतग्राही एव, इत्यादि परिभाव्यतामेतत् / स्वभावहेतो सुज्ञानमेव कृतकस्य एव अनित्यत्वात्, कार्यहतौ अपि वह्निजन्यस्वभावो धूमः, तत्त्वेनप्रत्यक्षेण प्रतिभासंते, अन्यथा तत्प्रतिभासाभाव एवेति भावनीयम्। नहि प्रत्यक्षं भागश उत्पद्यते, निरंशत्वात्, सत्यं न उत्पद्यत इति / अनुमानविकल्पपरामर्शालम्बनमपि तत्र गृहीतमेव केवलं गृहीतेऽपि येष्वाकारेषु, न तदनन्तरमेव निश्चयोत्पत्तिर्भूयसा व्याप्तिदर्शनात्तु भवति, तद्विषय एव अनधिगतार्थाऽधिगन्तृत्वात, प्रमाणमनुमानविकल्पो नेतर इति, यत्किञ्चिदेतत्, अनालोचिताभिधानत्वात्। अनालोचिताभिधानत्वं च ग्राह्ये आकाराभावात् सर्वथा एकस्वभावत्वाभ्युपगमात् परिकल्पितानामसत्वात् तत्त्वेन, तत्सत्त्वे नियमतोऽतिप्रसङ्गात तथा युक्तितो व्याप्त्यसिद्धेः अतद्भावस्य कथञ्चिद् भेदनिमित्तत्वात्, अन्यथा तदयोगाद्। नहि अभेदवत एव अनित्यत्वस्य स्वात्मना व्याप्तिः, न च भिन्नयोरेव हिमवविन्ध्ययोः तथाऽनधिगतार्थाधि