________________ संख 45 - अभिधानराजेन्द्रः - भाग 7 संख ततश्च 'बुद्धिरेका एकोऽहंकारः पञ्च तन्मात्राणी' त्यादिकः परिमाणविभागोऽसङ्गतः स्यादिति निष्परिमाणमेव जगत्स्यात् / तथा प्रधानहेत्वभावे एव-प्रावतनन्यायेन 'अभेदेन शक्तिर्न क्रिया' इत्यादिना | घटादिकरणे कुम्भकारादीनां शक्तितः प्रवृत्तिरूपपद्यते, कार्यकारणविभागोऽपि प्रधानहेत्वभावे एव युक्तो नतु तत्सद्भावे इति प्राक् प्रतिपादितम् / प्रधानसद्भावे वैश्वरूप्यमनुपपत्तिकमेव, सर्वस्य जगतः तन्मयत्वेन तत्स्वरूपवदेकत्वप्रसक्तेस्तदविभागो दूरोत्सारित एवेतिन कुतश्चिद्धेतोः प्रधानासिद्धि यदपि प्रधानविकारबुद्धिव्यतिरिक्तं चैतन्यमात्मनो रूपं कल्पयन्ति "चंतन्यं पुरूषस्य स्वरूपम्" इत्यागमात्पुरूषश्च शुभाशुभकर्मफलस्य प्रधानोपनीतस्य भोक्ता नतु कर्ता सकलजगत्परिणतिरूपायाः प्रकृतेरेव कर्तृत्वाभ्युपगमात्। माणयन्ति चात्र यत्संघातरूपं वस्तुतत्परार्थ दृष्ट, यथाशयनाशनाद्यगादि, संघातरूपाश्च चक्षुरादय इति रवभावहेतुः, यश्वासो परः स आत्मेति सामर्थ्यात्सिद्धम् / अत्र च 'चैतन्यं पुरूषस्य स्वरूपम्' इत्यादिददता चैतन्य नित्यैकरूपमिति प्रतिज्ञातम् तस्य नित्यैकरूपात्पुरुषादव्यतिरिक्तत्वात, अध्यक्षविरूद्धं चेदं रूपादिसंविदां स्फुट स्वसंविच्या भिन्नस्वरूपावगमादेकरूपत्वे त्वात्मनोऽने - कविधार्थस्य भोक्तृत्वाभ्युपगमो विरुद्ध अत्सज्येत। अभोकृत्रवस्थाव्यतिरिक्तत्वादोकावस्थायाः,मच दिदृक्षादियोगादविरोधो दिदृक्षाशुश्रूषादीना परस्परतोऽभिन्नानामुत्पादैरात्मनोऽप्युत्पादप्रसङ्गः तासां तदव्यतिरेकात्, व्यतिरेके च तस्य ताः' इति सम्बन्धानुपपत्तिरूपकारस्य तन्निबन्धनस्याभावात्, भावे वा तत्राऽपि भेदाभेदविकल्पाभ्यामनवस्थातदुत्पत्तिप्रसङ्गतो दिदृक्षाद्यभावान्न भोक्तृत्वम्, प्रयोगोयस्य यद्भावव्यवस्थानिबन्धनं नास्ति नासौ प्रेक्षावता तद्भावन व्यवस्थाप्यः,यथाऽऽकाशं मूर्तत्वेन, नास्ति च भोक्तृत्वव्यवस्थानिबन्धनं पुरूषस्य दिदृक्षादि इतिकारणानुपलब्धिः / नचायमसिद्धो हेतुरिति प्रतिपादितम् / कर्तृत्वाभावाद्भोक्तृत्वमपि तस्य न युक्तम् न ह्यकृतस्य कर्मणः फलं कश्चिदुपभुक्ते अकृताभ्यागमप्रसङ्गात्। न च पुरूषस्य कर्माऽकर्तृत्वेऽपि प्रकृतिरस्याऽभिलषितमर्थमुपनयतीत्यसो भोक्ता भवति, यतो नासावप्यचेतना सती शुभाऽशुभकर्मणां की युक्ता येनाऽसौ कर्मफलं पुरूषस्य सम्पादयेत् / अथ यथा षङ्वन्धयोः परस्परसंबन्धात्प्रवृत्तिस्तथा महदादिलिङ्ग चेतनपुरूषसमबन्धाचेतनावदिव धर्मादिषु कार्येषु अध्यवसायं करोतीत्यदोष एवायम / उक्त च-“पुरूषस्य दर्शनार्थ, कैवल्यार्थतथा प्रधानस्य। पङ्ग्वन्धदुभयोरपि, संयोगात् तत्कृतः सर्गः // 21 // " (साङ्ख्यका०) इति। असदेतत्; यतो यदि प्रकृतिरकृतस्याऽपि कर्मणः फलमभिलषितमुपनयति तदा सर्वदा सर्वस्य पुंसोऽभिलषितार्थसिद्धिः किमिति न स्यात् ? नच तत्कारणस्य धर्मस्याभावान्नासाविति वक्तव्यम्, यतो धर्मस्याऽपि प्रकृतिकार्यतया तदव्यतिरेकातद्वत्सदैव भाव इति / सर्वदा सर्वस्याऽभिलषितफलप्राप्तिप्रसक्तिः / अपि च यद्यभिलषितं फलं प्रकृतिरूपनयति तदा नानिष्ट प्रयच्छेत्, न हि कश्चिदनिष्टमभिलषति / किं च-उपनयतु नाम प्रकृत्तिः फल तथाऽपि भोक्तृत्वं पुंसोऽयुक्तमविकारित्वान्नहि सुखदुःखादिना- | ऽऽहादपरिसापादिरूप विकारमनुपनीयमानस्य भोक्क्तृत्वमस्याकाशवत् सङ्गतमान च प्रकृतिरस्योपकारिणी अधिकृतात्मन्युपकारस्य कर्तुमशक्यत्वाद, विकारित्वे वा नित्यत्वहानिप्रसक्तिः अतावदस्थ्यस्याऽनित्यत्वलक्षणत्वात्तस्यापि विकारिण्यवश्यंभावित्वात् / अथ न विकारापत्त्याऽऽत्मनो भोक्तृत्वमिष्ट, किं तर्हि ? बुझ्यध्यवसितस्याऽर्थस्य प्रतिबिम्बोदयन्यायेन संचेतनात. तथाहि-बुद्धिदर्पणसंक्रान्तमर्थप्रबिम्बकं द्वितीयदर्पणकल्पे पुंस्यध्यारोहति, तदेव भोक्तृत्वमस्य नतु विकारापतिः / न च पुरुषप्रतिबिम्बमात्रसंक्रान्तावपि स्वरूपप्रच्युतिमान् दर्पणवदविचलितस्वरूपत्वात्, असदेतत्; यतो बुद्धिदर्पणारूढमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंसि संक्रामत् ततो व्यतिरिक्तमव्यतिरिक्तं वेति वाच्यम् / यदि अव्यतिरिक्तमिति पक्षस्तदा तदेवोदयव्यपयोगित्वं पुंसः प्रसज्येत उदयादियोगिप्रतिबिम्बाव्यतिरेकात्तत्स्वरूपवत / अथ व्यतिरिक्तमित्यभ्युपगमस्तदान भोक्तृतान भोक्त्रवस्थातस्तस्य कस्यचिद्विशेषस्याऽभावात्। न चार्थप्रतिबिम्बसम्बन्धात्तस्य भोक्तृत्वं, युक्तमनुपकार्योपकारकयोःसम्बन्धासिद्धेः उपकारकल्पनाया अपि भेदाभेदविकल्पतोऽनुपपत्तेः / अपि च-पुरूषस्य दिदृक्षां प्रधानं यदि जानीयात्तदा पुरूषार्थं प्रति प्रवृत्तियुक्ता स्यात् नचैव तस्य जडरूपत्वात्, सत्यपि चेतनावत्सम्बन्धे नपग्वन्धदृष्टान्तादप्रवृत्तियुक्तिमती, यतोऽन्धो यद्यपि मार्ग नोपलभते तथाऽपि पड़ोर्विवक्षामसी वेत्ति तस्य चेत-नावत्त्वात् न चैवं प्रधानं पुरूषविवक्षामवगच्छति तस्याचेतनावत्त्वेन जडरूपत्वात्। नच तयोनित्यत्वेन परस्परमनुपकारिणोः पङ्ग्वन्धवत्सम्बन्धोऽपि युक्तः / अथ प्रधानं पुरूषस्य दिदृक्षामवगच्छतीत्यभ्युपगम्यते, तथा सति भोक्तृत्वमपि तस्य प्रसज्यते करणज्ञस्य भुजि क्रियावेदकत्वाविरोधात् / न चय एक जानाति तेनापरमपि ज्ञातव्यमित्ययं न नियमो यतः प्रधानस्य कर्तृत्वे भो-वतृत्वमपि नियतसन्धीति युक्तं वक्तुम्, यतो यदि प्रधानस्य बुद्धिमत्त्वमङ्गीक्रियतेतदा पुरुषवचैतन्यप्रसङ्गो बुध्द्यादीनां चै-तन्यपर्यायत्वात्, यतो यत् प्रकाशात्मतया अपरप्रकाशनिरपेक्ष स्वसंविदितरूपं चकास्तितत् चैतन्यमुच्यते, तद्यदिबुद्धेरपि समस्ति चिद्रूपा सा किमिति न भवेत् / न च यथोक्तवुद्धिव्यतिरेकेणापरं चैतन्यमुपलक्षयामः, यतस्तद्वपतिरिक्तस्य पुरुषस्य सिद्धिर्भवत् / (सम्म०) (अत्रत्या विशेषवक्तव्यता 'वुद्धि' शब्दे पञ्चमभागे 1327 पृष्ठे गता।) यदपि"पराश्चिक्षुरादयः" इत्याधुक्तम्, तत्राधेयातिशयो वा परः साध्यत्वेनाभिप्रेतः, यद्वा-अविकार्यनाधेयातिशयः, आहोस्वित्सामान्येन चक्षुरादीनां पारार्थ्यमात्रं साध्यत्वेनाभिप्रेतमिति विकल्पत्रयम्। तत्र यदि प्रथमः पक्षः स न युक्तः, सिद्धसाध्यतादोषाऽऽघातत्वाद् यतोऽस्माभिरपि विज्ञानोपकारित्वेनाभ्युपगता एव चक्षुरादयः "चक्षुः प्रतीत्य रूपादियोत्पद्यते, चक्षुर्विज्ञानम्" इत्यादिवचनात् / अथ द्वितीयः पक्षोऽङ्गीक्रियते तदा हेतोविरूद्धतालक्षणो दोषः, विकार्युपकारित्वेन चक्षुरादीना साध्यविपर्ययेण दृष्टान्ते हेतोयाप्तत्वप्रतीतः / तथाहिअविकारिण्यतिशयस्याधातुमशक्यत्वाच्छयनाशनाऽदयोऽनित्यस्यैवो पकारिणो युक्ता नाऽनित्यस्येति कथं न तोविरुद्धता ? यदि पुनः सामान्येन आधे याऽनाधेयातिशयविशेषमपास्य पारा